मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| षड्विंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - षड्विंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र षड्विंशः स्तबकः Translation - भाषांतर अपीतकुचाम्बा (दोधकवृत्तम्)आगमविन्मतिकैरविणीनांबोधमजस्रमसौ विदधानः ।पातु महेशवधूवदनांशोहासशशी सकलानि कुलानि ॥१॥आयतलोचनचुम्बितकर्णादानयशोजिततोयदकर्णा ।शोणनगेशमनः प्रियवर्णानाशयताज्जगदार्तिमपर्णा ॥२॥वेदतुरङ्गविलोचनभाग्यंवेदशिरोनिचयैरपि मृग्यम् ।शोकविदारिसुधाकिरणास्यंशोणगिरौ समलोकि रहस्यम् ॥३॥मुञ्च समस्तमनोरथलाभेसंशयमद्य करामलकाभे ।दृक्पथमाप नगेन्द्रतनूजासोऽहमितः परमन्तरराजा ॥४॥शिल्पविदः प्रतिमां प्रविशन्तीस्वल्पविदां तरणाय चकास्ति ।शोणधराभृति सम्प्रति लब्धाहन्त चिरादियमेव ममाम्बा ॥५॥भारतभूवलयेऽत्र विशालेसन्त्वनघानि बहूनि गृहाणि ।आस्यविगीतसुधाकरबिम्बाशोणगिरौ रमतेऽत्र मदम्बा ॥६॥वारितसंश्रितपातकजालावारिधिवीचिनिरङ्कुशलीला ।वारिजपत्रविडम्बननेत्रावारणराजमुखेन सपुत्रा ॥७॥आयतवक्रघनासितकेशीतोयजबाणरिपोर्हृदयेशी ।काशसुमाच्छयशाः परमैषापाशभिदस्तु तवेन्दुविभूषा ॥८॥पङ्कजसम्भवपूजितपादापङ्कविनाशनपावननामा ।किङ्करकल्पलता परमेयंशङ्करनेत्रसुधा शरणं नः ॥९॥चञ्चलदृग्विनतामरवल्लीपञ्चपृषत्कशरासनझिल्ली ।काञ्चनगर्भमुखप्रणुतेयंपञ्चमुखप्रमदा शरणं नः ॥१०॥अम्ब विधूय भटान्मदनादीन्नूपुरनादबिभीषिकयैषः ।हन्त जहार बलेन मनो मेशोणनगाङ्घ्रिनिवासिनि तेऽङ्घ्रिः ॥११॥कर्णपुटे कुरु मुग्ध ममोक्तिंमुञ्च धनादिषु मानससक्तिम् ।शोणगिरीन्द्रवधूपदभक्तिंशीलय शीलय यास्यसि मुक्तिम् ॥१२॥जीर्णतरे जरयाऽखिलदेहेबुद्धिबलं च विलुम्पति मोहे ।हन्त सवित्रि तपन्मतिरन्तेसेवितुमिच्छति ना चरणं ते ॥१३॥तन्त्रविदो नवयोनि तु चक्रंशोणधराधररूपमुशन्ति ।अर्धममुष्य वपुर्मदनारेरर्धमगेन्द्रसुते तव गात्रम् ॥१४॥अस्तु नगेश्वरनन्दिनि लिङ्गंतैजसमेतदिहापि तवांशः ।वीतगुणस्य विना तव योगंदेवि शिवस्य कुतः खलु तेजः ॥१५॥स्थापितमूर्तिरियं तव नम्यापूजयितुं जगदीश्वरि रम्या ।शोणनगार्धमिदं तव रूपंकीर्तयितुं नगजे धुतपापम् ॥१६॥शोणनगार्धतनोऽनिशमङ्केधारयसेऽयि गुहं रमणाख्यम् ।आगतमप्ययि हा मुहुरम्बोच्चाटयसे गणपं ननु कस्मात् ॥१७॥अङ्कजुषे रमणाय नु दातुंमानववेषधराय गुहाय ।शोणनगार्धतनो बहु दुग्धंमातरपीतकुचेह विभासि ॥१८॥पूर्णसमाधिवशात् स्वपिषि त्वंपीतमपीतकुचेऽम्ब न वेत्सि ।अङ्कजुषा रमणेन सुतेनप्रेक्ष्य यथेष्टमुरोरुहदुग्धम् ॥१९॥ज्ञानरसाह्वयमम्ब निपीयस्तन्यमसौ रमणो मुनिराट् ते ।ज्ञानमयोऽभवदीश्वरि सर्वःपुष्यति येन तनुं हि तदात्मा ॥२०॥प्रीतिपदाय पयोधरकुम्भात्पार्वति धीमयदुग्धमपीतात् ।अस्तु गुहाय शिवे बहु दत्तंकिञ्चिदिवेश्वरि धारय मह्यम् ॥२१॥प्रौढमिमं यदि वेत्सि तनूजंशैलसुते मदवारि दधानम् ।मास्तुपयो वितरानघमन्नंयेन दधानि महेश्वरि शक्तिम् ॥२२॥स्वार्जितमेव मया यदि भोज्यंसम्मद एव ममाखिलमातः ।आशिषमग्र्यतमामयि दत्त्वाप्रेषय यानि जयानि धरित्रीम् ॥२३॥विद्युति विद्युति वीक्ष्यविलासावीक्षितकर्मणि लक्ष्यरहस्या ।पार्वणचन्द्रमुखी ललिताङ्गीतैजसलिङ्गसखी शरणं नः ॥२४॥मातरपीतकुचेऽरुणशैलाधीश्वरभामिनि भामहनीये ।साधु विधाय समर्पयते तेदोधकमाल्यमिदं गणनाथः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP