मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| अष्टाविंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - अष्टाविंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र अष्टाविंशः स्तबकः Translation - भाषांतर रेणुकादिवर्णनम् (वसन्ततिलकावृत्तम्)अन्तर्वलक्षपरिधिभ्रममादधानोवक्त्रस्य पूर्णतुहिनद्युतिमण्डलस्य ।हासः करोतु भवतां परमं प्रमोदंशुद्धान्तपङ्कजदृशः प्रमथेश्वरस्य ॥१॥सम्मोहनानि तुहिनांशुकलाधरस्यसञ्जीवनानि सरसीरुहसायकस्य ।सन्दीपनानि विनतेषु जनेषु शक्तेःसंहर्षणानि मम सन्तु शिवास्मितानि ॥२॥पापानि मे हरतु काचन कृत्तशीर्षामाता पदाम्बुजभुजिष्यवितीर्णहर्षा ।या भक्तलोकवरदानविधौ विनिद्रावासं कमण्डलुधुनीपुलिने करोति ॥३॥षष्ठावतारजननावनिरेकवीराभीमा धुनोतु दुरितानि गणाधिपस्य ।या भक्तरक्षणविधावतिजागरूकापुण्ये कमण्डलुधुनीपुलिने चकास्ति ॥४॥छेदाय चेद् गतरजा मुनिरादिदेशचिच्छेद चेद्बहुगुणस्तनयः सवित्रीम् ।दाह्यं शरीरमखिलप्रभुरीशशक्तिःयद्याविवेश च कथा परमाद्भुतेयम् ॥५॥पुत्रः प्रियस्तव शिरः सहसा चकर्तकृत्ता च हर्षभरिता भवती ननर्त ।नो तस्य पापमपि नो तव काऽपि हानिःनाशोऽस्य हा भुजभुवामभवद्विपाकः ॥६॥अम्बैव सा सुरभिर्जुनभूपतिर्यांवीर्याज्जहार स च भार्गव आजहार ।तस्या हतेः परगृहस्थितिरेव हेतुःगन्धर्वदर्शनकथा रिपुकल्पितैव ॥७॥छिन्नानि नो कति शरीरभृतां शिरांसितत्पूज्यते जगति रैणुकमेव शीर्षम् ।कृत्ताः कलेवरवतां कति नाभयो नचेतो धिनोति सुरभिर्मृगनाभिरेकः ॥८॥प्राणा वसन्ति शिरसा रहिते शरीरेलीलासरोजति शिरस्तु करेऽस्य कृत्तम् ।तन्निघ्नमेतदखिलं च धियैव धीराःपश्यन्तु नन्दनगरे तदिदं विचित्रम् ॥९॥प्राणेश्वरी विधिपुरे लसतः पुरारेरङ्गीकरोतु शरणागतिमम्बिका मे ।लब्धं निपीय यदुरोरुहकुम्भदुग्धंसम्बन्धमूर्तिरभवत्कविचक्रवर्ती ॥१०॥अप्राप्य लोकरचनावनपातनेषुयस्यास्त्रयोऽपि पुरुषाः करुणाकटाक्षम् ।नैवेशते किमपि सा जगदेकमाताभद्रा परा प्रकृतिरस्त्वघनाशिनी नः ॥११॥राका प्रबोधशशिनो हृदयोदयस्यनौका विपज्जलनिधौ पततां जनानाम् ।वेदध्वजस्य ललिता त्रिरुचिः पताकाकाचिन्ममास्तु शरणं शिवमूलटीका ॥१२॥मौलौ महेन्द्रसुदृशस्सुमनोनिकायसंशोभिते सदसि मान्य इवाभिजातः ।रेणुश्च यच्चरणभूर्लभतेऽग्रपीठंत्राणाय सा भवतु भूतपतेर्वधूर्नः ॥१३॥अम्बावृणोति परितोऽप्ययमन्धकारोनात्मानमेव मम किं तु कुलं च देशम् ।शीघ्रं मदीयहृदयोदयपर्वताग्रेश्रीमानुदेतु तव पादमयूखमाली ॥१४॥कष्टं धुनोतु मम पर्वतपुत्रिकायाःप्र्त्यग्रपङ्करुहबान्धवकान्तिकान्तम् ।अम्भोरुहासनमुखामरमौलिरत्नज्योतिर्विशेषितगुणं चरणारविन्दम् ॥१५॥ज्याशिञ्जितानि समरे गिरिशं जिगीषोःकामस्य हंसनिवहस्य निमन्त्रणानि ।धुन्वन्तु मे विपदमद्रिकुमारिकायाःपादारविन्दकटकक्वणितानि तानि ॥१६॥यः सर्वलोकमथनं महिषं जिगाययस्यैव कर्म दमनं च तदन्तकस्य ।नारीनराकृतिभृतो महसस्तमङ्घ्रिंमञ्जीरनादमधुरं शरणं व्रजामि ॥१७॥आपन्महोग्रविषराशिनिमग्नमेतंदीनं त्वदीयचरणं शरणं प्रपन्नम् ।उद्धर्तुमम्ब करुणापरिपूर्णचित्तेवित्तेशमित्रकुलनारि तवैव भारः ॥१८॥लोकाधिराज्ञि पतितं विपदन्धकूपेसंरुद्धदृष्टिमभितस्तिमिरच्छटाभिः ।मातः समुद्धर कृपाकलिते मृडानिपुत्रं करेण जगतामभयङ्करेण ॥१९॥अस्य त्वदीयपदपङ्कजकिङ्करस्यदुर्भाग्यपाकविफलीकृतपौरुषस्य ।प्राणेश्वरि प्रमथलोकपतेरुपायंवीक्षस्व तारणविधौ निपुणे त्वमेव ॥२०॥मृत्युञ्जयोरुमणिपीठतटे निषण्णेताटङ्ककान्तिबहुलीकृतगण्डशोभे ।माणिक्यकङ्कणलसत्करवारिजातेजाते कुलाचलपतेर्जहि पातकं नः ॥२१॥किं ते वपुर्जननि तप्तसुवर्णगौरंकामारिमोहिनि किमिन्दुकलावलक्षम् ।पाकारिनीलमणिमेचककान्त्युताहोबन्धूकपुष्पकलिकारुचि वा स्मरामि ॥२२॥त्वं सुन्दरी नृपतिजातिजितस्त्वमम्बाधूमावती त्वमजरे भुवनेश्वरी त्वम् ।काली त्वमीश्वरि शुकार्भकधारिणी त्वंतारा त्वमाश्रितविपद्दलनासिधारा ॥२३॥त्वं भैरवी भगवती बगलामुखी त्वंरामा च सा कमलकाननचारिणी त्वम् ।कैलासवासिनयनामृतभानुरेखेको वेद ते जननि जन्मवतां विभूतीः ॥२४॥धुन्वन्तु सर्वविपदः सुकृतप्रियाणांधुन्वन्तु चाखिलसुखान्यघलालसानाम् ।आवर्ज्य भूरिकरुणं पुरजित्तरुण्याश्चित्तं वसन्ततिलकाः कविभर्तुरेताः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP