मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| त्रयोविंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - त्रयोविंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र त्रयोविंशः स्तबकः Translation - भाषांतर प्रकीर्णकम् (नरमनोरमावृत्तम्)(अस्मिन् स्तबके तत्सवितुरिति गायत्रीमन्त्रस्यचतुर्विंशतिवर्णाः क्रमशः पद्यानांतृतीयपादस्य चतुर्थवर्णे दृश्यन्ते ) ।किरदिवामृतं किरणमालया ।जयति तत्सितं शिववधूस्मितम् ॥१॥तव पदं परे मम गुहान्तरे ।स्फुरतु सर्वदा विकसितं मुदा ॥२॥पदमधोऽम्बुजान्न किल भिद्यते ।मदनविद्विषः सदनराज्ञि ते ॥३॥विभुतयोररीकृतबहूद्भवौ ।विदधतुर्जगत्त्रयमिदं शिवौ ॥४॥तव तु खेलने नलिनजाण्डकम् ।गिरिशवल्लभे भवति कन्दुकम् ॥५॥सकलमस्त्युमे सदभयङ्करे ।तव करे परे किमपि नो नरे ॥६॥किमिव वर्ण्यतां कशशिकुण्डला ।उडुमणिस्रजाप्रविलसद्गला ॥७॥भण निरन्तरं बहुगुणामुमाम् ।गतभयं विधेह्यमलवाणि माम् ॥८॥अव जहीहि वा ननु भजाम्यहम् ।भुवनभर्त्रि ते चरणमन्वहम् ॥९॥गणपतेः शिरःकमलचुम्बिनी ।भवतु गोपतिध्वजकुटुम्बिनी ॥१०॥दहरमज्जनं विदधतं जनम् ।परमदेवते नयसि धाम ते ॥११॥जननि विज्ञता भवतु धीमताम् ।अनुभवस्तु ते करुणया सताम् ॥१२॥अचलया धिया हृदि गवेषणम् ।वृषहयप्रियानगरशोधनम् ॥१३॥न विजहामि ते चरणनीरजम् ।अवनि धीमतामव न वा निजम् ॥१४॥पदमुमेऽम्ब ते हृदि विचिन्वते ।पलितमस्तकाः परमदेवते ॥१५॥स्वयमनामये सकलधात्र्यसि ।निजमहिम्नि सा त्वमयि तिष्ठसि ॥१६॥स्थितिमसादयंस्तव पदाम्बुजे ।विधिमधिक्षिपत्यलसनीरजे ॥१७॥स्यतु मदापदं शिववधूपदम् ।यदृषयो विधुस्त्रिभुवनास्पदम् ॥१८॥गुणगणं गृणंस्तव शिवे शिवम् ।गतभयोऽभवं मदमितो नवम् ॥१९॥तवकृपावशात् तदिदमव्यये ।जननि नः प्लुतिस्तव यदङ्घ्रये ॥२०॥नयनदृश्ययोरयि यदन्तरम् ।तदमरस्तुते तव वपुः परम् ॥२१॥अहमिति स्मृतिः क्व नु विभासते ।इति विचोदयन् महति लीयते ॥२२॥अमृतसंज्ञके सुखचिदात्मके ।मतिमदर्थिते जननि धाम्नि ते ॥२३॥अयि मुदास्पदं स्पृशति ते पदम् ।श्वसितयात्रया सततदृष्टया ॥२४॥दधतु सत्कवेर्गणपतेरिमाः ।नगभुवो मुदं नरमनोरमाः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP