संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ८

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्त्तिताः ।
चित्रसेनोग्रसेनश्च ऊर्णायुरनघस्तथा ॥१॥

धृतराष्ट्रः पुलोमा च सूर्यवर्च्चास्तथैव च ।
युगपत्तृणपत्कालिर्दितिश्चित्ररथ स्तथा ॥२॥

त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चदशश्वैव नारदश्चैव षोडशः ।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥३॥

चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः  ।
अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा ॥४॥

मिश्रकेशी तथा शाची पर्णिनी वाप्यलम्बुषा ।
मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥५॥

अद्रिका लक्षणा चैव देवी रम्भा मनोरमा ।
सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥६॥

पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा ।
हेमासरा सुती चैव सुवृत्ता कमला च या ॥७॥

सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा ।
गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥८॥

गन्धर्वाणां दुहितरो मया याः परिकीर्त्तिताः ।
तासां नामानि सर्वासां कीर्त्त्यमानानि मे श्रृणु ॥९॥

सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम्  ।
विद्यावती चारुमुखी सुमुखी च वरानना ॥१०॥

तत्रेमे सुयशापुत्रा महाबलपराक्रमाः ।
प्रचेतसः सुता यक्षास्तेषां नामानि मे श्रृणु ॥११॥

कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा ।
मेघमालीतु यक्षाणां गण एष उदाहृतः ॥१२॥

सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः ।
तासां नामानि वै सम्यग् ब्रुवतो मे निबोधत ॥१३॥

लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम् ।
कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥१४॥

ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्त्तिताः ।
उत्पादिता विशालेन विक्रान्तेन महात्मना ॥१५॥

लोहेयो भरतेयश्च कृशाङ्गेयश्च विश्रुतः  ।
विशालेश्च यक्षाणां पुराणे प्रथिता गणाः ॥१६॥

इत्येतैरसुरैर्घोरैर्महाबलपराक्रमैः ।
लोकैर्यक्षगणैर्व्याप्ता लोकालोक विदांवराः ॥१७॥

गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना ।
उत्पादिता महावीर्या महागन्धर्वनायकाः ॥१८॥

विक्रमौदार्यसम्पन्ना महाबलपराक्रमाः ।
तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥१९॥

चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च ।
चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान् ।
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ॥२०॥

प्रथमा त्वग्निका नाम कम्बला तदनन्तरम् ।
तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥२१॥

ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे ।
त्रयो गन्धर्वमुख्यानां विक्रान्ता युद्धदुर्मदाः ॥२२॥

आग्नेयाः काम्बलेयाश्च तथा वसुमतीसुताः ।
तैर्गणैर्विविधैर्व्याप्तमिदं लोकचराचरम् ॥२३॥

विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना ।
उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥२४॥

तेषामुदीर्ण वीर्याणां गन्धर्वाणां महात्मनाम् ।
नामानि कीर्त्त्यमानानि श्रृणुध्वं मे विवक्षतः ॥२५॥

हिरण्यरोमा कपिलः सुलोमा मागधस्तथा ।
चन्द्रकेतुश्च वै गाङ्गो गोदश्चैव महाबलः ॥२६॥

महाविद्यावदातानां विक्रान्तानां तपस्विनाम् ।
इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥२७॥

शिवा च सुमनाश्चैव ताभ्यामपि महात्मना ।
उत्पादिता विश्रवसा विद्याचरणगोचराः ॥२८॥

शैवेयाश्चैव विक्रान्तास्तथा सौमनसो गणाः ।
एतैर्व्याप्तमिदं लोकं विद्याधरगणैस्त्रिभिः ॥२९॥

एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम् ।
लोके गणशतान्येव विद्याघरविचेष्टितात् ॥३०॥

अश्वमुखाश्च तेनैव विक्रान्तेन महात्मना ।
उत्पादिता ह्यश्वमुखाः किन्नरांस्तान्निबोधत ॥३१॥

समुद्रः सेनः कालिन्दो महानेत्रो महाबलः ।
सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥३२॥

इत्येवमादिर्हि गणः किन्नराणां महात्मनाम् ।
हयाननानां विद्वद्भिर्विस्तीर्णः परिकीर्त्त्यते ॥३३॥

तथासमुत्थितेनैव विक्रान्तेन महात्मना ।
उत्पादिता नरमुखाः किन्नराः शांशपायनाः ॥३४॥

हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान् ।
रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुम महाद्रुमौ ॥३५॥

बिन्दुश्च बिन्दुसारश्च चन्द्रवंशाश्च किन्नराः ।
इत्येते किन्नराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥३६॥

नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः ।
लोके गणशतान्येव किन्नराणां महात्मनाम् ॥३७॥

यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी ।
दुहीता सुरविन्देति प्रकाशा सिद्धसम्मता ॥३८॥

उपायाकेतनस्याहि स्वयमुत्पादितो गणः  ।
करालकेन भूतानां तेषां नामानि मे श्रृणु ॥३९॥

भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः ।
इत्येवमादिर्हि गणो भूमिगोचरकः स्मृतः ॥४०॥

विज्ञेय इह लोकेऽस्मिन् भूतानां भूतनायकः ।
ये उत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम् ।
वृक्षाग्रमात्रमाकाशं ते चरन्ति न संशयः ॥४१॥

तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया ।
देवोपस्थाननिरता विज्ञेयास्ते यशस्विनः ॥४२॥

नारायणं सुरगुरुं विरजं पुष्करेक्षणम् ।
हिरण्यगर्भञ्च तथा चतुर्वक्त्रं स्वयम्भुवम् ॥४३॥

शङ्करञ्च महादेवमीशानञ्च जगत्प्रभुम् ।
इन्द्रपूर्वांस्तथा दित्यान् रुद्रांश्च वसुभिः सह ॥४४॥

उपतस्थुः सगन्धर्वा नृत्त्यगीतविशारदाः ।
त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥४५॥

हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हुहूः ।
चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥४६॥

षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः ।
इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥४७॥

सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः ।
अनवद्यामनवशामन्वतां मदनप्रियाम् ।
अरूषां सुभगां भासी मरिष्टाऽष्टौ व्यजायत ॥४८॥

मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे ।
पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥४९॥

मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला ।
घृतस्थला घृताची च विश्वाची पूर्वचीत्यपि ।
प्रम्लोचेत्यभिविख्यातानुम्लोचन्ती तथैव च ॥५०॥

अनादिनिधनस्याथ जज्ञे नारायणस्य या ।
ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥५१॥

मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः  ।
सर्वाश्च ब्रह्म वादिन्यो महायोगाश्च ताः स्मृताः ॥५२॥

गणा अप्सरसाङ्ख्याताः पुण्यास्ते वै चतुर्द्दश ।
आहूताः शोभयन्तश्च गणा ह्येते चतुर्द्दश ॥५३॥

ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः ।
वेगवन्त्यस्त्वरिष्टाया ऊर्ज्जायाश्चाग्निसम्भवाः ॥५४॥

आयुष्मन्त्यश्च सूर्यस्य रश्मिजाताः सुभा स्वराः ।
वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥५५॥

वायूत्पन्ना मुदा नाम भूमिजाता भवास्तु वै  ।
विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ॥५६॥

शोभयन्त्यः कामगुणा गणाः प्रोक्ताश्चतुर्द्दश ।
सेन्द्रोपेन्द्रैः सुरगणैः रूपातिशयनिर्मिताः ॥५७॥

शुभरूपा महाभागा दिव्या नारी तिलोत्तमा ।
ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ।
रूपयौवनसम्पन्ना उत्पन्ना लोकविश्रुता ॥५८॥

वे दीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः ।
नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥५९॥

तथा यमस्य दुहिता रूपयौवनशालिनी ।
वरहेमविभा हेमा देवनारी सुलोचना ॥६०॥

इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः ।
देवतानामृषीणाञ्च पत्न्यस्ता मातरश्च ह ॥६१॥

सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः ।
सम्प्रयोगे तु कान्तेन माद्यन्ति मदिरां विना ।
तासामाप्यायते स्पर्शादानन्दश्च विवर्द्धते ॥६२॥

विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह ।
षट्‌त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥६३॥

गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः ।
इत्येवाहानि सर्वाणि दिक्षु सन्निहितानि च ॥६४॥

कद्रूर्नागसहस्रं वै चरा चरमजीजनत्  ।
अनेकशिरसां तेषां खेचराणां महात्मनाम् ।
बहुधानामधेयानां प्रायशस्तु निबोधत ॥६५॥

तेषां प्रधाननागाश्च शेषवासुकितक्षकाः ।
सकणीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥६६॥

ऐरावतमहापझौ कम्बलाश्वतरावुभौ ।
ऐलपत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥६७॥

महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ।
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥६८॥

शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः  ।
बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥६९॥

कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः  ।
प्रह्लादः पझचित्रश्च गन्धर्वोऽथ नमस्विकः ॥७०॥

नहुषः खररोमा च मणिरित्येवमादयः ।
काद्रवेया मया ख्याताः खशायांस्तु निबोधत ॥७१॥

खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ ।
ज्येष्ठं पश्चिमसङ्ख्यायां पूर्वस्यां मनुजास्तथा ॥७२॥

विलोहितं विकर्णञ्च पूर्वं साऽजनयत् सुतम् ।
चतुर्भुजं चतुष्पादं द्विमूर्द्धानं द्विधागतिम् ॥७३॥

सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम् ।
स्थूलशीर्षं महाकर्णं मुञ्जाकेशं मनोरथम् ॥७४॥

हस्त्योष्ठं दीर्घजङ्घञ्च अश्वदंष्ठ्रं महाहनुम् ।
रक्तजिह्वं जटाक्षञ्च स्थूलास्यं दीर्घनासिकम् ॥७५॥

गुह्यकं शितिकर्णञ्च महानन्दं महामुखम् ।
एवंविधं खशापुत्रं विजज्ञे साऽतिभीषणम् ॥७६॥

तस्यानुजं द्वितीयन्तु खशा चैव व्यजायत ।
त्रिशीर्षञ्च त्रिपादञ्च त्रिहस्तं कृष्णलोचनम् ॥७७॥

ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम्  ।
ह्रस्व कायं सुबाहुञ्च महाकायं महाबलम् ॥७८॥

आकर्णदारितास्यञ्च लम्बभ्रूं स्थूलनासिकम् ।
स्थूलोष्ठमष्टदंष्ट्रञ्च द्विजिह्वं शह्कुकर्णकम् ॥७९॥

पिङ्ग लोद्वृत्तनयनं जटिलं पिङ्गलं तथा ।
महाकर्णं महोरस्कं कटिहीनं कृशोदरम् ।
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूयते ॥८०॥

सद्यः प्रसूयमात्रौ तु विवृद्धौ च प्रमाणतः ।
उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ ।
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूष्यताम् ॥८१॥

ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत ।
अब्रवीन्मातरायाहि भक्षार्थे क्षुधयार्द्दितः ॥८२॥

न्यषेधयत् पुनर्ह्येनं ज्यायांसन्तु कनिष्ठकः ।
अब्रवीत् सोऽसकृत्तं वै रक्षेमां मातरं खशाम् ।
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥८३॥

एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता  ।
तौ दृष्ट्वा विकृताकारौ वसतां हीत्यभाषत ॥८४॥

तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ  ।
मातुरेव पुनस्वाङ्के प्रलपेतां स्वमायया ॥८५॥

अथोऽब्रवीदृषिर्भार्यामावाभ्यामुक्तवत्यसि  ।
पूर्वमाचक्ष्व तत्त्वेन तथैवाभ्यां व्यतिक्रमम् ॥८६॥

मातुलं भजते पुत्रः पितॄन् भजति कन्यका ।
यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥८७॥

यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् ।
मातॄणां शीलदोषेण तथा शीलगुणैः पुनः ।
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥८८॥

बलशीलादिभिस्तासामदितिर्धर्मतत्परा ।
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥८९॥

गीतशीला तथाऽरीष्टा मायाशीला दनुः स्मृता ।
विनता तु पुनर्द्देवी वैहायसगतिप्रिया ॥९०॥

तपोमयेन शीलेन सुरभिः समलंकृता ।
क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥९१॥

दनायुषायाः शीलं वै वैरनुग्रह लक्षणम् ।
त्वञ्च देवि महाभागे क्रोधशीला मतासि मे ॥९२॥

इत्येतानि सशीलानि स्वभावाल्लोकनान्नृणाम् ।
कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा ।
क्षमातश्चैव भिन्नानि भावितार्थबलेन च ॥९३॥

रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः ।
मातुलन्त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥९४॥

इत्येवमुक्त्वा भगवान् खशामप्रतिमां तदा ।
पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः ॥९५॥

ताभ्याञ्च यत् कृतं तस्यास्तदाचष्ट तदा खशा ।
मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक् पृथक् ।
तेन धात्वर्थयोगेन तत्त्वदर्शी चकार ह ॥९६॥

यक्ष इत्येष धातुर्वै खादने कृषणे च सः ।
यक्षयेत्युक्तवान् यस्मात् तस्माद्यक्षो भवत्ययम् ॥९७॥

रक्ष इत्येष धातुर्यः पालने स विभाव्यते ।
उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम् ।
नाम्नाऽयं राक्षसस्तस्मात् भविष्यति तवात्मजः ॥९८॥

स तदा तद्विधान् दृष्ट्वा विस्मितः परिमृग्य च ।
तयोः प्रादिशदाहारं प्रजापतिरसृग्वसे ॥९९॥

पिता तौ क्षुधितौ दृष्ट्वा वरञ्चेमं तयोर्ददौ ।
युवयोर्हस्तसंस्पर्शो नक्तमेन तु सर्वशः ॥१००॥

नक्ताहारविहारौ च दिवा स्वप्नोपभोगिनौ ।
नक्तञ्चैव बलीयांसौ दिवा सुप्तावुभौ युवाम् ॥१०१॥

मातरं रक्षतञ्चैव धर्मश्चैवानुशिष्यताम् ।
इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥१०२॥

गते पितरि तौ वीरौ निसर्गादेव दारुणौ ।
विपर्ययेण वर्त्तन्तौ किम्भक्षौ प्राणिहिंसकौ ॥१०३॥

महाबलौ महासत्त्वौ महाकायौ दुरासदौ ।
माया विनौ च दृश्यौ तावन्तर्द्धनगतावुभौ ॥१०४॥

तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः ।
रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥१०५॥

देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि ।
पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ॥१०६॥

भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ ।
इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ॥१०७॥

यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम् ।
आहारं स परीप्सन् वै शब्देनानुचचार ह ॥१०८॥

आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ ।
पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ॥१०९॥

असृङ्मांसवसाहारौ पुरुषादौ महाबलौ ।
कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥११०॥

द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे ।
आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥१११॥

तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम् ।
सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ॥११२॥

रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः ।
पितरावूचतुः कन्ये युवामानयत द्रुतम् ॥११३॥

जीवग्राहं विगृह्यैनं विस्फुरन्तं पदे पदे ।
ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा ।
गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥११४॥

ताभ्यां करे गृहीतं तं पिशाचमथ राक्षसम् ।
पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥११५॥

तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्षभौ ।
अजञ्च शण्डं तस्यैते प्रत्यपादयतां सुते ।
तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुः सुते ॥११६॥

पैशाचेव विवाहेन सुदत्या बुद्धवाहनः ।
अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥११७॥

इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका  ।
ब्रह्मसत्त्वधनाहारा इति खण्डोभ्यभाषत ॥११८॥

इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी ।
जन्तवोऽस्या धनाहारास्तावश्राव यतां धनम् ॥११९॥

सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा ।
अकर्णान्ताप्यरोमा च कन्या ब्रह्मधना तु या ॥१२०॥

ब्रह्मधनं प्र॥सूता सा धनानाच्चैव कन्यका ।
एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् ।
तयोः प्रजाविसर्गञ्च ब्रुवतो मे निबोधत ॥१२१॥

हेतिः प्रहेतिरुग्रश्च पौरुषेयो वधस्तथा ।
विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥१२२॥

सर्पश्च राक्षसा ह्येते यातुधानात्मजा दश ।
सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥१२३॥

हेतिपुत्रस्तथा लङ्कुर्लङ्कोर्द्वावेव चात्मजौ ।
माल्यवांश्च सुमाली च प्रहेतितनयान् श्रृणु ।
प्रहेतितनयः श्रीमान् पुलोमा नाम विश्रुतः ॥१२४॥

वधपुत्रो निकुम्भश्च क्रूरो वै भ्रह्मराक्षसः ।
वातपुत्रो विरागस्तु आपपुत्रस्तु जम्बुकः ॥१२५॥

व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः ।
इत्येते वै परिक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥१२६॥

कीर्तिता यातुधानास्तु ब्रह्मधानान् निबोधत ।
यज्ञः पिता धुनिः क्षेमो ब्रह्मा पापोऽथ यज्ञहा ॥१२७॥

स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश ।
स्वसारो ब्रह्मराक्षस्यस्तेषाञ्चेमाः सुदारुणाः ॥१२८॥

रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी ।
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥१२९॥

श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः ।
इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥१३०॥

चकमेऽप्सरसं यक्ष पञ्चस्थूलां क्रतुस्थलीम् ।
तां लिप्सुश्चिन्तमानश्च नन्दनं स चचार ह ॥१३१॥

वैभ्राजं सुरभिञ्चैव तथा चैत्ररथञ्च यत् ।
दृष्टवान् नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥१३२॥

नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् ।
दूषितः स्वेन रूपेण कर्म्मणा तेन दूषितः ॥१३३॥

ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः ।
तत्कथं नाम चार्वङ्गीं प्राप्नुयामहमङ्गनाम् ॥१३४॥

दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तत ।
कृत्वा रूपं बहुमतं गन्धर्वस्य तु गुह्यकः ।
ततः सोऽप्सरसां मध्ये तां जग्राह क्रतुस्थलीम् ॥१३५॥

बुद्ध्वा च सुरुचिं तं सा भावेनैवाभ्यवर्त्तत ।
संवृतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ॥१३६॥

स तत्र सिद्धकरणः सद्यो जातः सुतोऽस्य वै  ।
परिणाहोच्छ्रयैर्युक्तः सद्यो वृत्तो ज्वलन् श्रिया ॥१३७॥

राजाहमिति नाभिर्हि पितरं सोऽभ्यभाषत ।
तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥१३८॥

मात्रानुरूपो रूपेण पितुर्वीर्येण जायते ।
जाते स तस्मिन् हर्षेण स्वरूपं प्रत्यपद्यत ॥१३९॥

स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः  ।
म्रियमाणाः प्रसुप्ताश्च क्रुद्धा भीताः प्रहर्षिताः ॥१४०॥

ततोऽब्रवीदप्सरसः स्मयमानः स गुह्यकः ।
गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥१४१॥

इत्युक्त्वा सहसा तञ्च दृष्ट्वा स्वं रूपमास्थितम् ।
विभ्रान्ताः प्राद्रवन् भीताः क्रोधमानाऽप्सरोगणाः ॥१४२॥

गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन् गिरा ।
गन्धर्वाप्सरसां मध्येतां नीत्वा स न्यवर्त्तत ॥१४३॥

ताञ्च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः ।
यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै क्रतुस्थलीम् ॥१४४॥

जगाम सह पुत्रेण ततो यक्षः स्वमालयम् ।
न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते ।
तस्मान्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥१४५॥

यक्षो रजतनाभस्तु गुह्यकानां पितामहः ।
अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम् ।
उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥१४६॥

जज्ञे सा मणिभद्रञ्च शक्रतुल्यपराक्रमम् ।
तयोः पत्न्यौ भगिन्यौ तु क्रतुस्थल्यात्मजे शुभे ॥१४७॥

नाम्ना पुण्यजनी चैव तथा देवजनी च या ।
विजज्ञे मणिभद्रात्तु पुत्रान् पुण्यजनी शुभान् ॥१४८॥

सिद्धार्थं सूर्यतेजञ्च सुमन्तं नन्दनं तथा ।
कन्यकं यविक्ञ्चैव मणिदत्तं वसुं तथा ॥१४९॥

सर्वानुभूतं शङ्खञ्च पिङ्गाक्षं भीरुमेव च ।
तथा मन्दरशोभिञ्च पझं चन्द्रप्रभं तथा ॥१५०॥

मघपूर्णं सुभद्रञ्च प्रद्योतञ्च महौजसम् ।
द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ॥१५१॥

चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः  ।
जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः  ।
तेषां पुत्राश्च पौत्राश्च यक्षा पुण्यजनाः शुभाः ॥१५२॥

विजज्ञे देवजननी पुत्रान् मणिवरात्मजात्  ।
पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्द्धनौ ॥१५३॥

कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम् ।
श्वेतञ्च विपुलञ्चैव पुष्पवन्तं भयावहम् ॥१५४॥

पद्मवर्णं सुनेत्रञ्च यक्षं बालं बकं तथा ।
कुमुदं क्षेमकञ्चैव वर्द्धमानं तथा दमम् ॥१५५॥

पझनाभं वराङ्गञ्च सुवीरं विजयं कृतिम् ।
पूर्णमासं हिरण्याक्षं सुरूपञ्चैवमादयः ॥१५६॥

पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः  ।
सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥१५७॥

खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः  ।
तेषां यथा प्रधानान् वै वर्ण्यमानान्निबोधत ॥१५८॥

लालाविः कुथनो भीमः सुमाली मधुरेव च ।
विस्फूर्ज्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तता ॥१५९॥

चन्द्रार्कः सुकरो बुध्नः कपिलोमा प्रहासकः ।
क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः ॥१६०॥

त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः ।
यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः ॥१६१॥

इत्येते राक्षसवरा विक्रान्ता गणरूपिणः.
सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ॥१६२॥

सप्त चान्या दुहितरस्ताः श्रृणुध्वं यथाक्रमम् ।
तासाञ्च यः प्रजासर्गो येन चोत्पादिता गणाः ॥१६३॥

आलम्बा उत्कचा कृष्णा निऋतो कपिला शिवा ।
केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ॥१६४॥

ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः ।
उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः ॥१६५॥

आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा ।
तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः ॥१६६॥

तथैव नैऋतो नाम त्र्यम्बकानुचरेण ह ।
उत्पादितः प्रजासर्गो गणेश्वरचरेण तु ॥१६७॥

उत्पादिता बलवता उदीर्णा यक्षराक्षसाः  ।
विक्रान्ताः शौर्यसम्पन्ना नैऋता देवराक्षसाः ।
येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ॥१६८॥

तेषां गणशतानेका उद्धृतानां महात्मनाम् ।
प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ॥१६९॥

दैत्यराजेन कुम्भेन महाकाया महात्मना  ।.
उत्पादिता महावीर्या महाबलपराक्रमाः ॥१७०॥

कपिलेया महावीर्या उदीर्णा दैत्यराक्षसाः ।
कम्पनेन च यक्षेण केशिन्यास्ते परे जनाः ॥१७१॥

उत्पादिता महावाता उदीर्णा यक्षराक्षसाः ।
केशिनीदुहितुश्चैव नीलायाः क्षुद्रमानसाः ॥१७२॥

आलम्बेयेन जनिता नैकाः सुरसिकेन हि ।
नैला इति समाख्याता दुर्जया घोरविक्रमाः ॥१७३॥

चरन्ति पृतिवीं कृत्स्नां तत्र ते देवलौकिकाः ।
बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते ॥१७४॥

तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी ।
दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ॥१७५॥

तस्या अपि विरूपेण नैऋतेनेह च प्रजाः ।
उत्पादिताः सुरा घोराः श्रृणु तास्त्वनुपूर्वशः ॥१७६॥

दंष्ट्राकरालविकृता महाकर्णा महोदराः ।
हारका भीषकाश्चैव तथैव क्रामकाः परे ॥१७७॥

वैनकाश्च पिशाचाश्च वाहकाः प्राशकाः परे ।
भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ॥१७८॥

चरन्त्यदृष्टपूर्वाश्च नानाकारा ह्यनेकशः ।
उत्कृष्ट बलसत्त्वा ये ते च वै खेचराः स्मृताः ॥१७९॥

लक्षमात्रेण चाकाशं स्वल्पाः स्वल्पं चरन्ति वै  ।
एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ॥१८०॥

भूमी राक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः ।
नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ॥१८१॥

समासाभिहताश्वैव ह्यष्टौ राक्षसमातरः ।
अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ॥१८२॥

भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः ।
सहस्रसतसङ्ख्याता मर्त्त्यलोकविचारिणः ॥१८३॥

पूतना मातृसामान्यास्तथा भूतभयङ्कराः ।
बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ॥१८४॥

स्कन्दग्रहादयश्चैव आपकास्त्रासकादयः ।
कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ॥१८५॥

स्कन्दग्रहविशेषाणां मायिकानां तथैव च ।
पूतनानामभूतानां ये च लोकविनायकाः ॥१८६॥

सहस्रशत सङ्ख्यानां मर्त्यलोकविचारिणाम् ।
एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ॥१८७॥

यक्षाः पुण्यतमा नाम तथा ये केऽपि गुह्यकाः ।
यक्षा देवजना श्चैव तथा पुण्यजनाश्च ये ॥१८८॥

गुह्यकानाञ्च सर्वेषामगस्त्या ये च राक्षसाः  ।
पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ॥१८९॥

यक्षाणां राक्षसानाञ्च पौलस्त्यागस्त्ययश्च ये  ।
तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ॥१९०॥

यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम् ।
रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ॥१९१॥

सर्वलक्षणसम्पन्नाः समक्षेत्राश्च दैवतैः ।
भास्वरा बलवन्तश्च ईश्वराः करामरूपिणः ॥१९२॥

अनाभिभक्षा विक्रान्ताः सर्वलोकनमस्कृताः ।
सूक्ष्माश्चौजस्विनो मेध्या वरदा यज्ञियाश्च ये ॥१९३॥

देवानां तुल्यधर्माणां ह्यसुराः सर्वशः स्मृताः ।
त्रिभिः पाधैस्तु गन्धर्वा देवै र्हीनाः प्रभावतः ॥१९४॥

गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः ।
प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः ।
ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रि गुणं पुनः ॥१९५॥

एवं धनेन रूपेण आयुषा च बलेन च ।
धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ॥१९६॥

देवासुरेभ्यो हीयन्ते त्रीन् पादान् वै परस्परम् ।
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥१९७॥

 ॥सूत उवाच॥
अतः श्रृणुत भद्रं वः प्रजाः क्रोधवशत्मकाः  ।
क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसम्भवाः ।
ता भार्याः पुलहस्यासन्नामतस्ता निबोधत ॥१९८॥

मृगी च मृगमन्दा च हरिभद्रा इरावती ।
भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च ।
श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ॥१९९॥

मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्ये शशास्तथा ।
न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ॥२००॥

मृगराजा मृगमन्दाया गवयाश्चापरे तथा ।
महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ॥२०१॥

हरेस्तु हरयः पुत्रा गोलाङ्गुलतरक्षवः  ।
वानराः किन्नराश्चैव व्याघ्राः किम्पुरुषास्तथा ।
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥२०२॥

सूर्यस्याण्डकपाले द्वे समा नीय तु भौवनः ।
हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ॥२०३॥

साम्ना प्रसूयमानेन सद्य एव गजोऽभवत् ।
स प्रायच्छदिरावत्यै पुत्रार्थ स तु भौवनः ॥२०४॥

इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः  ।
देवराजोपवाह्यत्वात् प्रथमः स मतङ्गराट् ।
शुब्राभ्रभाश्चतुर्द्दंष्ट्रः श्रीमानैरावतो गजः ॥२०५॥

अप्सुजस्यैकमूलस्य सुवर्णाभस्य हस्तिनः  ।
षड्दन्तस्य हि भद्रस्य औपावाह्यश्च वै बलः ॥२०६॥

तस्य पुत्रोऽञ्जनश्चैव सुप्रती कोऽथ वामनः.
पझश्चैव चतुर्थोऽभूद्धस्तिनी चाब्रमुस्तथा ॥२०७॥

दिग्घजांस्तांश्च चत्वारः श्वेताऽजनयताशुगान्  ।
भद्रं मृगञ्च मन्दं च सङ्कीर्णं चतुरः सुतान् ॥२०८॥

सङ्कीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु ।
भद्रो यः सुप्रतीकस्तु हरितः सह्यपाम्पतेः ॥२०९॥

पझो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य सः ।
मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ॥२१०॥

पझोत्तरस्तु यः पझौ गजौ वै वरुणो गणः ।
उपलेपनमेषश्च तस्याष्टौ जज्ञिरे सुताः ॥२११॥

उदग्रभावेनोपेता जायन्ते तस्य चान्वये ।
श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः ।
मतङ्गजान् प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥२१२॥

कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः ।
जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्छप्रमर्द्दनौ ॥२१३॥

शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा ।
बलिनः शक्तिनश्चैव स्मृतास्त्वाकुलिका गजाः ॥२१४॥

पुष्पदन्तो बृहत्सामा षड्दन्तो दन्त पुष्पवान् ।
ताम्रवर्णश्च तत्पुत्रः सहचारिविषाणितः ॥२१५॥

अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः ।
श्यामाः सुदर्शनाश्चण्डा नानापी डायताननाः ॥२१६॥

वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः ।
भार्या चैवाङ्गदा तस्य नीलवल्लक्षणौ सुतौ ॥२१७॥

चण्जास्वात्रशिरो ग्रीवा व्यूढोरस्कास्तरस्विनः ।
नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥२१८॥

सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः  ।
तस्य प्रहारी सम्पाती पृथुश्चित्तिसुतास्त्रयः ॥२१९॥

पशवो दीर्घताल्वौष्ठाः सुविभक्तशिरोदराः ।
जायन्ते मृदुसम्भूता वंशे तस्य मतङ्गजाः ॥२२०॥

अञ्ज नादञ्जना साम्नो विजज्ञे चाञ्जनावती ।
एवं माता तयोश्चापि प्रथितायुरजःसुतौ ॥२२१॥

महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः ।
सुदर्शनाः सुवर्ष्माणः पझाभाः परिमण्डलसाः ।
शूनाः पीतायतमुखा गजास्तस्यान्वयेऽभवन् ॥२२२॥

जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुदद्युतिः ।
पिह्गलायाः सुतौ तस्या महापझोर्मिमालिनौ ॥२२३॥

समायवरदांश्चण्डान् प्रवृद्धबलिनोदरान्  ।
हस्तियुद्धे प्रियान्नागान् विद्धि तस्य कुलोद्भवान् ॥२२४॥

एतान् देवासुरे युद्धे जयार्थे जगृहुः सुराः ।
कृतार्थैश्च विसृष्टास्तैः पूर्वोक्ताः प्रययुर्दिशः ॥२२५॥

एतेषामन्वये जातान् विनीतांस्त्रिदशा ददुः  ।
अङ्गाय लोमपादाय॥सूत्रकाराय वै द्विपान् ॥२२६॥

द्विरदो द्विरदाभ्याञ्च हस्ताद्धस्ती करात्करी ।
वरणाद्वारणो दन्ती दन्ताभ्यां गर्ज नाद्गजः ॥२२७॥

कुञ्जरः कुञ्जचारित्वान्नागो नगविरोधतः  ।
मतङ्गादिति मातङ्गो द्विपो द्वाभ्यामपि स्मृतः ।
सामजः सामजातत्वादिति निर्वचनक्रमः ॥२२८॥

एषां जिह्वापरावृत्तिरिवाक्तं ह्यग्निशापजम् ।
बलस्यानवतो या तु या चैषां गूढमुष्कता ।
उभयं दन्तिनामेतत्स्वयम्भूसूरशापजम् ॥२२९॥

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
कन्यासु जाता दिङ्नागैर्नानासात्त्वास्ततो गजाः ॥२३०॥

सम्भूतिश्च प्रबूतिश्च नामनिर्वचनं तथा ।
एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥२३१॥

कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम् ।
अञ्जनस्यैकमूलस्य प्राच्यान्नागवनन्तु तत् ॥२३२॥

उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणञ्च यत् ।
गङ्गोद्भेदात्करूषेभ्यः सुप्रतीकस्य तद्वनम् ॥२३३॥

अपरेणोत्कलाच्चैव ह्यावेदिभ्यश्च पञ्चमम् ।
एकभूतात्मनोस्यैतद्वामनस्य वनं स्मृतम् ॥२३४॥

अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु ।
यमस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ॥२३५॥

भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान् प्रभोः ।
स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् ॥२३६॥

लम्बकर्णान् प्रलम्बोष्ठान् लम्बजिह्वास्तनोदरान् ।
एकरूपान् द्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥२३७॥

सरोवरसमुद्रादिनदीपुलिनवासिनः ।
कृष्णान् गौरांश्च नीलांश्च श्वेतांश्च लोहितारुणान् ॥२३८॥

बभ्रून् वै शबलान् धूम्रान् कद्रून् रासभदारूणान् ।
मुञ्जकेशान् हृषीकेशान् सर्पयजोपवीतिनः ॥२३९॥

विसृष्टाक्षान् विरूपाक्षान् कृशाक्षानेकलोचनान् ।
बहुशीर्षान् विशीर्षांश्च एकशीर्षांश्च शीर्षकान् ॥२४०॥

चण्डांश्च विकटांश्चैव विरोमान् रोमशांस्तथा ।
अन्धांस्व जटिलांश्चैव कुञ्जान् हेषकवामनान् ॥२४१॥

सरोवरसमुद्रादिनदीपुलिनसेविनः ।
एककर्णान् महाकर्णान् शङ्कुकर्णानकर्णिकान् ॥२४२॥

दंष्ट्रिणो नखिनश्चैव निर्द्दन्तांश्च द्विजिह्वकान् ।
एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥२४३॥

एकपादान् द्विपादांश्च त्रिपादान् बहुपादकान्  ।
महायोगान् महासत्त्वान् सुतपक्वान् महाबलान् ॥२४४॥

सर्वत्रगानप्रतिघान् ब्रह्मज्ञान् कामरूपिणः  ।
घोरान् क्रूरांश्च मेध्यांश्च शिवान् पुण्यान् सवादिनः ॥२४५॥

कुशहस्तान् महाजिह्वान् महाकर्णान्महाननान् ।
हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ॥२४६॥

धन्विनो मुद्गरधरानसिशूलधरांस्तथा ।
दीप्तास्यान् दीप्तनेत्रांश्च चित्र माल्यानुलेषनान् ॥२४७॥

अन्नादान् पिशितादांश्च बहुरूपान् सुरूपकान्  ।
रात्रिसन्ध्याचरान् घोरान् व्कचित्सौम्यान् दिवाचरान् ।
नक्तञ्चरान् सुदुष्प्रेक्ष्यान् घोरांस्तान् वै निशाचरान् ॥२४८॥

परत्वे च भयं दैव सर्वे ते गतमानसाः ।
नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्द्ध्वरेतसः ॥२४९॥

शतन्तानि सहस्राणि भूतानामात्मयोगिनाम् ।
एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्त्तिताः ॥२५०॥

कपिशा चैव कूष्माण्डीकूष्माण्डाञ्जज्ञिरे पुनः  ।
मिथुनानि पिशाचानां वर्णेन कपिशेन च ।
कपिशत्वात् पिशाचास्ते सर्वे च पिशिताशनाः ॥२५१॥

युग्मानि षोडशान्यानि वर्त्तमानास्तदन्वयाः ।
नामतस्तान् प्रवक्ष्यामि पुरुषादांस्तदन्वयान् ॥२५२॥

छगलश्छगली चैव वक्रो वक्रमुखी तथा ।
षोडशानां गणाश्चैव सूची सूचीमुखस्तथा ॥२५३॥

सुम्भपा त्रश्च कुमभी च वज्रदंष्ट्रश्च दुन्दुभिः ।
उपचारोपचारश्च उलूखल उलूखली ॥२५४॥

अनर्कश्च अनर्का च कुखण्डश्च कुखण्डिका ।
पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥२५५॥

नितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा ।
छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा ।
षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ॥२५६॥

अजामुखा वक्रमुखाः पूरिणः स्कन्दिनस्तथा ।
विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ॥२५७॥

उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः ।
पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ॥२५८॥

सूचीमुखोच्छेषणादाः कुलान्येतानि षोडश ।
इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ॥२५९॥

पिशाचास्ते तु विज्ञेयाः सुकल्पा इति जज्ञिरे ।
बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम् ।
अतस्तेषां पिशाचानां लक्षणञ्च निबोधत ॥२६०॥

सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा ।
तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ॥२६१॥

अकेशका ह्यरोमाणस्त्वग्वसाश्चर्मवाससः ।
कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ॥२६२॥

वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा ।
ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ॥२६३॥

लम्बोदरास्तुण्डनाशा ह्रस्वकायशिरोभुजाः ।
नितुन्दकाः पिशाचास्ते तिलतक्षाः प्रियश्रवाः ॥२६४॥

वामनाकृतयश्चैव वाचालाः प्लुतगामिनः ।
पिशाचानर्कमर्कास्ते वृक्षवासादनप्रियाः ॥२६५॥

ऊर्द्ध्वबाहूर्द्ध्वरोमाण ऊर्द्ध्ववृक्षास्तथालयाः ।
मुञ्चन्ति पांशूनङ्गेभ्यः पिशाचाः पांशवश्च ते ॥२६६॥

धमनीमतकाः शुष्काः श्मश्रुलाश्चीरवाससः ।
उपवीराः पिशाचाश्च श्मशानायतनास्तथा ॥२६७॥

विष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युदूखलाः ।
हस्त्युष्ट्रस्थूलशिरसो विरता बद्धपिण्डकाः ॥२६८॥

पिशाचाः सुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते ।
सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति वै ॥२६९॥

अयुक्ताश्च विशन्तीह निपुणास्ते पिशाचकाः.
आकर्ण दारितास्याश्च लम्बश्रूस्थूलनासिकाः ॥२७०॥

हस्तपादाक्रान्तगणा ह्रस्वकाः क्षितिदृष्टयः ।
बालादास्ते पिशाचा वै॥सूतिकागृहसेविनः ॥२७१॥

पृष्ठतः पाणिपादाश्च ह्रस्वका वातरंहसः ।
पिशितादाः पिशाचास्ते संग्रामे रुधिराशिनः ॥२७२॥

नग्नका ह्यनिकेताश्च लम्बकेशाश्च पिण्डकाः ।
पिशाचाः स्कन्दिनस्ते वै अन्या उच्छुसनाशिनः  ।
षोडश जातयस्तेषां पिशाचानां प्रकीर्त्तिताः ॥२७३॥

एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकम्पया ।
तेभ्यो ब्रह्मा वरं प्रादात्कारुण्यादल्पचेतसः ।
अन्तर्द्धानं प्रजास्तेषां कामरूपत्वमेव च ॥२७४॥

उभयोः सन्द्ययोश्चारं स्थानान्याजीवमेव च ।
गृहाणि यानि भग्नानि शून्यान्यल्पजनानि च ॥२७५॥

विध्वस्तानि च यानि स्युरनाचारोषितानि च ।
असंस्पृष्टोप लिप्तानि संस्कारैर्वर्जितानि च ॥२७६॥

राजमार्गोपरथ्याश्च निष्कुण्ठाश्चत्वराणि च ।
द्वाराण्यष्टालकाश्चैव निर्ममान्संक्रमांस्तथा ॥२७७॥

पथो नद्योऽथ तीर्थानि चैत्यवृक्षान्महापथान्  ।
पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ॥२७८॥

अधार्मिका जनास्ते वै आजीवा विहिताः सुरैः ।
वर्णाश्रमाः सङ्करिकाः कारुशिल्पिजनास्तथा ॥२७९॥

अमृतोपमसत्त्वानां चौरविश्वासघातिनाम् ।
एतैरन्यैश्च बहुबिरन्यायोपार्ज्जितैर्धनैः  ।
आरभन्ते क्रिया यास्तु पिशाचास्तत्र देवताः ॥२८०॥

मधुमांसौदनैर्दध्ना तिलचूर्णसुरासवैः ।
धूपैर्हारिद्रकृशरैस्तैलभद्रगुडौदनैः ॥२८१॥

कृष्णानि चैव वासांसि धूपाः सुमनसस्तथा ।
एवं युक्ताः सुबलयस्तेषां वै पर्वसन्धिषु ।
पिशाचानामनुज्ञाय ब्रह्मा सोऽधिपतिर्ददौ ॥२८२॥

सर्वभूतपिशाचानां गिरिशं शूलपाणिनम्  ।
दृष्ट्वा त्वजनयन्पुत्रान्व्याघ्रान्सिंहांश्च भामिनी ॥२८३॥

द्विपिनश्च सुतास्तस्या व्यालेयाश्चामिषाशिनः ।
॥ऋषयश्चापि कार्त्स्न्येन प्रजासर्गं निबोधत ।
तस्या दुहितरः पञ्च तासां नामानि मे श्रृणु ॥२८४॥

मीना माता तथा वृत्ता परिवृत्ता तथैव च ।
अनुवृत्ता तु विज्ञेया तासां वै श्रृणुत प्रजाः ॥२८५॥

सहस्रदन्ता मकराः पाठीनास्तामरोहिताः ।
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥२८६॥

ग्राहाश्चतुर्विधा ज्ञेयास्तथानुज्येष्ठका अपि ।
निष्कांश्च शिशुमारांश्च मता व्यजनयत्प्रजाः ॥२८७॥

वृत्ता कूर्मविकाराणि नैकानि जलचारिणाम् ।
तथा शङ्खविकाराणि जनयामास नैकशः ॥२८८॥

मण्डूकानां विकाराणि अनुवृत्ता व्यजायत ।
ऐणेयानां विकाराणि शम्बूकानां तथैव च ॥२८९॥

तथा शुक्तिविकाराणि वराटककृतानि च ।
तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥२९०॥

कालकूटविकाराणि जलौकविहितानि च  ।
इत्येष हि ऋषेर्वंशः पञ्चशाखाः प्रकीर्त्तिताः ॥२९१॥

तिर्यगं हेतुकमाद्यादुर्बहुलं वंशविस्तरम् ।
संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥२९२॥

स्वस्तिपिकशरीरेभ्यो जायन्त्युत्पादका द्विजाः ।
मनुष्याः स्वेदमलजाः उशना नाम जन्तवः ।
नानापिपीलिकगणाः कीटका बद्धपादकाः ॥२९३॥

शङ्खोपलविकाराणि कीलकाचारकाणि च ।
इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ॥२९४॥

तथा घर्मादितप्ताभ्यस्त्वद्भयो वृष्टिभ्य एव च ।
नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ॥२९५॥

मीनकाः पिप्पला दंशास्तथा तित्तिरपुत्रिकाः ।
नीलचित्राश्च जायन्ते ह्यलका बहुविस्तराः ॥२९६॥

जलजाः स्वेदजाश्चैव जायन्ते जन्तवस्त्विमे ।
काशातो यञ्जकाः कीटनलदा बहुपादकाः ॥२९७॥

सिहला रोमलाश्चैव पिच्छलाः परिकीर्त्तिताः ।
इत्येमादिर्हि गणो जलजः स्वेदजः स्मृतः ॥२९८॥

सर्पिर्भ्यो माषमुद्गानां जायन्ते क्रमशस्तथा ।
जम्बुबिल्वाम्रपूगेभ्यः फलेभ्यश्चैव जन्तवः ॥२९९॥

मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च ।
तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ॥३००॥

अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा ।
जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ॥३०१॥

बहून्यहानि निःक्षिप्ते सम्भवन्ति च गोमये ।
जायन्ते कृमयो विप्रा काष्ठेभ्यश्च घुणादयः ॥३०२॥

क्रमाद्‌द्रुमाणां जायन्ते विविधा नीलमक्षिकाः ।
तथा शुष्कविकारेभ्यः पुत्रिकाः प्रभवन्ति च ॥३०३॥

कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः ।
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥३०४॥

गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो ।
मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ॥३०५॥

चैवीरिकाश्च जायन्ते तथा गोजाकुलानि च ।
तथान्यानि च सूक्ष्माणि जलौकादीनि जातयः ॥३०६॥

मक्षिकाणां विकाराणि जायन्ते जात योऽपरे  ।
प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्द्दमे ॥३०७॥

मशकानां विकाराणि भ्रमराणां तथैव च ।
तृणेभ्यश्चैव जायन्ते पुत्रिका पुत्रभासकाः ॥३०८॥

मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः ।
शतवेरिविकाराणि करीषेभ्यो भवन्तिह ॥३०९॥

एवमादिरसङ्ख्यातो गणः संस्वेदजो मया ।
समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ॥३१०॥

तथाऽन्ये नैऋताः सत्त्वास्ते स्मृता उपसर्गजाः ।
पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ॥३११॥

प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः  ।
केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ॥३१२॥

तूलालाघश्च कोलश्च शिवा कन्या तथैव च ।
अपत्यं सरमायास्तु गणा वै सरमादयः ॥३१३॥

श्यामश्च शबलश्चैव अर्जुनो हरितस्तथा ।
कृष्णो धूम्रारूणश्चैव तूलालाघश्च कद्रुकाः ॥३१४॥

सुरसाथ विजज्ञे तु शतमेकं शिरो मतम् ।
सर्पाणां तक्षको राजा नागानाञ्चापि वासुकिः  ।
तमोबहुल इत्येष गणः क्रोधवशात्मकः ॥३१५॥

पुलहस्यात्मजा सर्गस्ताम्रायास्तन्निबोधत ।
बह्वन्यास्त्वबिविख्यातास्ताम्रायाश्च विजज्ञिरे ॥३१६॥

श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ।
सम्पातिञ्च जटायुञ्च प्र॥सूता पक्षिसत्तमौ ॥३१७॥

सम्पातिरजनत् पुत्रं कन्यामेकां तथैव च ।
जटायुषश्च ये पुत्राः काक गृध्राश्चकर्णिनः ॥३१८॥

भार्या गरुत्मतश्चापि भासी क्रौञ्ची तथा शुकी ।
धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते ॥३१९॥

शुकी गरुत्मतः पुत्रान् सुषुवे षट् परिश्रुतान्  ।
त्रिशिरं सुमुखञ्चैव बलं पृष्ठं महाबलम् ॥३२०॥

त्रिशङ्खनेत्रं सुमुखं सुरूपं सुरसं बलम् ।
एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥३२१॥

चतुर्दश सहस्राणि क्रूराणां पन्नगाशिनाम् ।
पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः ॥३२२॥

व्याप्तानि यानि देशानि तानि वक्ष्ये यथाक्रमम् ।
शाल्मलिद्वीपमखिलं देवकूटञ्च पर्वतम् ॥३२३॥

मणिमन्तञ्च शैलेन्द्रं सहस्रशिखरं तथा ।
पर्णमालं सुकेशञ्च शतश्रृङ्गं तथाचलम् ॥३२४॥

कौरजं पञ्चशिखरं हेमकूटञ्च पर्वतम् ।
प्रचण्डवायुप्रभवैर्दीपितैः पझरागिभिः ॥३२५॥

शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः  ।
भासीपुत्राः स्मृता भासा उलूका काककुक्कुटाः ॥३२६॥

मयूराः कलविङ्काश्च कपोता लावतित्तिराः ।
क्रौञ्ची वार्द्धीणसान् श्येनी कुररान्सारसान्बकान् ॥३२७॥

इत्येवमादयोन्येऽपि क्रव्यादा ये च पक्षिणः ।
धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ॥३२८॥

चक्रवाकांश्च विहगान्सर्वांश्चैवादकान् द्विजान् ।
एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ॥३२९॥

गरुडस्यात्मजाः प्रोक्ता इरायाः श्रृणुत प्रजाः ।
इरा प्रजज्ञे कन्या वैतिस्रः कमललोचनाः ॥३३०॥

वन स्पतीनां वृक्षाणां वीरुधाञ्चैव मातरः ।
लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ॥३३१॥

लता वनस्पतीञ्जज्ञे ह्यपुष्पान् पुलिनस्थितान्  ।
युक्तान्पुष्पफलैर्वृक्षान् लता वै सम्प्रसूयते ॥३३२॥

अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः ।
वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ॥३३३॥

एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः  ।
तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ॥३३४॥

इति सर्गैकदेशस्य कीर्तितोऽवयवो मया ।
मारीचोऽयं प्रजा सर्गः समासेन प्रकीर्तितः ।
न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ॥३३५॥

अदितिर्धर्मशीला तु बलशीला दितिः स्मृता ।
तपःशीला तु सुरभि र्मायाशीला दनुः स्मृता ॥३३६॥

क्रूरशीला तथा कद्रुः क्रौञ्च्यथ श्रुतिशालिनी  ।
इरा ग्रहणशीला तु दनायुर्भक्षणे रता ॥३३७॥

वाहशीला तु विनता ताम्रा वै पाशशालिनी ।
स्वभावा लोकमातॄणां शीलान्येतानि सर्वशः ॥३३८॥

धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः ।
रजः सत्त्वतमो वृत्ता धार्मिकाधार्मिकास्तु वै ॥३३९॥

मातृतुल्याश्चाबिजाताः कश्यपस्यात्मजाः प्रजाः ।
देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचाः पशवश्चैव मृगाः पतङ्गवीरुधः ॥३४०॥

यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्विह ।
मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥३४१॥

धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै ।
ततोऽधः स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥३४२॥

जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः ।
इत्येवं वंशप्रभवः प्रसङ्ख्यातस्तपस्विनाम् ॥३४३॥

सुराणामसुराणाञ्च गन्धर्वाप्सरसां तथा ।
यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ॥३४४॥

व्यालानां शिखिनाञ्चैव ओषधीनाञ्च सर्वशः ।
कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये ।
पशूनां ब्राह्णानाञ्च श्रीमतां पुण्यलक्षणम् ॥३४५॥

आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः ।
श्रोतव्यश्चैव सततं ग्राह्यश्चैवानुसूयता ॥३४६॥

इमन्तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्णवैद्यसंसदि  ।
अपत्यलाभं हि लबेत्सुपुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ॥३४७॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP