उत्तरार्धम् - अध्यायः ५०
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥सनत्कुमार उवाच॥
यज्ञञ्चक्रे गयो राजा बह्वन्नं बहुदक्षिणम् ।
यत्र द्रव्यसमूहानां संख्या कर्त्तुं न शक्यते ॥१॥
स्थिता गयायामन्नादिपर्व्वताः पञ्चविंशतिः ।
प्रशंसन्ति द्विजास्तत्र देशे देशे सुपूजिताः ॥२॥
नैव पूर्व्वं केप्यकुर्व्वन्न करिष्यन्ति चापरे ।
सिकता वा यथा लोके यथा च दिवि तारकाः ॥३॥
तथा बहुसुवर्णाद्यैरसङ्ख्यातास्तु दक्षिणाः ।
नैवेह पूर्वे ये केचिन्न करिष्यन्ति चापरे ॥४॥
प्रशंसन्ति द्विजास्तृप्ता देशे देशे सुपूजिताः ।
गयं विष्ण्वादयस्तुष्टा वरं ब्रूहीति चाब्रुवन् ॥५॥
गयस्तान्प्रार्थयामास ह्यभिशप्ताश्च चे पुरा ।
ब्रह्मणा ते द्विजाः पूता भवन्तु क्रतुपूजिताः ॥६॥
गयाश्राद्धविधानाय द्विजा मूर्त्ताश्चदुर्द्दश ।
तेषां वाक्यं प्रकुर्व्वीत यदि ब्रह्मा स्वयं भवेत् ॥७॥
गौतमं काश्यपं कौत्सं कौशिकं कण्वमेव च ।
भारद्वाजं ह्यौशनसं वात्स्यं पाराशरं तथा ॥८॥
हरित्कुमारमाण्डव्यं लोकाक्षिं लोकसंमहत् ।
वासिष्ठञ्च तथात्रेयं गोत्राण्येषां चतुर्द्दश ॥९॥
गयापुरीति मन्नाम्ना ख्याता ब्रह्म पुरी यथा ।
एवमस्तु वरं दत्त्वा तथा चान्तर्दधुः सुराः ॥१०॥
गयश्च भोगान्सम्भुज्य विष्णुलोकं परं ययौ ।
विशालायां विशालोऽभूद्राजाऽपुत्रो ऽब्रवीद्द्विजान् ॥११॥
कथं पुत्रादयो मे स्युर्विशालं चाब्रुवन्द्विजाः ।
गयायां पिण्डदानेन तव सर्व्वं भविष्यति ॥१२॥
विशालोऽपि गयाशीर्ष पिण्डदः पुत्रवानभूत् ।
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ॥१३॥
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् ।
अहं सितस्ते जनक इन्द्रलोकादिहागतः ॥१४॥
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्तमः ।
अयं पितामहः कृष्ण ॥ऋषयो येन घातिताः ॥१५॥
अवीचिनरकं प्राप्तौ मुक्तौ त्वत्पिण्डदानतः ।
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ॥१६॥
प्रीणयामीति यत्तोयं त्वया दत्तमरिन्दम ।
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ॥१७॥
मुक्तिः कृता त्वया पुत्र व्रजामः स्वर्गमुत्तमम् ।
एवं पुत्रैः पितॄणां च कर्तव्या मुक्तिरुत्तमा ॥१८॥
त्वञ्च राज्यं चिरं कृत्वा भुक्त्वा भोगांश्च दुर्ल्लभान् ।
यज्ञान्सदक्षिणान्कृत्वा यायाद्विष्णुपुरं ततः ॥१९॥
एवं लब्धवरो राजा राज्यं कृत्वा दिवंगतः ।
प्रेतराजः सह प्रेतैर्गयाश्राद्धाद्दिवं गतः ॥२०॥
प्रेतः कश्चिद्विमुक्त्यर्थं वणिजं कञ्चिदब्रवीत् ।
मम नाम्ना गयाशीर्षे पिण्डनिर्व्वापणं कुरु ॥२१॥
प्रेतभावविमुक्त्यर्थं त्वं गृहाण धनं मम ।
तद्वनं सर्व्वमादाय गयाश्राद्धव्ययं कुरु ॥२२॥
षोडशपञ्चभागांश्च तुभ्यं वै दत्तवानहम् ।
स्वनामानि यथान्यायं सम्यगाख्यातवानहम् ॥२३॥
गत्वा गयां गयाशीर्ष प्रेतराजाय पिण्डकम् ।
समदाद्बन्धुभिः सार्द्धं स्वपितृभ्यस्ततो ददौ ॥२४॥
प्रेतः प्रेतत्वनिर्म्मुक्तो वणिक् स्वगृहमागतः ।
एवं गयस्य शम्भोश्च क्षेत्रं विष्णो रवेस्तथा ॥२५॥
उपोषितोऽथ गायत्रीतीर्थे महानदीस्थिते ।
गायत्र्याः पुरतः स्नात्वा प्रातःसन्ध्यामुपासयेत् ॥२६॥
श्राद्धं सपिण्डकं कृत्वानयेद्ब्रह्मण्यतां कुलम् ।
तीर्थे समुदिते स्नात्वा सावित्र्याः पुरतो नरः ॥२७॥
सन्ध्यामुपास्य मध्याह्ने नयेत्कुलशतन्दिवम् ।
पिण्डदानं ततः कुर्य्यात्पितॄणां मुक्तिकाम्यया ॥२८॥
प्राचीसरस्वतीतीर्थे स्नात्वा चापि यथाविधि ।
सन्ध्यामुपास्य सायाह्ने विष्णुलोकं नयेत्पितॄन् ॥२९॥
बहुजन्मकृतात्सन्ध्यालोपान्मुक्तस्त्रिसन्ध्य कृत् ।
विशालायां लेलिहाने तीर्थे च भरताश्रमे ॥३०॥
पादाङ्किते मुण्डपृष्ठे गदाधरसमीपतः ।
तीर्थे चाकाशगङ्गायां गिरिकर्णमुखेषु च ॥३१॥
स्नातोऽथ पिण्डदो ब्रह्मलोकं कुलशतं नयेत् ।
देवनद्यां वैतरण्यां स्नातः स्वर्गं नयेत्पितॄन् ॥३२॥
स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ।
सत्यं सत्यं पुनः सत्यं वैतरण्यां तु नारद ॥३३॥
एकविंशतिकुलान्याहुस्तारयेन्नात्र संशयः ।
या सा वैतरणी नाम नदी त्रैलोक्यविश्रुता ॥३४॥
सावतीर्णा गयाक्षेत्रे पितॄणां तरणाय वै ।
गोदावर्य्यां वैतरण्यां यमुनायां तथैव च ॥३५॥
देवनद्यां गोप्रचारे श्राद्धदः स्वर्नयेत्पितॄन् ।
पुष्करिण्यां घृतकुल्यां मधुकुल्यां तथैव च ॥३६॥
कोटितीर्थे रुक्मिणीये पिण्डदः स्वर्नयेत्पितॄन् ।
त्रिरात्रोपोषणेनैव तीर्थाभिगमनेन च ॥३७॥
अदत्त्वा काञ्चनङ्गाश्च दरिद्रो जायते नरः ।
घृतकुल्या मधुकुल्या देविका च महानदी ॥३८॥
शिलायाः सङ्गमो यत्र मधुस्रवा प्रकीर्तिता ।
अयुतं चाश्वमेधानां स्नानकृल्लभते नरः ॥३९॥
श्राद्धं सपिण्डकं कृत्वा पिण्डदानं तथैव च ।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥४०॥
दशाश्च मेधिके हंसतीर्थे चामरकङ्कटे ।
कोटितीर्थे रुक्मकुण्डे पिण्डदः स्वर्नयेत्पितॄन् ॥४१॥
वैतरण्यां घृतकुल्यां मधुकुल्यां तथैव च ।
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरञ्च यः ॥४२॥
कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ।
मार्कण्डेयेशकोचीशौ नत्वा स्यात्पितृतारकः ॥४३॥
रुक्म पारिजातवने पार्व्वत्या सह शङ्करः ।
रहस्ये संस्थितो रेमे युगानामयुतं पुरा ॥४४॥
मरीचिः फलपुष्पार्थं पारिजातवनं गतः ।
दृष्ट्वा शप्तो महेशेन यस्मात्सुखविघातकः ॥४५॥
दुःखी भवेति तद्भीतो मरिचिस्तुष्टुवे शिवम् ।
तुष्टः प्रोवाच तं शम्भुर्वृणीष्व वरमुत्तमम् ॥४६॥
शापाद् भवतु मुक्तिर्म्मे मरीचिः प्राह शङ्करम् ।
भवेद्गयायां मुक्तिस्ते शिवोक्तः प्रययौ गयाम् ॥४७॥
शिलास्थितस्तपस्तेपे सर्व्वेषां दुष्करञ्च यत् ।
मरीचिरीश्वराच्छप्तः कृष्णत्वमगमत्पुरा ॥४८॥
तपसा दारुणेनेह स विप्रः शुक्लतां गतः ।
हरिरूचे मरीचिञ्च वरं वृणुहि पुत्रक ॥४९॥
किमलभ्यं त्वयि तुष्टे मरीचिः प्राह माधवम् ।
हरशापाद्विमुक्तोऽहं शिला भवतु पावनी ॥५०॥
पितृमुक्तिकरी च स्यात्तथेत्युक्त्वा दिवं गतः ।
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ॥५१॥
यत्र दत्तं पितृभ्यस्तु भवत्यक्षयमित्युत ।
तत्र स्नातो दिवं याति स्वशरीरेण मानवः ॥५२॥
पाप्मानं प्रजहात्येष जीर्णत्वचमिवोरगः ।
तत्पङ्गजवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ॥५३॥
पाण्डुशिला वै तत्रास्ते श्राद्धं यत्राक्षयं भवेत् ।
युधिष्ठिरस्तु तस्यां हि श्राद्धं कर्त्तुं ययौ मुने ॥५४॥
तत्र काले पाण्डुनोक्तं मद्धस्ते देहि पिण्डकम् ।
हस्तं त्यक्त्वा शिलायाञ्च पिण्डदानञ्चकार सः ॥५५॥
शिलायां पिण्डदानेन प्रहृष्टो व्यासनन्दनः ।
वरं ददौ स्वपुत्राय राज्यं कुरु महीतले ॥५६॥
अकण्टकन्तु सम्पूर्णं त्वं मे त्राता हि पुत्रक ।
स्वर्गं व्रज शरीरेण भ्रातृभिः परिवारितः ॥५७॥
दृष्टिमात्रेण सम्पूतान्नरकस्थान्दिवं नय ।
इत्युक्त्वा प्रययौ पाण्डुः शाश्वतं पदमव्ययम् ॥५८॥
उद्भिज्जाः स्वेदजा वापि ह्यण्डजा ये जरायुजाः ।
मधुस्रवां समासाद्य मृताः स्वर्गपुरं ययुः ॥५९॥
दशाश्वमेधिके हंसतीर्थे श्राद्धाद्दिवं व्रजेत् ।
दशाश्वमेधहंसौ च नत्वा शिवपुरं व्रजेत् ॥६०॥
भरतस्याश्रमे श्राद्धान्नयेद्ब्रह्मालयं पितॄन् ।
मतङ्गस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥६१॥
निर्म्मथ्याग्निं शमीगर्भे विधिर्विष्ण्वादिभिः सह ।
लेभे तीर्थन्तु यज्ञार्थं त्रिषु लोकेषु विश्रुतम् ॥६२॥
मखसंज्ञन्तु तत्तीर्थं पितॄणां मुक्ति दायकम् ।
स्नात्वा च तर्पणं कृत्वा पिण्डदो मुक्तिमाप्नुयात् ॥६३॥
पितॄन्स्वर्गं नयेन्नत्वा सङ्गमेऽङ्गारकेश्वरौ ।
गयाकूटे पिण्डदानादश्वमेधफलं लभेत् ॥६४॥
भस्मकूटे भस्मनाथं नत्वा च तारयेत्पितॄन् ।
त्यक्तपापो भवेन्मुक्तः सङ्गमे स्नानमाचरेत् ॥६५॥
इष्टिं चक्रेऽश्वमेधाख्यं वसिष्ठो मुनिसत्तमः ।
इष्टितो निर्गतः शम्भुर्वरं वृणु वसिष्ठकम् ॥६६॥
प्राहेति तं वसिष्ठोऽपि शिव तुष्ठोऽसि मे यदि ।
वस्तव्यं चात्र देवेश तथेत्युक्त्वा शिवः स्थितः ॥६७॥
पिण्डदो धेनुकारण्ये कामधेनुपदेषु च ।
स्नात्वा नत्वाथ सम्पूज्य ब्रह्मलोकं नयेत्पितॄन् ॥६८॥
कर्द्दमाले गयानाभौ मुण्डपृष्ठसमीपतः ।
स्नात्वा श्राद्धादिकं कृत्वा पितॄणामनृणो भवेत् ॥६९॥
फल्गुचण्डीश्मशानाक्षीमङ्गलाद्याः समर्च्चयेत् ।
गयायाञ्च वृषोत्सर्गात्रिः सप्तकुलमुद्धरेत् ॥७०॥
यत्र तत्र स्थिता देवा ॥ऋषयोऽपि जितेन्द्रियाः ।
आद्यं गदाधरं ध्यायञ्छ्राद्धपिण्डादिदानतः ॥७१॥
कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेत् पितॄन् ।
गया गयो गया दित्यो गायत्री च गदाधरः ॥७२॥
गया गयासुरश्चैव षङ्गया मुक्तिदायकाः ।
गयाख्यानमिदं पुण्यं यः पठेत्सततं नरः ॥७३॥
श्रृणुयाच्छ्रद्धया यस्तु स याति परमां गतिम् ।
पाठयेद्वा गयाख्यानं विप्रेभ्यः पुण्यकृन्नरः ॥७४॥
गयाश्राद्धं कृतं तेन कृतं तेन सुनिश्चितम् ।
गयाया महिमानञ्च ह्यभ्यसेद्यः समाहितः ॥७५॥
तेनेष्टं राजसूयेन अश्वमेधेन नारद ।
लिखेद्वा लेखयेद्वापि पूजयेद्वापि पुस्तकम् ॥७६॥
तस्य गेहे स्थिरा लक्ष्मीः सुप्रसन्ना भविष्यति ।
उपाख्यानमिदं पुण्यं गृहे तिष्ठति पुस्तकम् ॥७७॥
सर्पाग्निचौरजनितं भयं तत्र न विद्यते ।
श्राद्धकाले पठेद्यस्तु गयामाहात्म्यमुत्तमम् ॥७८॥
विधिहीनन्तु तत्सर्वं पितॄणान्तु गयासमम् ।
यानि तीर्थानि त्रैलोक्ये तानि दृष्टानि तत्र वै ।
येन ज्ञातं गयाख्यानं श्रुतं वा पठितं मुने ॥७९॥
॥सूत उवाच॥
॥सनत्कुमारो मुनिपुङ्गवाय पुण्यां कथाञ्चाथ निवेद्य भक्त्या ।
स्वमाश्रमं पुण्यवनैरुपेतं विसृज्य संगीतगुरुं जगाम ॥८०॥
इति श्रीमहापुराणे वायुप्रोक्ते गयामहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ॥५० ॥समाप्तमिदं वायुपुराणम्॥॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP