मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
पञ्चदशः स्तबकः

उमासहस्रम् - पञ्चदशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


शक्तेः स्वागतम् (स्वागतावृत्तम्)

आपदामपहरन्तु ततिं नः
सम्पदामपि दिशन्तु समृद्धिम् ।
दन्तकुन्दरुचिदत्तबलानि
व्योमकेशसुदृशो हसितानि ॥१॥

अल्पमप्यधिकशक्तिसमृद्धं
मन्दमप्यधिकसूक्ष्मविसारम् ।
सुस्मितं स्मरविरोधिरमण्याः
कल्पतां मम कुलस्य शुभाय ॥२॥

पुष्कराद्रविमतो भुवमेतां
भूमितश्शशधरं क्रममाणा ।
नैव मुञ्चति पदं बत पूर्वं
नोत्तरं व्रजति नेशपुरन्ध्री ॥३॥

भूषणेष्विव सवित्रि सुवर्णं
मृत्तिकामिव घटेष्वखिलेषु ।
विश्ववस्तुषु निरस्तविशेषां
देवि पश्यति सतीं विबुधस्त्वाम् ॥४॥

किट्टभूतमखिलेश्वरजाये
दृश्यजातमखिलं निजपाके ।
प्राणबुद्धिमनसामिह वर्गः
सारभूत इति सूरिजनोक्तिः ॥५॥

सारमीश्वरि तिलेष्विव तैलं
विग्रहेषु निखिलेषु निगूढम् ।
ये धिया मथनतो विदुरेकं
ते भवन्ति विबुधास्त्वयि लीनाः ॥६॥

आयसं त्रिभुवनेश्वरि पिण्डं
वह्निनेव तपसा तनुपिण्डम् ।
यस्य चिज्ज्वलनजालमयं स्यात्
तप्तमम्ब स तवालयभूतः ॥७॥

योऽरणेर्मथनतोऽतिपवित्रं
वीतिहोत्रमिव वीतकलङ्कः ।
प्राणमुज्ज्वलयति स्वशरीरात्
त्वामसावभयदेऽर्हति यष्टुम् ॥८॥

प्राणता श्वसितमेव विचार्यं
कुर्वता करणमेव निभाल्यम् ।
गच्छता गमनमेव विशोध्यं
तत्तनौ मथनमागमबोध्यम् ॥९॥

यो रसं पिबति मूर्धसरोजात्
सोमपोऽयमनघः प्रयतात्मा ।
अग्निहोत्रमखिलेश्वरि नित्यं
मूलकुण्डदहनस्थितिरस्य ॥१०॥

चिन्मयी पिबसि सोममिमं किं
सोम एव किमसावसि मातः ।
पीयसे पिबसि च स्वयमेका
पेयपातृयुगलं किमु भूत्वा ॥११॥

तैजसं कनकमग्निवितप्तं
तेज एव कनकाङ्गि यथा स्यात् ।
मोदरूपकलया तव तप्तं
तन्मयं भवति मोदजपिण्डम् ॥१२॥

काऽपि मोदलहरी तव वीचिर्
निर्गता दशशतारसुधाब्धेः ।
पूरयत्यखिलमम्ब शरीरं
नेह वेद्मि परमे जडभागम् ॥१३॥

सेयमुत्तमतमा निपतन्ती
शीतलाद्दशशतारपयोदात् ।
प्रेरितादखिलराज्ञि भवत्या
बुद्धिसस्यमवताद्रसवृष्टिः ॥१४॥

दुग्धसिन्धुमथनादमृतं वा
शब्दसिन्धुमथनात्प्रणवो वा ।
लभ्यते सुकृतिभिस्तव वीचिर्
मूर्धकञ्जमथनाद्रस एषः ॥१५॥

अस्थिषु प्रवहति प्रतिवेगं
मज्जसारममृतं विदधाना ।
बिभ्रती मदमनुष्णमदोषं
मूर्धकञ्जनिलये तव धारा ॥१६॥

तैत्तिरीयकथितो रसलाभः
सोऽयमेव सकलागमवर्ण्ये
एतदेव शशिमण्डलनाथे
तन्त्रभाषितपरामृतपानम् ॥१७॥

मूर्धसोममजरामररूपे
युक्तवीक्षणकरेण निपीड्य ।
शम्भुसुन्दरि सुनोमि धिनोमि
त्वां प्रदीप्तकुलकुण्डनिशान्ताम् ॥१८॥

दृष्टिरेव रविदीधितिरुग्रा
शीर्षकञ्जशशिनं प्रविशन्ती ।
शीतलामृतमयी खलु भूत्वा
योगिनो द्रवति मोदकला ते ॥१९॥

मूर्धनि द्रवसि योगयुतानां
चक्षुषि ज्वलसि शङ्करभामे
तिष्ठसि स्थिरपदा कुलकुण्डे
बाह्यतः स्खलसि नैव कदाऽपि ॥२०॥

सा यदि द्रवति मोदकला स्यात्
सा यदि ज्वलति चित्कलिका स्यात् ।
सा परा स्थिरपदा यदि तिष्ठ
त्यक्षरा भवति काचन सत्ता ॥२१॥

पश्यता नयनमण्डलवृत्तिं
गृह्यसे त्वमचलाधिपकन्ये ।
जानता दशशतारविलासं
स्पृश्यसे विदितमम्ब रहस्यम् ॥२२॥

व्याप्तशक्त्यसुबलेन लसन्ती
भानुबिम्बनयनेन तपन्ती ।
चन्द्रबिम्बमनसा विहरन्ती
सा पुनर्जयति मूर्ध्नि वसन्ती ॥२३॥

स्वागतं सकललोकनुतायै
स्वागतं भुवनराजमहिष्यै ।
स्वागतं मयि भृशं सदयायै
स्वागतं दशशतारमितायै ॥२४॥

सत्कविक्षितिभुजो ललिताभिः
स्वागताभिरनघाभिरिमाभिः ।
स्वागतं भणितमस्तु भवान्यै
खेलनाय शिर एतदितायै ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP