संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्| अध्यायः ३८ उत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० उत्तरार्धम् - अध्यायः ३८ वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे. Tags : puranvayu puranपुराणवायु पुराणसंस्कृत अध्यायः ३८ Translation - भाषांतर ॥ऋषय ऊचुः॥श्रुत्वा पादं तृतीयन्तु क्रान्तं॥सूतेन धीमता ।ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥१॥पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया ।चतुर्थं विस्तरात्पादं संहारं परिकीर्त्तय ॥२॥मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह ।सप्तर्षीणामथैतेषां साम्प्रतस्यान्तरे मनोः ॥३॥विस्तरावयवञ्चैव निसर्गस्य महात्मनः ।विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि मे ॥४॥॥सूत उवाच॥भवतां कथयिष्यामि सर्वमेतद्यथातथम् ।पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥५॥मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः ।विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ॥६॥मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः ।प्रलयञ्चैव लोकानां ब्रुवतो मे निबोधत ॥७॥एतान्युक्तानि वै सम्यक् सप्तसप्तसु वै मया ।मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ॥८॥सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह ।भविष्यस्य भविष्यन्ति समासात्तु निबोधत ॥९॥अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः ।कौशिको गातवश्चैव जामदग्न्यश्च भार्गवः ॥१०॥द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा ।आत्रेयो दीप्तिमांश्चैव ॥ऋष्यश्रृङ्गस्तु काश्यपः ॥११॥भारद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः ।एते सप्त महात्मानो भविष्याः परमर्षयः ॥१२॥सुतपा श्चामिताभाश्च सुखाश्चैव गणास्त्रयः ।तेषां गणास्तु देवानां एकैको विंशकः स्मृतः ॥१३॥नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः ।रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिः प्रभाकरौ ॥१४॥प्रभासो भासकृद्धर्म्मस्तेजोरश्मिऋतुर्विराट् ।अर्चिष्मान् द्योतनो भानुर्यशकीर्त्तिर्बुधो धृतिः ।विंशतिः सुतपा ह्येते नामभिः परिकीर्तिताः ॥१५॥प्रभुर्विभुर्विभासश्च जेता हन्ताऽरिहा रितुः ।सुमतिः प्रमतिर्दीप्तिः समाख्यातो महोमहान् ॥१६॥देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतः ।इत्येते ह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ॥१७॥दमो दाता विदः सोमो वित्तवैद्यौ यमो निधिः ।होमं हव्यं हुतं दानं देयं दाता तपः शमः ॥१८॥ध्रुवं स्थानं विधानञ्च नियमश्चेति विंशतिः ।मुख्या ह्येते समाख्याताः सावर्णे प्रथमेऽन्तरे ॥१९॥मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः ।साम्प्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ॥२०॥तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा ।वीरवांश्चावरीयांश्च निर्मोहः सत्यवाक् कृती ॥२१॥चरिष्णुराज्यो विष्णुश्च वाचः सुमतिरेव च ।सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥२२॥नव चान्येषु वक्ष्यामि सावर्णेश्चान्तरेषु वै ।सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ॥२३॥मेरुसावर्णिनस्ते वै दृष्टा ये दिव्यदृष्टिभिः ।दक्षस्य ते हि दौहित्राः प्रियाया दुहितुः सुताः ॥२४॥महता तपसा युक्ता मेरुपृष्ठे महौजसः ।ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥२५॥महर्लोकगतावृत्य भविष्या मेरुमाश्रिताः ।महाभावात्तु ते पूर्वं जज्ञिरे चाक्षुषेऽन्तरे ॥२६॥॥ऋषय ऊचुः॥दक्षेण जनिताः पुत्राः कन्यायामात्मनः कथम् ।भवेत्तु ब्रह्मणश्चैव धर्मेण च महात्मनः ॥२७॥॥सूत उवाच॥अतो भविष्यान् वक्ष्यामि सावर्णमनवस्तु ये ।तेषां जन्म प्रभावञ्च नमस्कृत्य प्रचेतसे ॥२८॥वैवस्वते ह्युपस्पृष्टे किञ्चिच्छिष्टे च चाक्षुषे ।जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥२९॥प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये ।सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ॥३०॥संज्ञापुत्रस्तु सावर्ण एको वैवस्वतस्तथा ।ज्येष्ठः संज्ञासुतो नाम मनुर्वैवस्वतः प्रभुः ॥३१॥वैवस्वतेऽन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा ।चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्द्धनाः ॥३२॥वेदे श्रुतौ पुराणे च सर्वे ते प्रभविष्णवः ।प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥३३॥तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥३४॥प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते ।चतुर्द्दशैव ते ज्ञेयाः सर्गाः स्वायम्भुवादयः ॥३५॥मन्वन्तराधिकारेषु वर्तन्ते च सकृत् सकृत् ।विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ॥३६॥समतीतास्तु ये तेषामष्टौ षष्ठास्तथापरे ।पूर्वेषु साम्प्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ॥३७॥ये शिष्टास्तान् प्रवक्ष्यामि सह देवर्षिदानवैः ।सह प्रजानिसर्गेण सर्व्वांस्त्वनागतान् द्विजान् ॥३८॥वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ।अन्यूना नातिरिक्तास्ते यस्मात् सर्व्वे विवस्वतः ॥३९॥पुनरुक्ता बहुत्वात्तु वक्ष्ये न तेषु विस्तरम् ।मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ॥४०॥कुले कुले निसर्गांस्तु तस्माद्भूयो विभागशः ।तेषामेव हि शिष्टार्थं विस्तरेण क्रमेण च ॥४१॥दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता ।सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता ।गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥४२॥वैराजस्तमुपासीनं धर्मेण च भवेन च ।भवधर्मसमीपस्थं दक्षं ब्रह्माब्यभाषत ॥४३॥दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता ।चतुरो वै मनून् पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ॥४४॥ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा ।तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ॥४५॥सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत ।सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ॥४६॥संसिद्धाः कार्यकरणे सम्भूतास्ते श्रियान्वितः ।उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ॥४७॥ते दृष्ट्वा तान् स्वयम्बुद्ध्वा ब्रह्मा व्याहाहिणस्तदा ।संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ॥४८॥अभिध्यानान्मनोत्पन्नानूचुर्वै ते परस्परम् ।यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ॥४९॥यस्य यः सदृशश्चापि रूपे वीर्य च नामतः ।तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ॥५०॥ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा ।तस्मादात्मसमः पुत्रः पितुर्मातुश्च जायते ॥५१॥एवं ते समयं कृत्वा सवर्णान् जगृहुः सुतान् ।यस्मात् सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ॥५२॥सवर्णा मनवस्तस्मात् सवर्णत्वं हि ते यतः ।मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ॥५३॥चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह ।रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ॥५४॥भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः ।वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतोः ॥५५॥वैवस्वतो मनुर्यश्च सावर्णो यश्च विश्रुतः ।ज्येष्ठः संज्ञासुतो विद्वान् मनुर्वैवस्वतः प्रभुः ॥५६॥सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः ।सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ॥५७॥तपसा सम्भृतात्मानः स्वेषु मन्वन्तरेषु वै ।भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥५८॥प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः ।पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः ।सम्भूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ॥५९॥दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ॥६०॥ऐश्वर्यसंग्राहो राहो बाहुवशस्तथैव च ।पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥६१॥वाजियो वाजिजिच्चैव प्रभृतिश्च ककुद्यथ ।दधिक्रावायपक्वाश्च प्रणीतो विजयो मधुः ॥६२॥तेजस्मान्नथवो द्वौ तु द्वादशैते मरीचयः ।सुशर्म्माणस्तु वक्ष्यामि नामतस्तु निबोधत ॥६३॥वर्णस्तथाप्यङ्गविश्वौ मुरण्यो व्रजनो मतः ।अमितो द्रवकेतुश्च जम्भोस्थाजस्रशक्रकाः ॥६४॥सुनेमिर्द्युतपाश्चैव सुशर्म्माणः प्रकीर्त्तिताः ।तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥६५॥स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः ।माघातिथिश्च पौलस्त्यो वसुः काश्यप एव च ॥६६॥ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।वसितश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥६७॥सुतपाः पौलवश्चैव सप्तैते रोहितान्तरे ।धृतिकेतुदीप्तिकेतुशापहस्ता निरामयः ॥६८॥पृथुश्रवास्तथा नाको भूरिद्युम्नो बृहद्रथः ।प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ॥६९॥दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः ।द्वितीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ॥७०॥सुखामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ ।त्विषिवन्तश्च ते सर्वे शतसङ्ख्याश्च ते समाः ॥७१॥प्राणा नायच्छतः प्रोक्त ऋषिभिः पुरुषेषु वै ।देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥७२॥तेषामिन्द्रस्तथा विद्वान् भविष्यः शान्तिरुच्यते ।हविष्मान् पौलहः श्रीमान् सुकीर्तिश्चापि भार्गवः ॥७३॥आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापि यः स्मृतः ।पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः ।अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ॥७४॥सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान् ।शतानीको निरामित्रो वृषसेनो जयद्रथः ॥७५॥भूरिद्युम्नः सुवर्च्चाश्च दशैते मानवाः स्मृताः ।एकादशे तु पर्य्याये सावर्णे वै तृतीयके ॥७६॥निर्म्माणरतयो देवाः कामजा वै मनोजवाः ।गणास्त्वेते त्रयः ख्याता देवतानां महात्मनाम् ॥७७॥एकैकं त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम् ।मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ॥७८॥निर्म्माणरतयो देवा रात्रयस्तु विहङ्गमाः ।गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ॥७९॥मनोजवा मुहूर्त्तास्तु इति देवाः प्रकीर्त्तिताः ।एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ॥८०॥तेषामिन्द्रो वृषो नाम भविष्यः सुरराट् ततः ।तेषां सप्तर्षयश्चापि कीर्त्त्यमानान्निबोधत ॥८१॥हविष्मान् काश्यपश्चापि वपुष्मान् यश्च भार्गवः ।वारुणिश्चैव चात्रेयो वासिष्ठो भग एव च ॥८२॥पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा ।पौलहो ह्यग्नितेजाश्च देवा ह्येकादशेऽन्तरे ॥८३॥सर्व्ववेगः सुधर्म्मा च देवानीकः पुरोवहः ।क्षेमधर्मा गृहेषुश्च ह्यादर्शः पौण्ड्रको मनः ॥८४॥सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः ।द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ॥८५॥चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे श्रृणु ।पञ्चैव तु गणाः प्रोक्ता देवतानामनागताः ॥८६॥हरिता रोहिताश्चैव देवाः सुमनसस्तथा ।सुकर्म्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ॥८७॥ब्रह्मणो मानसा ह्येते एकैको दशको गणः ।अरुन्तिजो हरिश्चैव विद्वान् यश्च सहस्रशः ॥८८॥पर्वतानुचरश्चैव ह्यपोंऽशुश्च मनोजवः ।उर्ज्जा स्वाहा स्वधा तारा दशैते रोहिताः स्मृताः ॥८९॥तपोजानिर्भृतिश्चैव वाचा बन्धुश्च यः स्मृतः ।रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ॥९०॥व्युष्टिर्विधिश्च वै देवो दशैते रोहिताः स्मृताः ।उषिताद्यास्तु ये देवास्त्रयस्त्रिशत्प्रकीर्तिताः ॥९१॥देवान् सुमनसो विद्धि सुकर्माणो निबोधत ।सुपर्वा वृषभः पृष्टः कृपिद्युम्नौ विपश्चितः ॥९२॥विक्रमश्च क्रमश्चैव निभृतः कान्त एव च॥एते सुकर्मणो देवाः सुतांश्चैषां निबोधत ॥९३॥वर्य्योदितस्तथा जिष्टो वर्चस्वी द्युतिमान् हविः ।शुभो हविकृतात्प्राप्तिर्व्यापृथो दशमस्तथा ॥९४॥सुपारा मानसास्त्वेते देवा वै सम्प्रकीर्त्तिताः ।तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ॥९५॥कृतिर्वसिष्ठपुत्रस्तु ह्यात्रेयः सुतपास्तथा ।तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ॥९६॥तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः ।भार्गवः सप्तमस्त्वेषां विज्ञेयस्तु तपोमतिः ॥९७॥एते सप्तर्षयः सिद्धा अन्ये सावर्णिकेऽन्तरे ।देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥९८॥मित्रवान् मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा ।मित्रबाहुः सुवर्चाश्च द्वादशैते मनोः सुताः ॥९९॥त्रयो दशे तु पर्याये भाव्या रौच्यान्तरे पुनः ।त्रय एव गणाः प्रोक्ता देवानान्तु स्वयम्भुवा ॥१००॥ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः ।सुत्रामाणः सुधर्म्माणः सुकर्म्माणश्च ते त्रयः ॥१०१॥त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनः ।त्रयस्त्रिंशद्देवता याः प्राभविष्यन्त याज्ञिकैः ॥१०२॥आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि ।देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ॥१०३॥सुत्रामाणः प्रयाज्यास्तु ह्याद्याज्यास्तु साम्प्रतम् ।सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ॥१०४॥उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः ।दिवस्पतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ॥१०५॥पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः ।अङ्गिराश्चैव धृतिमान् पौलस्त्यः पथ्यवांस्तु सः ॥१०६॥पौलहस्तत्त्व दर्शी च भार्गवश्च निरुत्सकः ।निष्प्रकम्पस्तथात्रेयो निर्मोहः कश्यपस्तथा ॥१०७॥स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे ।चित्रसेनो विचित्रश्च तपो धर्मधृतो भवः ॥१०८॥अनेकक्षत्रबद्धश्च सुरसो निर्भयः पृथः ।रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ॥१०९॥चतुर्द्दशे तु पर्याये भौतस्याप्यन्तरे मनोः ।देवतानां गणाः पञ्च प्रोक्ता येतु भविष्यति ॥११०॥चाक्षुषाश्च कनिष्ठाश्च पवित्रा भाजरास्तथा ।वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ॥१११॥सप्तैव तांस्तान् भागांश्च विद्धि चाक्षुषसंज्ञकान् ।बृहदाद्यानि सामानि कनिष्ठान् सप्त तान् विदुः ।सप्त लोकाः परित्रास्ते भाजिराः सप्त सिन्धवः ॥११२॥वाचावृद्धानृषीन् विद्धि मनोः स्वायम्भुवस्य वै ।सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ॥११३॥तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः ।त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ।सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ॥११४॥भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः ।भूतानुवादिनः सक्तास्त्रयो वेदाः प्रवादिनाम् ॥११५॥अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ।भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा ।ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥११६॥सवर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः ।एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ॥११७॥रौच्यो भौत्यश्च यौ तौ तु मनोः पौलहभार्गवौ ।भौत्यस्यैवाधिपत्ये तु पूर्णः कल्पस्तु पूर्य्यते ॥११८॥॥सूत उवाच॥निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह ।अन्तेऽनेकयुगे तस्मिन् क्षीणे संहार उच्यते ॥११९॥सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा ।भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ॥१२०॥पितृभिर्मनुभिश्चैव सार्द्धं सप्तर्षिभिस्तु ये ।यज्वानश्चैव तेऽप्यन्ये तद्भाक्ताश्चैव तैः सह ॥१२१॥महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः ।ततस्तेषु गतेषूर्द्ध्वं क्षीणे मन्वन्तरे तदा ।अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ॥१२२॥ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः ।प्रभ्रश्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ॥१२३॥ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह ।सेन्द्राष्टेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ॥१२४॥जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश ।मन्वन्तरेषु सर्व्वेषु देवास्ते वै महौजसः ॥१२५॥ततस्तेषु गतेषूर्द्ध्वं सायोज्यं कल्पवासिनाम् ।समेत्य देवास्ते सर्वे प्राप्ते संकलने तदा ॥१२६॥महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश ।सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ॥१२७॥एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति ।भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ॥१२८॥शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु ।देवेषु च गतेषूर्द्ध्वं सायोज्यं कल्पवासिनाम् ॥१२९॥संहृत्य तांस्ततो ब्रह्मा देवर्षिपितृदानवान् ।संस्थापयति वै सर्गं महदॄष्ट्या युगक्षये ॥१३०॥तत्र युगसहस्रान्तमहर्यर्द्ब्रह्मणो विदुः ।रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ॥१३१॥नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोऽर्थतः ।त्रिविधः सर्व्वभूतानामित्येष प्रतिसञ्चरः ॥१३२॥ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः ।प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥१३३॥ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसम्भवः ।ततः संहृत्य तान् ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥१३४॥अहरन्ते प्रकुरुते सर्गस्य प्रलयं पुनः ।सुषुप्सुर्भगवान् ब्रह्मा प्रजाः संहरते तदा ॥१३५॥ततो युगसहस्रान्ते संप्राप्ते च युगक्षये ।तत्रात्मस्थाः प्रजाः कर्त्तुं प्रपेदे स प्रजापतिः ॥१३६॥तदा भवत्यनावृष्टिस्तदा सा शत वार्षिकी ।तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥१३७॥तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च ।सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ॥१३८॥असह्यरश्मिर्भगवान् पिबन्नम्भो गभस्तिभिः ।हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ॥१३९॥भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः ।भौमं काष्ठं धनं तेजो भृशमद्भिस्तु दीप्यते ॥१४०॥तस्मादुदकं सूर्य्यस्य तपतोऽति हि कथ्यते ।नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविष्यते ॥१४१॥नावृष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः ।तस्मादपः पिबन् या वै दीप्यते रविरम्बरे ॥१४२॥तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात् ।तेनाहारेण सन्दीप्तः सूर्य्यः सप्त भवत्युत ॥१४३॥ततस्ते रश्मयः सप्त सूर्य्यभूताश्चतुर्दिशम् ।चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥१४४॥प्राप्नुवन्ति च भाभिस्तु ह्यूर्द्धं चाधश्च रश्मिभिः ।दीप्यन्ते भास्कराः सप्त युगान्ताग्निः प्रतापिनः ॥१४५॥ते वारिणा च संदीप्ता बहुसाहस्ररश्मयः ।खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम् ॥१४६॥ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ।साद्रिनद्यर्णवा पृथ्वी विस्नेहा समपद्यत ॥१४७॥दीप्ताभिः सन्तताभिश्च चित्राभिश्च समन्ततः ।अधश्चोर्ध्वश्च तिर्यक् च संरुद्धं सूर्यरश्मिभिः ॥१४८॥सूर्य्यग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् ।एकत्वमुपयातानामेकज्वालं भवत्युत ॥१४९॥सर्वलोकप्रणाशञ्च सोऽग्निर्भूत्वा तु मण्डली ।चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥१५०॥ततः प्रलीयते सर्व्वं जङ्गमं स्थावरं तदा ।निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥१५१॥अम्बरीषमिवाभाति सर्वं मारिषितं जगत् ।सर्वमेव तदार्चिर्भिः पूर्णं जज्वाल्यते नभः ॥१५२॥पाताले यानि भूतानि महोतधिगतानि च ।ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥१५३॥द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः ।सर्व्वं तद्भस्मसाच्चक्रे सर्व्वात्मा पावकस्तु सः ॥१५४॥समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वतः ।पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥१५५॥ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।लोकान् संहरते दीप्तो घोरः संवर्त्तकोऽनलः ॥१५६॥ततः स पृथिवीं भित्त्वा रसातलमशोषयत् ।निर्दह्य तांस्तु पातालान्नागलोकमथादहत् ॥१५७॥अधस्तात्पृथिवीं दग्ध्वा ह्यूर्द्ध्वं स दहते दिवम् ।योजनानां सहस्राणि ह्ययुतान्यर्बुदानि च ॥१५८॥उदतिष्ठञ्छिखास्तस्य बह्वयः संवर्त्तकस्य तु ।गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ।तदा दहति सन्दीप्तो गोलकं चैव सर्व्वशः ॥१५९॥भूर्लोकन्तु भुवर्लोकं स्वर्लोकञ्च महस्तथा ।घोरं दहति कालाग्निरेवं लोकचतुष्टयम् ॥१६०॥व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना ।तत्तेजः समनुप्राप्तं कृत्स्नं जगदिदं शनैः ।अयोगुडनिभं सर्व्वं तदा ह्येवं प्रकाशते ॥१६१॥ततो गजकुलाकारास्तडिद्भि समलंकृताः ।उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्त्तका घनाः ॥१६२॥केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।केचिद्वैढूर्यसंकाशा इन्द्रनीलनिभाऽपरे ॥१६३॥शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।धूम्र वर्णा घनाः केचित्केचित्पीताः पयोधराः ॥१६४॥केचिद्रासभवर्णाभा लाक्षारक्तनिभास्तथा ।मनःशिलाभास्त्वपरे कपोताभास्तथाम्बुदाः ॥१६५॥इन्द्रगोपनिभाः केचिदुत्तिष्ठन्ति घना दिवि ।केचित्पुरधराकाराः केचिद्गजकुलोपमाः ॥१६६॥के चित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः ।कुण्डागारनिभाः केचित्केचिन्मीनकुलोपमाः ॥१६७॥बहुरूपा घोररूपा घोरस्वरनिनादिनः ।तदा जलधराः सर्वे पूरयन्ति नभःस्थलम् ॥१६८॥ततस्ते जलदा घोरा नवीना भास्करात्मिकाः ।सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥१६९॥ततस्ते जलदा वर्षं मुञ्चन्ति च महोद्यमम् ।सुघोरमशिवं सर्व्वं नाशयन्ति च पावकम् ॥१७०॥प्रवृष्टैश्च तथात्यर्थं वारिभिः पूर्य्यते जगत् ।अद्भिस्तेजोऽभिभूतञ्च तदाग्निः प्राविशत्यपः ॥१७१॥नष्टे चाग्नौ वर्षशते पयोदाः पाकसम्भवाः ।प्लावयन्ति जगत्सर्वं बृहज्जालपरिस्रवैः ॥१७२॥धाराभिः पूरयन्तीमं चोद्यमानाः स्वयम्भुवा ।अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि ।साद्रिर्द्वीपान्तरं पृथ्वी ह्यद्भिः संछाद्यते तदा ॥१७३॥तस्य वृष्ट्या च तोयं तत्सर्व्वं हि परिमण्डितम् ।प्रविशत्युदधौ विप्राः पीतं सूर्य्यस्य रश्मिभिः ॥१७४॥आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।पुनः पतति तद्भूमौ तेन पूर्य्यन्ति चार्णवाः ॥१७५॥ततः समुद्राः स्वां वेलां परिक्रामन्ति सर्व्वशः ।पर्व्वताश्च विशीर्य्यन्ते मही चाप्सु निमज्जति ॥१७६॥ततस्तु सहसोद्भ्रान्तः पयोदांस्तान्नभस्तले ।संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ॥१७७॥तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।पूर्णे युगसहस्रे वै निःशेषः कल्प उच्यते ॥१७८॥अथाम्भसा वृते लोके प्राहुरेकार्णवं बुधाः ।अथ भूमितलं खञ्च वायुश्चैकार्णवे तदा ।नष्टे भावेऽवलीनं तत्प्राज्ञायत न किञ्चन ॥१७९॥पार्थिवास्त्वथ सामुद्रा आपो हैमाश्च सर्व्वशः ।प्रसरन्त्यो व्रजन्त्येकं सलिलाख्यां भजन्त्युत ॥१८०॥आगतागतिकं चैव तदा तत्सलिलं स्मृतम् ।प्रच्छाद्य तिष्ठति महीमर्णवाख्यं च तज्जलम् ॥१८१॥आभान्ति यस्मात्ता भाभिर्भाशब्दव्याप्तिदीप्तिषु ।भस्म सर्व्वमनुप्राप्य तस्मादम्भो निरुच्यते ॥१८२॥नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते ।एकार्णवे तदा यो वै न शीघ्रास्तेन ता नराः ॥१८३॥तस्मिन् युगसहस्रान्ते दिवसे ब्रह्मणो गते ।तावन्तं कालमेवं तु भवत्येकार्णवं जगत् ।तदा तु सर्व्वव्यापारा निवर्त्तन्ते प्रजापतेः ॥१८४॥एवमेकार्णवे तस्मिन्नष्टे स्थावर जङ्गमे ।तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥१८५॥सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रवाक् ।सहस्रबाहुः प्रथमः प्रजापतिस्त्रीयपथे यः पुरुषो निरुच्यते ॥१८६॥आदित्यवर्णो भुवनस्य गोप्ता ह्यपूर्व्व एकः प्रथमस्तुराषाट् ।हिरण्यगर्भः पुरुषो महान् वै संपद्यते वै तमसः परस्तात् ॥१८७॥चतुर्युगसहस्रान्ते सर्वतः सलिलप्लुते ।सुषुप्सुरप्रकाशां स्वां रात्रिं तु कुरुते प्रभुः ॥१८८॥चतुर्विधा यदा शेते प्रजाः सर्व्वाण्डमण्डिताः ।पश्यन्ते तं महात्मानं कालं सप्त महर्षयः ॥१८९॥जनलोकविवर्त्तन्तस्तपसा लब्धचक्षुषः ।भृग्वादयो महात्मानः पूर्व्वे व्याख्यातलक्षणाः ॥१९०॥सत्यादीन् सप्तलोकान् वै ते हि पश्यन्ति चक्षुषा ।ब्रह्माणं ते तु पश्यन्ति महाब्राह्मीषु रात्रिषु ॥१९१॥सप्तर्षयः प्रपश्यन्ति सप्तकालं स्वरात्रिषु ।कल्पानां परमेष्ठित्वात्तस्मादाद्यः स पठ्यते ॥१९२॥स यष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।एवमावेशयित्वा तु स्वात्मन्येव प्रजापतिः ॥१९३॥अथात्मनि महातेजाः सर्वमादाय सर्वकृत् ।ततस्ते वसते रात्रिं तमस्येकार्णवे जले ॥१९४॥ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः ।मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः ॥१९५॥एवं सलोके निर्वृत्ते उपशान्ते प्रजापतौ ।ब्रह्मनैमित्तिके तस्मिन् कल्पिते वै प्रसंयमे ॥१९६॥देहैर्वियोगः सत्वानां तस्मिन् वै कृत्स्नशः स्मृतः ।ततो दग्धेषु भूतेषु सर्व्वेष्वादित्यरश्मिभिः ।देवर्षिमनुवर्य्येषु तस्मिन् सङ्कलने तदा ॥१९७॥गन्धर्वादीनि सत्वानि पिशाचान्तानि सर्व्वशः ।कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै ॥१९८॥तिर्यग्योनीनि सत्वानि नारकेयानि यान्यपि ।तदा तान्यपि दग्धानि धुतपापानि सर्व्वशः ।जने तान्युपपद्यन्ते यावत्संप्लवते जगत् ॥१९९॥व्युष्टायान्तु रजन्यां तु ब्रह्मणेऽव्यक्तयोनये ।जायन्ते हि पुनस्तानि सर्व्वभूतानि कृत्स्नशः ॥२००॥॥ऋषयो मनवो देवाः प्रजाः सर्व्वश्चतुर्विधाः ।तेषामपीह सिद्धानां निधनोत्पत्तिरुच्यते ॥२०१॥यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमनं स्मृतम् ।तथा जन्मनिरोधश्च भूतानामिह दृश्यते ॥२०२॥आभूतसंप्लवात्तस्माद्भवः संसार उच्यते ।यथा सर्व्वाणि भूतानि जायन्ते हि वर्षास्विह ॥२०३॥स्थावरादीनि सत्त्वानि कल्पे कल्पे तथा प्रजाः ।यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्य्यये ॥२०४॥दृश्यन्ते तानि तान्येव तथा ब्रह्मात्तरात्रिषु ।प्रत्याहारे च सर्गे च गतिमन्ति ध्रुवाणि च ॥२०५॥निष्क्रमन्ते विशन्ते च प्रजाकारं प्रजापतिम् ।ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ॥२०६॥संस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।व्यक्ता व्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥२०७॥येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् ।पूर्वप्रयातेन तथा ह्यपोऽन्यास्तेनैव तेनैव तु संव्रजन्ति ॥२०८॥यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः ।मर्त्यास्तु देहान्तरभावितत्त्वाद्रवेर्वशादूर्द्ध्वमधश्चरन्ति ॥२०९॥ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः ।सद्भाविताख्यातिवशाच्च धर्म्म्याः पुनर्निसर्गेण भवन्ति सत्त्वाः ॥२१०॥अत ऊर्द्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् ।मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ।सह प्रज्ञानिसर्गेण सह देवैश्चतुर्द्दश ॥२११॥स युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै ।अस्याः सहस्रे द्वे पूर्णे निःशेषः कल्प उच्यते ॥२१२॥एतद्ब्राह्ममहो ज्ञेयं तस्य संख्यां निबोधत ।निमेषस्तुल्य मात्रा हि कृतो लघ्वक्षरेण तु ॥२१३॥मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृता ।लवः क्षणास्तु पञ्चैव विंशत्काष्ठा तु ते त्रयः ॥२१४॥प्रस्थः सप्तोदकाश्चैव साधिकास्तु लवः स्मृतः ।लवास्त्रिंशत्कला ज्ञेयै मुहूर्तस्त्रिंशतः कलाः ॥२१५॥मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः ।अहोरात्रं कलानान्तु व्यधिकानि शतानि षट् ॥२१६॥ताश्चैव संख्याया ज्ञेयं चन्द्रादित्यगतिर्यथा ।निमेषा दश पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥२१७॥त्रिंशत्कला मुहूर्त्तस्तु दशभागः कला स्मृता ।चत्वारिंशत्कलानान्तु मुहूर्त्त इति संज्ञतः ॥२१८॥मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः ।तत्स्थाने नाम्भसाश्चापि पलान्यथ त्रयोदश ॥२१९॥मागधेनैव मानेन जलप्रस्थो विधीयते ।एते चाप्युदकप्रस्थाश्चत्वारो नालिको धटः ॥२२०॥हेममाषैः कृतच्छिद्रै श्चतुर्भिश्चतुरङ्गुलैः.समाहनि च रात्रौ च मुहूर्त्तो वै द्विनालिकौ ॥२२१॥रवेर्गतिविशेषेण सर्वेषु नृषु नित्यशः ।अधिकं षट् शतं पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥२२२॥तदहर्मानुषं ज्ञेयं नाक्षत्रन्तु दशाधिकम् ।सावनेन तु मासेन ह्यब्दोऽयं मानुषः स्मृतः ॥२२३॥एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः ।अह्नाऽनेन तु या संख्या मासर्त्वयनवार्षिकी ॥२२४॥तदा बद्धमिदं ज्ञानं संज्ञा या ह्युपलक्ष्यताम् ।कलानां सुपरीमाणात्काल इत्यभिधीयते ॥२२५॥यदहर्ब्रह्मणः प्रोक्तं दिव्या कोटी तु तत् स्मृत ।शतानाञ्च सहस्राणि दशद्विगुणतानि च ।नवतिञ्च सहस्राणि तथैवान्यानि यानि तु ॥२२६॥एतच्छ्रुत्वा तु ॥ऋषयो विस्मयं परमाद्भुतम् ।संस्थासम्भजनं ज्ञानमपृच्छन्नन्तरन्तदा ॥२२७॥॥ऋषय ऊचुः॥संप्लावनस्य कालन्तु मानुषेणैव सम्मतम् ।मानेन श्रोतुमिच्छामः संक्षेपार्थपदाक्षरम् ॥२२८॥तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः ।संक्षेपाद्दिव्यचक्षुष्मान् प्रोवाच भगवान् प्रभुः ॥२२९॥एते रात्र्यहनी पूर्वं कीर्त्तिते त्विह तौकिके ।तासां सङ्ख्याय वर्षाग्रं ब्राह्यं वक्ष्याम्यहःक्षये ॥२३०॥कोटिशतानि चत्वारि वर्षाणि मानुषाणि तु ।द्वात्रिंशच्च तथा कोट्यः सङ्ख्याताः सङ्ख्यया द्विजैः ॥२३१॥तथा शतसहस्राणि एकोननवतिः पुनः ।आशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥२३२॥मानुषाख्येण सङ्ख्यातः कालो ह्याभूतसंप्लवः ।सप्त सूर्य्यास्तदाऽग्रेषु तदा लोकेषु तेषु वै ॥२३३॥महाभूतेषु लीयन्ते प्रजाः सर्व्वाश्चतुर्विधाः ।सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ॥२३४॥विनिवृत्ते च संहारे उपशान्ते प्रजापतौ ।निरालोके प्रदग्धे तु नैशेन तु समावृते ।ईश्वराधिष्ठिते ह्यस्मिंस्तदा ह्येकार्णवे तदा ॥२३५तावदेकार्णवो ज्ञेयो यावदासीदहः प्रभोः ।रात्रिस्तु सलिलावस्था निवृत्तौ चाप्यहः समृतम् ॥२३६॥अहोरात्रस्तथैवास्य क्रमेण परिवर्त्तते ।आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ॥२३७॥त्रैलोक्ये यानि सत्वानि गतिमन्ति ध्रुवाणि च ।आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ॥२३८॥अग्रे भूतः प्रजानान्तु तस्माद्भूतः प्रजापतिः ।आभूतः प्लवते चैव तस्मादाभूतसंप्लवः ॥२३९॥शाश्वते चामृतत्वे च शब्दे चाभूतसंप्लवः ।अतीता वर्त्तमानाश्च तथैवानागताः प्रजाः ।दिव्यसङ्ख्या प्रसङ्ख्याता ह्यपरार्धगुणीकृता ॥२४०॥परार्धद्विगुणञ्चापि परमायुः प्रकीर्त्तितम् ।एतावान् स्थितिकालस्तु ह्यजस्येह प्रजामतेः ।स्थित्यन्ते प्रतिसर्गस्य ब्रह्मणः परमेष्ठिनः ॥२४१॥यथा वायुप्रवेगेन दीपार्चिरुपशाम्यति ।तथैवं प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥२४२॥तथा ह्यप्रतिसंसृष्टे महदादौ महेश्वरे॥महत्प्रलीयतेऽव्यक्ते गुणसाम्यं ततो भवेत् ॥२४३॥इत्येष च समाख्यातो मया ह्याभूतसंप्लवः ।ब्रह्मनैमित्तिको ह्येष संप्रक्षालनसंयमः ॥२४४॥समासेन समाख्यातो भूयः किं वर्त्तयामि वः ।य इदं धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः ।कीर्त्तनाच्छ्रवणाच्चापि महतीं सिद्धिमाप्नुयात् ॥२४५॥इति श्रीमहापुराणे वायुप्रोक्ते मन्वन्तरकथनं नाम अष्टत्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP