संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥वायुरुवाच॥
असाधारणवृत्तैस्तु हुतशेषादिभिर्द्विजैः ।
धर्म्मवैशेषिकैश्चैव ह्याचूर्णसूक्ष्मदर्शिभिः ॥१॥

ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः ।
चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्धनाः ॥२॥

अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।
ऋषिभि र्दैवतैश्चैव सह गन्धर्वराक्षसैः ॥३॥

सर्व्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥४॥

सर्व्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥५॥

तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः ।
वर्णाश्रमाणां धर्म्मेषु श्रौतस्मार्त्तेषु संस्थितैः ।
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥६॥

।.॥ऋषय ऊचुः॥
महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभो ।
प्रतिलोके च कर्त्तव्यमनेकैः समधिष्ठिताः ॥७॥

यावन्तश्चैव ते लोका दह्यन्ते ये न तेप्रभो ।
एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथा तथम् ॥८॥

एवमुक्तस्ततो वायुर्मुनिभिर्विनयात्मभिः ।
प्रोवाच मधुरं वाक्यं यथातत्त्वेन तत्त्ववित् ॥९॥

वायुरुवाच॥
चतुर्द्दशैव स्थानानि वर्णितानि महर्षिभिः ।
लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ॥१०॥

सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै ।
भूरादयस्तु सङ्ख्याताः सप्त लोकाः कृतास्त्विह ॥११॥

अकृतानि तु सप्तैव प्राकृतानि तु यानि वै ।
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ॥१२॥

पृथिवीं चान्तरिक्षं च दिव्यं यच्च महः स्मृतम् ।
स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ॥१३॥

क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते ।
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवम् ॥१४॥

जनस्तपश्च सत्यञ्च स्थानान्येतानि त्रीणि तु ।
ऐकान्तिकानि सत्त्वानि तिष्ठन्तीहाप्रसंयमात् ॥१५॥

व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै ।
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥१६॥

स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः ।
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥१७॥

सत्यन्तु सप्तमो लोको निरालोकस्ततः परम् ।
भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ॥१८॥

द्वितीयं भुव इत्युक्त अन्तरिक्षं ततोऽभवत् ।
तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥१९॥

व्याहारैस्त्रिभिरेतैस्तु ब्रह्मलोकमकल्पयत् ।
ततो भूः पार्थिवो लोक अन्तरिक्षं ततोऽभवत् ।
तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥२०॥

स्वर्लोको वै दिवं ह्येतत्पुराणे निश्चयं गतम् ।
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥२१॥

वायुर्भुवस्याधिपतिस्तेन वायुर्भुवपतिः ।
भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥२२॥

महेति व्याहृतेनैवं महर्लोकस्ततोऽभवत् ।
विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ॥२३॥

जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः  ।
तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥२४॥

यास्ताः स्वायम्भुवाद्या हि पुरस्तात्परिकीर्त्तिताः ।
कल्पदग्धे तदा लोके प्रतिष्ठन्ति तदा तपः ॥२५॥

ऋभुः ॥सनत्कुमाराद्या यत्र सन्त्यूर्द्ध्वरेतसः  ।
तपसा भावितात्मानस्तत्र सन्तीति वा तपः ॥२६॥

सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु सः स्मृतः ।
ब्रह्मलोकस्ततः सत्यं सप्तमः स तु भास्करः ॥२७॥

गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः ।
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ।
स्वर्लोकवासिनः सर्वे देवा भुविनिवासिनः ॥२८॥

मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ ।
अनिकेतान्तरिक्षास्ते भुवर्लौक्या दिवौकसः ॥२९॥

आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा ।
॥ऋषयोऽङ्गिरसश्चैव भुवर्ल्लोकं समाश्रिताः ॥३०॥

एते वैमानिका देवास्ताराग्रहनिवासिनः ।
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः ॥३१॥

भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः ।
आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ॥३२॥

शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः ।
महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ॥३३॥

भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः ।
तान् सर्वान् सप्त सूर्यास्ते अर्च्चिर्भिर्निदहन्ति वै ॥३४॥

मरीचिः कश्यपो दक्षस्तथा स्वायम्भुवोऽङ्गिराः  ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥३५॥

प्रजानां पतयः सर्वे वर्त्तन्ते तत्र तैः सह ।
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्ध्वरेतसः ॥३६॥

ऋभुः ॥सनत्कुमाराद्या वैराज्यास्ते तपोधनाः ।
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः  ।
चतुर्द्दशानां सर्वेषां पुनरावृत्तिहेतवः ॥३७॥

योगं तपश्च सत्यञ्च समाधाय तदात्मनि ।
षष्ठे काले निवर्त्तन्ते तत्तदाहर्विपर्यये ॥३८॥

सत्यन्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् ।
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥३९॥

पर्यासपारिमाण्येन भूर्लोकः समितिः स्मृतः  ।
भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ॥४०॥

सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः ।
ध्रुवाज्जनान्तरं यच्च महर्लोकस्तदुच्यते ॥४१॥

विख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः ।
भूर्लोकवासिनः सर्वे ह्यन्नादास्तु रमात्मकाः ॥४२॥

भुवे स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते ।
चतुर्थे येऽपि वर्त्तन्ते मह र्लोकं समाश्रिताः ॥४३॥

विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा ।
सद्यश्चोत्पद्यते तेषां मनसा सर्व्वमीप्सितम् ॥४४॥

एते दैवा यजन्ते वै यज्ञैः सर्वैः परस्परम् ।
अतीतान् वर्तमानांश्च वर्त्तमानाननागतान् ॥४५॥

प्रथमानन्तरैरिष्ट्वा ह्यन्तराः साम्प्रतैः पुनः ।
निवर्त्ततीत्यासम्बन्धोऽतीते देवगणे ततः ॥४६॥

विनिवृत्ताधिकाराणां सिद्धिस्तेषान्तु मानसी ।
तेषान्तु मानसी ज्ञेया शुद्धा सिद्धिपरम्परा ॥४७॥

उक्ता लोकाश्च चत्वारो जनस्यानुविधिस्तथा ।
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ॥४८॥

वायुरुवाच॥
मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः ।
पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ॥४९॥

पूर्वं ते संप्रसूयन्ते ब्रह्मणो मनसा इह ।
ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ॥५०॥

कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै ।
भूरा दिषु महान्तेषु भृशं व्याप्तेष्वथाग्निना ॥५१॥

शिखा संवर्त्तका ज्ञेया प्राप्नुवन्ति सदा जनाः ।
यामादयो गणाः सर्वे महर्लोकनिवासिनः ॥५२॥

महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते ।
सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ॥५३॥

तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्त्तिधरास्तथा  ।
जन लोके विवर्त्तन्ते यावत्संप्लवते जगत् ॥५४॥

व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः ।
अहरादौ प्रसूयन्ते पूर्ववत्क्रमशास्त्विह ॥५५॥

स्वायम्भुवादयः सर्वे मरीच्यन्तास्तु साधकाः ।
देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ॥५६॥

यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः ।
पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चचिमास्तथा ।
देवान्वये देवता हि सप्त सम्भूतयः स्मृताः ।
व्यतीताः कल्यजास्तेषां तिस्रः शिष्टास्तथा परे ॥५८॥

आवर्त्तमाना देवास्ते क्रमेणैते न सर्व्वशः ।
गत्वा जवन्तवीभावन्दशकृत्वः पुनः पुनः ॥५९॥

ततस्ते वै गणाः सर्व्वे दृष्ट्वा भावेष्वनित्यताम् ।
भाविनोऽर्थस्य च बलात् पुण्याख्यातिबलेन च ॥६०॥

निवृत्तवृत्तयः सर्वे स्वस्थाः सुमनसस्तथा ।
वैराजे तूपपद्यन्ते लोकमुत्सृज्य तज्जनम् ॥६१॥

ततोऽन्येनैव कालेन नित्ययुक्तास्तपस्विनः ।
कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ॥६२॥

ईहोत्पन्नास्ततस्ते वै स्थाना आपूरयन्त्युत ।
देवत्वे च ऋषित्वे च मनुष्यन्वे च सर्वशः ॥६३॥

एवं देवगणाः सर्वे दशकृत्वो निवर्त्त्य वै ।
वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ॥६४॥

पूर्णे पूर्णे ततः कल्पे स्थित्वा वैराजके पुनः ।
ब्रह्मलोके विवर्त्तंते पूर्व्वपूर्व्वक्रमेण तु ॥६५॥

एतस्मिन् ब्रह्मलोके तु कल्पे वैराजके गते ।
वैराजं पुनरप्येके कल्पस्थानमकल्पयन् ॥६६॥

एवं पूर्व्वानुपूर्व्येण ब्रह्मलोकगतेन वै ।
एवं तेषु व्यतीतेषु तपसा परिकल्पिते ।
वैराजे तूपपद्यन्ते दशकृत्वो निवर्त्तते ॥६७॥

एवं देवयुगानीह व्यतीतानि सहस्रशः ।
निधनं ब्रह्मलोके तु गतानामृषिभिः सह ॥६८॥

॥सूत उवाच ।.
न शक्यमानुपूर्वेण तेषां वक्तुं प्रविस्तरम् ।
अनादित्वाच्च कालस्य ह्यसं ख्यानाच्च सर्वशः ।
एवमेव न सन्देहो यथावत्कथितं मया ॥६९॥

तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः ।
॥सूतमाहुः पुराणज्ञं व्यासशिष्यं महा मतिम् ॥७०॥

॥ऋषय ऊचुः॥
वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः ।
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥७१॥

तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित् ।
॥सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत् ॥७२॥

ततः प्राप्यन्त ते सर्व्वे शुद्धिशुद्धतमाश्च ये ।
आभूत संप्लवास्तत्र दश तिष्ठन्ति तेजनाः ॥७३॥

सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्त्तयः ।
स्थितलोकास्थितत्वाच्च तेषां भूतं न विद्यते ॥७४॥

ऊचुः ॥सनत्कुमाराद्याः सिद्धास्ते थोगधर्मिणः ।
ख्यातिं नैमित्तिकीं तेषां पर्य्याये समुपस्थिते ॥७५॥

स्थानत्यागे मनश्चापि युगपत्संप्रवर्त्तते ।
ऊचुः सर्व्वे तदान्योऽन्यं वैराजाञ्छुद्धबुद्धयः ॥७६॥

एवमेव महाभागाः प्रणवं सम्प्रविश्य ह ।
ब्रह्मलोके प्रवर्त्तानस्तन्नः श्रेयो भविष्यति ॥७७॥

एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः ।
योजयित्वा तदा सर्व्वे वर्त्तन्ते योगधर्म्मिणः ॥७८॥

तत्रैव सम्प्रलीयन्ते शान्ता दीपार्चिषो यथा ।
ब्रह्मकायमवर्त्तन्त पुनरावृत्तिदुर्ल्लभम्॥. ३९.७९॥

लोकं तं समनुप्राप्य सर्व्वे ते भावनामयम् ।
आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वाय ते गताः ॥८०॥

वैराजेभ्यस्तथैवोर्द्ध्वमन्तरे षड्गुणे ततः ।
ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ॥८१॥

ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा ।
आनन्दं ब्रह्मणः प्राप्यामृतत्वञ्च भजन्त्युत ॥८२॥

द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्ज्जिताः ।
आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ॥८३॥

प्रभावविजयैश्वर्य्यस्थितिवैराग्यदर्शनैः ।
तेब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्त्तनीम् ॥८४॥

ब्रह्मणा सह देवैश्च सम्प्राप्ते प्रतिसञ्चरे ।
तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः ।
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥८५॥

इत्येतदमृतं शुक्रं नित्यमक्षयमव्ययम् ।
देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥८६॥

अपुनर्मार्गगादीनां तेषां चैवोर्द्ध्वरेतसाम्  ।
कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यते ॥८७॥

तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते ।
हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ॥८८॥

वीतरागा जितक्रोधाः निर्मोहाः सत्यवादिनः ।
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥८९॥

निःसङ्गाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः  ।
अकामयुक्तैर्ये वीरास्तपोभिर्द्दग्धकिल्बिषाः ।
तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ॥९०॥

एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम् ।
गत्वा न यत्र शोचन्ति ह्यमरा ब्रह्मणा सह ॥९१॥

॥ऋषय ऊचुः॥
कस्मादेष परार्द्धश्च कश्चैष पर उच्यते ।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥९२॥

॥सूत उवाच॥
श्रृणुध्वं मे परार्द्धञ्च परिसंख्यां परस्य च ।
एवं दश शतञ्चैव सहस्रञ्चैव सङ्ख्यया ॥९३॥

विज्ञेयमासहस्रन्तु सहस्राणि दशायुतम् ।
एकं शतसहस्रन्तु नियुतं प्रोच्यते बुधैः ॥९४॥

तथा शतसहस्राणामर्बुदं कोटिरुच्यते ।
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ॥९५॥

सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः ।
दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥९६॥

शतं कोटिसहस्राणां सङ्कुरित्यभिधीयते ।
कोटि सहस्र स्राणां कोटीनां दशधा पुनः ।
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥९७॥

कोटीनां सहस्रमयुतमित्ययं मध्य उच्यते ।
कोटि सहस्र नियुता स चान्त इति संज्ञितः ॥९८॥

कोटिकोटिसहस्राणिं परार्द्ध इति कीर्त्यते  ।
परार्द्धद्विगुणञ्चापि परमाहुर्मनीषिणः ॥९९॥

शतमाहुः परिदृढं सहस्रं परिपद्मकम् ।
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥१००॥

अर्बुदं निर्बुदञ्चैव खर्बुदञ्च ततः स्मृतम् ।
खर्वञ्चैव निखर्वञ्च शङ्कुः पद्मं तथैव च ॥१०१॥

समुद्रं मध्यमञ्चैव परार्द्धमपरं ततः ।
एवमष्टादशैतानि स्थानानि गणनाविधौ ॥१०२॥

शतानीति विजानीयात् संज्ञितानि महर्षिभिः ।
कल्पसंख्या प्रवृत्तस्य परार्द्धं ब्रह्मणः स्मृतम् ॥१०३॥

तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिसृज्यते ।
पर एष परार्द्धञ्च संख्यातः संख्यया मया ॥१०४॥

यस्मादस्य परं वीर्यं परमायुः परन्तपः ।
परा शक्तिः परो धर्म्मः परा विद्या परा धृतिः ॥१०५॥

परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च ।
तस्मात्परतरं भूतं ब्रह्मणोऽन्यन्न विद्यते ॥१०६॥

परे स्थितो ह्येष परः सर्वार्थेषु ततः परः ।
संख्यातस्तु परो ब्रह्मा तस्यार्द्धं तु परार्द्धता ॥१०७॥

संख्येयं चाप्यसंख्येयं सततं चापि तं त्रिकम् ।
संख्येयं संख्यया दृष्टमपारार्द्धाद्विभाष्यते ॥१०८॥

राशौ दृष्टे न संख्यास्ति तदसंख्यस्य लक्षणम् ।
आनन्त्यं सिकताख्येषु दृष्टवान् पञ्चलक्षणम् ॥१०९॥

ईश्वरैस्तत्प्रसंख्यातं शुद्धत्वाद्दिव्यदृष्टिभिः ।
एवं ज्ञानप्रतिष्ठत्वात् सर्व्वं ब्रह्मानुपश्यति ॥११०॥

एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः ।
बाष्पपर्य्याकुलाक्षास्तु प्रहर्षाद्घद्घदस्वराः ॥१११॥

पप्रच्छुर्मातरिश्वानं सर्व्वे ते ब्रह्मवादिनः ।
ब्रह्मलोकस्तु भगवन् यावन्मात्रान्तरः प्रभो ॥११२॥

योजनाग्रेण संख्यातः साधनं योजनस्य तु ।
क्रोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ॥११३॥

तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक् ।
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥११४॥

वायुरुवाच॥
एतद्वोऽहं प्रवक्ष्यामि श्रृणुध्वं मे विवक्षितम् ।
अव्यक्ताद्व्यक्तभागो वै महास्थूलो विभाष्यते ॥११५॥

दशैव महतां भागा भूतादिः स्थूल उच्यते ।
दशभागाधिकं चापि भूतादिः परमाणुकः ॥११६॥

परमाणुः सुसूक्ष्मस्तु बावग्राह्यो न चक्षुषा ।
यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ॥११७॥

जालान्तरगतं भानोर्यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥११८॥

अष्टानां परमाणूनां समवायो यदा भवेत्  ।
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥११९॥

त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः  ।
तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ॥१२०॥

बालाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत् ।
यूकाष्टकं यवं प्राहुरङ्गुलन्तु यवाष्टकम् ॥१२१॥

द्वादशाङ्गुलपर्व्वाणि वितस्तिस्थानमुच्यते ।
रत्निश्चाङ्गुलपर्वाणि विज्ञेयो ह्येकविंशतिः ॥१२२॥

चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु ।
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ॥१२३॥

षण्णवत्यङ्गुलञ्चैव धनुराहुर्मनीषिणः ।
एतद्गव्यूतिसंख्यायां पादानां धनुषः स्मृतः ॥१२४॥

धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः ।
धनुषस्त्रिशतं नल्वमाहुः संख्याविदो जनाः ॥१२५॥

धनुःसहस्रे द्वे चापि गव्यूतिरुपदिश्यते ।
अष्टौ धनुःसहस्राणि योजनन्तु विधीयते ॥१२६॥

एतेन धनुषा चैव योजनं तु समाप्यते ।
एतत्सहस्रं विज्ञेयं शक्रक्रोशान्तरन्तथा ॥१२७॥

योजनानान्तु संख्यातं संख्याज्ञानविशारदैः ।
एतेन योजनाग्रेण श्रृणुध्वं ब्रह्मणोऽन्तरम् ॥१२८॥

महीतलात्सहस्राणां शतादूर्द्ध्वं दिवाकरः ।
दिवाकरात्सहस्रेण तावदूर्द्ध्वं निशाकरः ॥१२९॥

पूर्णं शतसहस्रन्तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥१३०॥

शतं सहस्रं संख्यातो मेरुर्द्विगुणितं पुनः ।
ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डलात् ॥१३१॥

ताराग्रहाणां सर्व्वेषामधस्ताच्चरते बुधः ।
तस्योर्द्ध्वञ्चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ॥१३२॥

ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्द्वं शनैश्चरः ।
ऊर्द्ध्वं शतसहस्रन्तु योजनानां शनैश्चरात् ॥१३३॥

सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।
ऋषिभिस्तु सहस्राणां शतादूर्द्ध्वं विभाव्यते ॥१३४॥

योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके ।
उत्तानपादपुत्रोऽसौ मेढिभूतो ध्रुवो दिवि ॥१३५॥

त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया ।
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥१३६॥

वर्णाश्रमेभ्य इज्या तु लोकेऽस्मिन्या प्रवर्त्तते ।
सर्वेषां देवयोनीनां स्थितिहेतुः सवै स्मृतः ॥१३७॥

त्रैलोक्यमेतद्वयाख्यातमत ऊर्द्ध्वं निबोधत ।
ध्रुवा दूर्द्ध्वं महर्लोको यस्मिस्ते कल्पवासिनः ।
एकयोजनकोटी सा इत्येवं निश्चयं गतम् ॥१३८॥

द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः ।
यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ॥१३९॥

चतुर्गुणोत्तरादूर्द्ध्वं जनलोकात्तपः स्मृतम् ।
वैराजा यत्र ते देवा भूतदाहविवर्जिताः ॥१४०॥

षड्गुणन्तु तपोलोकात्सत्यलोकान्तरं स्मृतम् ।
अपुनर्मारकामानां ब्रह्मलोकः स उच्यते ॥१४१॥

यस्मान्न च्यवते भूयो ब्रह्माणं स उपासते  ।
एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ॥१४२॥

ऊर्द्ध्वं भागस्ततोऽण्डस्य ब्रह्मलोकात्परः स्मृतः ।
चतुरश्चैव कोट्यस्तु नियुताः पञ्चषष्टि च ॥१४३॥

एषोऽर्द्धंशप्रचारोऽस्य गत्यन्तश्चापरः स्मृतः ।
ध्रवाग्रमेतद्वयाख्यातं योजनाग्राद्यथाश्रुतम् ॥१४४॥

अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम् ।
गच्छन्ति घोरकर्म्माणः प्राणिनो यत्र कर्म्मभिः ॥१४५॥

नरको रौरवो रोधः सूकरस्ताल एव च ।
तप्तकुम्भो महाज्वालः शबलोऽथ विमोचनः ॥१४६॥

कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः  ।
अधःशिराः पूयवहो रुधिरान्धस्तथैव च ॥१४७॥

तथा वैतरणं कृष्णमसिपत्रवनं तथा ।
अग्निज्वालो महाघोरः संदंशोऽथ श्वभोजनः॥३९.१४८॥

तमश्च कृष्ण॥सूत्रश्च लोहश्चाप्यसिजस्तथा ।
अप्रतिष्ठोऽथ वीच्यश्वनरका ह्येवमादयः ॥१४९॥

तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणः पतन्तीह पृथक्पृथक् ॥१५०
भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्त्तिताः ।
रौरवे कूटसाक्षी तु मिथ्या यश्चाभिशंसति ।
क्रूरग्रहे पक्षवादी ह्यसत्यः पतते नरः ॥१५१॥

रोधे गोघ्नो ब्रूणहा च ह्यग्निदाता पुरस्य च ।
सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ॥१५२॥

ताले पतेत्क्षत्रियहा हत्वा वैश्यञ्च दुर्गतिम् ।
ब्रहमहत्याञ्च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ॥१५३॥

तप्तकुम्भी स्वसागामी तथा राजभटश्च यः ।
तप्तलोहे चाश्ववणिक्तथा बन्धनरक्षिता ॥१५४॥

साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत् ।
महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ॥१५५॥

वेदो विक्रीयते येन वेदं दूषयते च यः ।
गुरूंश्चैवावमन्यन्ते वाक्क्रोशैस्ताडयन्ति च ॥१५६॥

अगम्यगामीच नरो नरकं शबलं व्रजेत् ।
विमोहे पतिते चौरे मर्यादां यो भिनत्ति वै ॥१५७॥

दुरध्वं कुरुते यस्तु कीटलोहं प्रपद्यते ।
देवब्राह्मणविद्वेष्टा गुरूणाञ्चाप्यपूजकः ।
रत्नं दूषयते यस्तु कृमिभक्ष्यं प्रपद्यते ॥१५८॥

पर्य्यश्नाति य एकोऽन्यो ब्राह्मणीं सुहृदः सुताम् ।
लालाभक्षे स पतति दुर्गन्धे नरके गतः ॥१५९॥

काण्डकर्त्ता कुलालश्च निष्कहर्त्ता चिकित्सकः ।
आरा मेष्वग्निदाता यः पतते स विशंसने ॥१६०॥

असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः ।
नक्षत्रैर्जीवितो यश्च नरो गच्छत्यधोमुखम् ॥१६१॥

क्षीरं सुरां च मांसं च लाक्षां गन्धं रसन्तिलान् ।
एवमादीनि विक्रीणन्घोरो पूयवहे पतेत् ॥१६२॥

यः कुक्कुटानि बध्नाति मार्जारान्सूकरांश्च तान् ।
पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ॥१६३॥

आजीविको माहिषकस्तथा चक्रध्वजी च यः ।
रङ्गोपजीविको विप्रः शाकुनिग्राम याजकः ॥१६४॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सुरापो मांसभक्षश्च तथा च पशुघातकः ॥१६५॥

विश(श्व)स्ता महिषादीनां मृग हन्ता तथैव च ।
पर्वकारश्च सूची च यश्च स्यान्मित्रघातकः ।
रुधिरान्धे पतन्त्येते एवमाहुर्मनीषिणः ॥१६६॥

उपविष्टमेकपङ्क्त्यां विषमं भोजयन्ति ये ।
पतन्ति नरके घोरे विङ्‌भुजे नात्र संशयः ॥१६७॥

मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः ।
पतेत्तु नरके घोरो मूत्राकीर्णे स पापकृत् ॥१६८॥

मधुग्राहाबिहन्तारो यन्ति वैतरणीं नराः ।
उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्ज्जिताः ॥१६९॥

क्रोधना दुःखदाश्चैव कुहकाः कृष्टगामिनः ।
असि पत्रवने छेदी तथा ह्यौरभ्रिकाश्च ये ।
कर्त्तनैश्च निकृष्यन्ते मृगव्याधाः सुदारुणैः ॥१७०॥

आश्रमप्रत्यवसिता अग्निज्वाले पतन्ति वै ।
भौज्यन्ते श्याम शबलैरयस्तुण्डैश्च वायसैः ॥१७१॥

इज्यायां व्रतमालोपात्सन्दंशे नरके पतेत् ।
स्कन्दन्ते यदि वा स्वप्ने व्रतिनो ब्रह्मचारिणः ॥१७२॥

पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये ।
तेसर्वे नरकं यान्ति नियतन्तु श्वभोजने ॥१७३॥

वर्णाश्रमविरूद्धानि क्रोधहर्षसमन्विताः ।
कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः ॥१७४॥

उपरिष्टात्सितो घोर उष्णात्मा रौरवो महान् ।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥१७५॥

एवमादि क्रमेणैव वर्ण्यमानान्निबोधत ।
भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ॥१७६॥

अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः ।
रौरवः प्रथमस्तेषां महा रौरव एव च ॥१७७॥

अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः ।
तृतीयः काल॥सूत्रः स्यान्महाहविविधिः स्मृतः ॥१७८॥

अप्रतिष्ठ श्चतुर्थः स्यादवीची पञ्चमः स्मृतः ।
लोहपृष्ठस्तमस्तेषामविधेयस्तु सप्तमः ॥१७९॥

घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः ।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपोऽधमः ॥१८०॥

सर्पो निकृन्तनः प्रोक्तः काल॥सूत्रेति दारुणः ।
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ॥१८१॥

अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः ।
तस्मात्सुदारुणो लोहः कर्म्मणां क्षयणाच्च सः ॥१८२॥

तथाभूतो शरीरत्वादविधिभ्यस्तु स स्मृतः ।
पीडबन्धवधासङ्गादप्रतीकारलक्षणः ॥१८३॥

ऊर्द्ध्वं सैलमितास्ते तु निरालोकाश्च ते स्मृताः ।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥१८४॥

ऊर्द्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ ।
कूटाङ्गारप्रमाणैश्च शरीरी मूत्रनायकः ॥१८५॥

उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः ।
दुःख प्रकर्षश्चोग्रत्वं तेषु सर्वेषु वै स्मृतः ॥१८६॥

यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः ।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥१८७॥

तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः ।
देवाश्च नारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ॥१८८॥

धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः ।
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥१८९॥

पश्यन्ति नारकान्देवा ह्यधोवक्रान् ह्यधोगतान् ।
नारकाश्च तथा देवान् सर्वान्पश्यन्त्यधो मुखान् ॥१९०॥

अनग्रमूलता यस्माद्धारणाश्च स्वभावतः ।
तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ॥१९१॥

एषा स्वाभाविकी संज्ञा लोकालोके प्रवर्त्तते ।
अथाब्रुवन्पुनर्वायुं ब्राह्मणाः सत्रिणस्तदा ॥१९२॥

 ॥ऋषय ऊचुः॥
सर्वेषामेव भूतानां लोकालोकनिवासिनाम् ।
संसारे संसरन्तीह यावन्तः प्राणिनश्च तान् ॥१९३॥

सह्ख्यया परिसङ्ख्याय ततः प्रब्रूहि कृत्स्नशः ।
ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ॥१९४॥

वायुरुवाच॥
न शक्या जन्तवः कृत्स्नाः प्रसंख्यातुं कथञ्चन ।
अनाद्यन्ताश्च संकीर्णा ह्यप्यूहेन व्यवस्थिताः ।
गणना विनिवृत्तैषामानन्त्येन प्रकीर्त्तिताः ॥१९५॥

न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः ।
चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते नराधिपः ॥१९६॥

अनाध्यानादवेद्यत्वान्नैव प्रश्नो विधीयते ।
ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत ॥१९७॥

यः सहस्रतमो भागः स्थावराणां भवेदिह ।
पार्थिवाः कृमयस्तावत्संसेकाद्येषु सम्भवाः ॥१९८॥

संसेकजानाम्भागेन सहस्रेणैव सम्मिताः ।
औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ॥१९९॥

सहस्रेणैव भागेन सत्वानां सलिलौकसाम्  ।
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ॥२००॥

यः सहस्रतमो भागस्तेषां वै पक्षिणां भवेत् ।
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥२०१॥

चतुष्पदानां सर्वेषां सहस्रेणैव संमताः  ।
भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्व्वशः ॥२०२॥

यः सहस्रतमो भागो भागे तु द्विपदां पुनः ।
धार्म्मिकास्तेन भागेन विज्ञेयाः सम्मिताः पुनः ॥२०३॥

सहस्रेणैव भागेन धार्म्मिकेभ्यो दिवङ्गताः ।
यः सहस्रतमो भागो धार्म्मिकाणां भवेद्दिवि ।
संमितास्तेन भागेन मोक्षिणस्तावदेव हि ॥२०४॥

स्वर्गोपपादकैस्तुल्या यातना स्थानवासिनः ।
पतिता श्चूर्णमुद्देशाद्दुरात्मानो म्रियन्ति ये ।
रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥२०५॥

वेदनाकटुकास्तब्धा यातना स्थानमागताः ।
उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ॥२०६॥

ततो घनात्मिकश्चापि शीतात्मा सततं तपः ।
एवं सुदुर्लभाः सन्तः स्वर्गे च धार्म्मिका नराः ॥२०७॥

एषा संख्या कृता संख्या ईश्वरेण स्वयम्भुवा ।
गणना विनिवृत्तैषा सङ्ख्या ब्राह्मी च मानुषी ॥२०८॥

  ॥ऋषय ऊचुः ।
महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा ।
उक्ता ह्येते त्वया लोका लोकानामन्तरेण च ।
लोकान्तरञ्च यादृग्वै तन्नो ब्रूहि यथातथम् ॥२०९॥

तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् ।
स वायुर्दृष्टतत्त्वार्थ इदन्तत्त्वमुवाच ह ॥२१०
  वायुरुवाच॥
व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः ।
प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ॥२११॥

ऋभुः ॥सनत्कुमाराद्याः सम्बुद्धाः शुद्धबुद्धयः ।
व्यपेतशोका विरजाः सन्तो ब्रह्मेवसत्तमाः ॥२१२॥

अक्षयाः प्रीतिसंयुक्ता ब्रह्मे तिष्टन्ति योगिनः ।
ऋषीणां वालखिल्यानां तैर्यथाद्दृतमीश्वरैः ॥२१३॥

यथा चैव मया दृष्टं सान्निध्यन्तत्र कुर्वता ।
अनह्यसत्कृतार्थानामालयं चेश्वरस्य यत् ॥२१४॥

ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम्  ।
ज्ञानं वैराग्यमैश्वर्यन्तपः सत्यं क्षमा धृतिः ॥२१५॥

द्रष्टृत्वमात्मसम्बन्धमधिष्ठानत्वमेव च ।
अव्ययानि दशैतानि तस्मिंस्तिष्ठति शङ्करे ॥२१६॥

विबुत्वात्खलु योगाग्निर्ब्रह्मणोऽनुग्रहेरतः ।
स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ॥२१७॥

अक्षरं ध्रुवमव्यग्रमष्टमन्त्वौपसर्गिकम् ।
तस्येश्वरस्य यन्मात्रस्थानं मायामयं परम् ॥२१८॥

मायया कृतमाचष्टे मायी देवो महेश्वरः ।
देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्त्यते ॥२१९॥

विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत ।
त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च ।
भूर्लोकाद्ब्रह्मलोको वैयोजनैः सम्प्रकीर्त्त्यते ॥२२०॥

एकयोजनकोटी तु पञ्चाशन्नियुतानि च ।
ऊर्द्ध्वं भागवताण्डन्तु ब्रह्मलोकात्परं स्मृतम् ॥२२१॥

एषोर्द्ध्वगप्रचारस्तु गत्यन्तञ्च ततः स्मृतम्  ।
नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः ॥२२२॥

सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः ।
येभ्योऽधिकर्त्ता संजज्ञो क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥२२३॥

तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम् ।
अनुत्पाद्यं परन्धाम परमाणु परेशयम् ॥२२४॥

अक्षयश्चाप्यनुह्यश्च अमूर्त्तिर्मूर्त्तिमानसौ ।
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ॥२२५॥

विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः ।
सतेजा एष तमसो यः परस्तात्प्रकाशकः ॥२२६॥

यदण्डमासीत्सौवर्णं प्रथमन्त्वौपसर्गिकम् ।
बृहतं सर्वतोवृत्तमीश्वराद्व्यवजायत ॥२२७॥

ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीज ईष्यते ।
योनिं प्रकृतिमाचष्टे सा च नारायणात्मिका ॥२२८॥

विबुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च ।
सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः ॥२२९॥

पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः ।
तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम् ॥२३०॥

तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः ।
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ॥२३१॥

सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः ।
अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम् ॥२३२॥

मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना ।
शातकौम्भेन महता प्राकारेणार्कवर्चसा ॥२३३॥

द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः ।
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ॥२३४॥

तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम् ।
न तत्र क्रमते मृत्युर्न तपो न जरा श्रमाः ॥२३५॥

न हि तस्य पुरस्यान्यैरुपमां कर्तुमर्हति ।
सहस्राणां शतं पूर्णं योजनानां दिशो दश ॥२३६॥

तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति ।
भावेन मनसो भूमिर्विन्यस्ता कनकामयी ॥२३७॥

रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम् ।
शारदेन्दुर्पकाशानि बालसूर्य्यनिबानि च ॥२३८॥

अर्द्ध श्वेतार्द्धरक्तानि सौवर्णानि तथैव च ।
रथचक्रप्रमाणानि नालैर्मरकतप्रभैः ॥२३९॥

सौकुमारेण रूपेण गन्धिनाप्रतिमेन च ।
तत्र दिव्यानि पद्मानि वनेषूपवनेषु च ॥२४०॥

भृङ्गपत्रनिकाशानि तपनीयानि यानि च ।
अर्द्धकृष्णार्द्धरक्तानि सुकुमारान्तराणि च ॥२४१॥

आतपत्र प्रमाणानि पङ्कजैः संवृतानि च ।
भूयः सप्त महानद्यस्तासान्नामानि बोधत ॥२४२॥

वरा वरेण्या वरदा वरार्हा वरवर्णिनी ।
वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे ॥२४३॥

पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम् ।
जलं मणिदलप्रख्यमावहन्ति सरिद्वराः ॥२४४॥

न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा ।
न खल्वन्येऽप्रमेयस्य विदुरीशस्य तत्पुरम् ॥२४५॥

तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः ।
पश्यन्तीह महात्मानः पुरन्तद्गोवृषात्मनः ॥२४६॥

मध्ये पुरवरेन्द्रस्य तस्याप्रतिमतेजसः ।
सुमहान्मेरुसङ्गाशो दिव्यो भद्रश्रिया वृतः ॥२४७॥

सहस्र पादः प्रासादस्तपनीयमयः शुभः ।
अनुपमेयै रत्नैश्च सर्वतः स विभूषितः ॥२४८॥

स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यैः सोमसंप्रभैः ।
बालसूर्य्यप्रभैश्चैव सौवर्णैश्चाग्निसंप्रभैः ॥२४९॥

राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः ।
दृढैर्वज्रमयैश्चैव इत्येवं सुमहाहितैः ॥२५०॥

जलैश्च विविधाकारैर्दीप्यद्भिरधिवासितम् ।
चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ॥२५१॥

रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः ।
किन्नराणामधीवासैः सन्ध्याभ्राकारराजितैः ॥२५२॥

परिवारसमन्तात्तु हेमपुष्पोदकप्रभैः ।
यथा हि मेरुशैलेन्द्रो हेमश्रृङ्गैर्विराजते ॥२५३॥

चामीकरमयीभिस्तु पताकाभिस्तथा पुरम्  ।
एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ॥२५४॥

वसन्तप्रतिमा यत्र त्र्यम्बकस्य निवेशने ।
लक्ष्मीः श्रीश्च वपुर्म्माया कीर्त्तिः शोभा सरस्वती ॥२५५॥

देव्या वै सहिता ह्येता रूपगन्धसमन्विताः ।
नित्या ह्यपरिसङ्ख्याताः परस्परगुणाश्रयाः  ।
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ॥२५६॥

कोटिशतं महाभागा विभज्यात्मानमात्मना ।
भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः । ॥२५७॥

तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः ।
रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ॥२५८॥

लीलाविलाससंयुक्तैर्भावैरतिमनोहरैः ।
गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ॥२५९॥

कुब्जा कामनिकामैश्च वरगात्रा हयाननाः  ।
पुण्ड्राश्च विकटाश्चैव करलाश्चिपिटाननाः ॥२६०॥

लम्बोदरा ह्रस्वभुजा विनेत्रा ह्रस्वपादिकाः ।
मृगेन्द्रवदनाश्चान्या गजवक्रोदरास्तथा ॥२६१॥

गजाननास्तथैवान्याः सिंह व्याघ्राननास्तथा ।
लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥२६२॥

ह्रस्वकुञ्चितकेशाश्च सुन्दर्य्यश्चारुलोचनाः ।
अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ॥२६३॥

अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः ।
रराम भगवांस्तत्र दशबाहुर्महेश्वरः ॥२६४॥

नन्दिना च गणैः सार्द्धं विश्वरूपैर्महात्मभिः ।
तथा रुद्रगणैश्चापि तुल्यौदार्य्यपराक्रमैः ॥२६५॥

पावकात्मजसङ्काशैर्यूपदंष्ट्रोत्कटाननैः ।
वन्द्यमानो विमानश्च पूज्यमानश्च तत्परैः ॥२६६॥

सर्वर्तुकुसुमां मालां जिघ्रमाणोरसि स्थितान्  ।
नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥२६७॥

ईषत्कराल्लम्बोष्ठं तीक्ष्णदंष्ट्रा गणाञचितम् ।
षडूर्द्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरञ्चीरवाससम् ॥२६८॥

आहवेष्वपरिक्लिष्टं देवानामरिनाशनम् ।
बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥२६९॥

रराजापदिशन्तस्य वामाग्रकरगोचरम् ।
महाभैरवनिर्घोषं बलेनाप्रतिमौजसम् ।
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ॥२७०॥

त्रिशूलं विद्युताभासममोघं शत्रुनाशनम् ।
जाज्वल्यमानं वपुषा परमं तत्त्विषा युतम् ॥२७१॥

असिश्चैवौजसां श्रेष्ठः शीतरश्मिः शशी तथा ।
तेजसा वपुषा कान्त्या देवेशस्य महात्मनः ।
शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ॥२७२॥

स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान् ।
शुशुभे रुचिरः श्रीमान्सोदकः सकमण्डलुः ॥२७३॥

असिमावेश्य चाङ्गेषु पाण्डुराम्बर धारिणी ।
उरश्छदेन महता मौक्तिकेन विराजिता ।
चतुर्भुजा महाभागा विजया लोकसम्मता ॥२७४॥

देव्या आद्यः प्रतीहारी श्रीरिवाप्रतिमा परा ।
विभ्राजती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ॥२७५॥

तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः ।
ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शङ्करम् ॥२७६॥

सर्वलक्षणसम्पन्ना वादित्रै रुपबृंहिताः ।
उपगायन्ति देवेशं गणा गन्धर्वयोनयः ॥२७७॥

अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः ।
शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ॥२७८॥

स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्य्यवान् ।
रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ॥२७९॥

तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान् ।
व्यपेतव्यसनाक्रूराः प्रजानां पालने रताः ॥२८०॥

तैः सार्द्धं स महावीर्य्यः शोभते शिखिवाहनः  ।
व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ॥२८१॥

ये नृपा विभुधेन्द्राणां काञ्चनस्य प्रदायिनः ।
ये च स्वायत्ना विप्रा गृहस्था ब्रह्मवादिनः ॥२८२॥

गूढस्वाध्याय तपसस्तथा चैवोञ्छवृत्तयः ।
एते सभासदस्तस्य देवेशस्य च सम्मताः ॥२८३॥

मन्वन्तराण्यनेकानि व्यवर्त्तन्त पुनः पुनः ।
श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ॥२८४॥

व्याश्राश्चैवानुगास्तत्र काञ्चनाभास्तरस्विनः ।
स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्म्मिताः॥ ३९.२८५॥

मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः  ।
विभूतिमप्यसंख्येयां को न खल्वभिधास्यते ॥२८६॥

अतःपरमिदं भूयो भवेनाद्भुतमुत्तमम् ।
भूतानामनुकंपार्थं यत्कृतं तन्निबोधत ॥२८७॥

मन्दरादिप्रकाशानां बलेनाप्रतिमौजसाम् ।
हारकुन्देन्दुवर्णानां विद्युद्वननिनादिनाम् ॥२८८॥

चूडामणिधराणां वै मैघसन्निभवाससाम् ।
श्रीवत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ॥२८९॥

एवं दिशानां देवानां रूपेणोत्तमशालिनाम् ।
तस्य प्रासादमुख्यस्य स्तम्भेषूत्तमशोभिषु ॥२९०॥

संयताग्निमयीभिस्तु श्रृङ्खलाभिः पृथक्पृथक् ।
मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ॥२९१॥

स्तम्भेऽप्यपासृताषष्टं त्र्यम्बकस्य निवेशने ।
अथ तत्प्रतिसंपूज्य वायोर्वाक्यं सुविस्मिताः ।
॥ऋषयः प्रत्यभाषन्त नैमिषे यास्तपस्विनः ॥२९२॥

भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो ।
केते सिंहमहाभूताः क्व ते जाताः किमात्मकाः ॥२९३॥

सिंहाः केनापराधेन भूतानां प्रभविष्णुना ।
वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ॥२९४॥

तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह  ।
यद्वै सहस्रं सिंहानामीश्वरेण महात्मना ।
व्यपनीय स्वकाद्देहात्क्रोधास्ते सिंहविग्रहाः ॥२९५॥

भूतानामभयं दत्त्वा पुराबद्धाग्निबन्धने ।
यज्ञभागनिमित्तं च ईश्वरस्याज्ञया तदा ॥२९६॥

तेषां विधानमुक्तेन सिंहेनैकेन लीलया ।
देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥२९७॥

निःशृता च महादेव्या महाकाली महेश्वरी ।
आत्मनः कर्म्मसाक्षिण्या भूतैः सार्द्धं तदानुगैः ॥२९८॥

स एष भगवान्क्रोधो रुद्रावासकृतालयः ।
वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्ज्जनः ॥२९९॥

तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै ।
सन्निवेशस्त्वनौपम्यो मया वः परिकीर्त्तितः ॥३००॥

अतः परं प्रवक्ष्यामि ये तत्र प्रति वासिनः ।
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥३०१॥

नानारत्नविचित्रेषु पताकाबहुलेषु च ।
सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥३०२॥

राजतेषु महान्तेषु शातकौम्भमयेषु च ।
सन्ध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ॥३०३॥

इष्टैः शब्दादिभिर्भागैर्ये भवस्यानुसारिणः  ।
प्रासादवर पुष्पेषु तेषु मोदन्ति सुव्रताः ॥३०४॥

ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः  ।
गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ॥३०५॥

संहताश्चैवमतुला नानाश्रयकृतास्तथा ।
एवमादीनि वर्त्तन्ते तेषां प्रासादमूर्द्धनि ॥३०६॥

सहस्रपादः प्रासादस्तपनीयमयः शुभः ।
अनौपम्यैर्वरै रत्नैः सर्वतः परिभूषितः ॥३०७॥

स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यमणिसम्प्रभैः ।
बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसम्प्रभैः ॥३०८॥

चुक्रुशु॥ऋषयः श्रुत्वा नैमिषेयास्तपस्विनः ।
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥३०९॥

 ॥ऋषय ऊचुः॥
के तु तत्र महात्मानो ये भवस्यानुसारिणः ।
अनुग्राह्यतमाः सम्यक् प्रमोदन्ते पुरोत्तमे ।
ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ॥३१०॥

  वायुरुवाच॥
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता ।
ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ॥३११॥

मध्याहाराश्च मात्राश्च ह्यात्मारामा जितेन्द्रियाः ।
जितद्वन्द्वा महोत्साहाः सौम्या विगतमत्सराः ॥३१२॥

भावस्थाः सर्व्वभूतानामव्यापारा अनाकुलाः ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ।
अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ॥३१३॥

तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।
भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ॥३१४॥

वैश्वानरमुखाः सर्वे विश्वरूपाः कपर्द्दिनः  ।
नीलकण्ठाः सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ॥३१५॥

अर्द्धचन्द्रकृतोऽणीषा जटामुकुटधारिणः  ।
सर्वे दशभुजा वीराः पद्मान्तर सुगन्धिनः ॥३१६॥

तरुणादित्यसङ्काशाः सर्वे ते पीतवाससः  ।
पिनाकपाणयः सर्व्वे श्वेतगोवृषवाहनाः ॥३१७॥

श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः ।
तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ॥३१८॥

विभज्य बहुधात्मानं जरामृत्युविवर्जिताः ।
क्रीडन्ते विविधैर्भावैर्भोगान् प्राप्य सुदुर्लभान् ॥३१९॥

स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यौर्विबोधिताः ।
एकादशानां रुद्राणां कोट्योऽनेकमहात्मनाम् ॥३२०॥

एभिः सह महात्मा हि देवदेवो महेश्वरः ।
भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ॥३२१॥

नाहन्तेषान्तु रुद्राणां भवस्य च महात्मनः ।
नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ॥३२२॥

मातरिश्वाऽब्रवीत्पुण्यामित्येतामीश्वरोऽप्युत ।
अथ ते ॥ऋषयः सर्वे दिवाकरसमप्रभाः ।
श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीं ततः ॥३२३॥

भृशञ्चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् ।
सम्भावयित्वा चाप्येनां वायुमूचुर्महाबलम् ॥३२४॥

  ॥ऋषय ऊचुः॥
समीरण महाभाग ह्यस्माकं च त्वया विभो ।
ईश्वरस्योत्तमं पुण्यमष्टमन्त्वौपसर्गिकम् ॥३२५॥

तस्य स्थानं प्रमाणञ्च यथावत्परिकीर्त्तितम् ।
यो गन्धेन समृद्धं वै परमं परमात्मनः ॥३२६॥

महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि  ।
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥३२७॥

यस्य भक्तेष्वसंमोहो ह्यनुकम्पार्थमेव च ।
ब्राह्मलक्ष्म्या स्वयं जुष्ठा या साप्रतिमशालिनी ॥३२८॥

ज्योत्स्नया व्याप्य खं चन्द्रं विन्यस्ता विश्वरूपधृक्  ।
विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥३२९॥

महादेवस्य तुल्यानां रुद्राणान्तु महात्मनाम् ।
तत्सर्वं निखिलेनेदं वक्रादमृतनिस्रवम् ॥३३०॥

अपीत्वा खलु सर्वस्य भक्त्यास्माभिस्तु सुव्रताः ।
नास्ति किञ्चिदविज्ञेयमन्यच्चैवानुगामिनः ।
प्रश्नं देववर प्राण यथावद्वक्तुमर्हसि ॥३३१॥

॥सूत उवाच॥
स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम् ।
किं मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥३३२॥

॥ऋषय ऊचुः॥
आदित्याः पारिपार्श्वेयाः सिंहा वै क्रोधविक्रमाः ।
वैश्वानरा भूतगणा व्याध्राश्चैवानुगामिनः ॥३३३॥

आभूतसंप्लवे घोरे सर्वप्राण भृतां क्षये ।
किमवस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥३३४॥

एते ये वै त्वया प्रोक्ताः सिंहव्याघ्रगणैः सह ।
ये चान्ये सिद्धिसम्प्राप्ता मातरिश्वा जगाद ह ॥३३५॥

इदञ्च परमं तत्त्वं समाख्यास्यामि श्रृण्वताम् ।
विज्ञातेश्वरसद्भावमव्यक्तं प्रभवं तथा ॥३३६॥

तत्र पूर्वगतास्तेषु कुमारा ब्रह्मणः सुताः ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥३३७॥

वोढुश्च कपिलस्तेषामासुरिश्च महायशाः ।
मुनिः पञ्चशिखश्चैव ये चान्येऽप्येवमादयः ॥३३८॥

ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते ।
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ॥३३९॥

अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरी  ।
शब्दादीन्विषयान्भोगान्सत्यस्याष्टविधस्रयात् (?) ॥३४०॥

प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा ।
वैहायपदमव्यग्रं भूतानामनुकम्पया ॥३४१॥

तत्र यान्ति महात्मानः परमाणुं महेश्वरम् ।
तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ॥३४२॥

ततः पश्यन्ति शर्वाणं परं ब्रह्माणमेव च ।
देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ॥३४३॥

यत्तत्सहस्रं सिंहानामादित्यानां तथैव च ।
वैश्वानरभूतभव्यव्याघ्राश्चैवानुगामिनः ॥३४४॥

आवेश्यात्मनि तान्सर्वान्संख्यायोपद्रवांस्तथा ।
लोकान् सप्त इमान्सर्व्वान्महाभूतानि पञ्च च ॥३४५॥

विष्णुना सह संयुक्तं करोति विकरोति च ।
स रुद्रो यः साममयस्तथैव च यजुर्मयः ॥३४६॥

स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् ।
एको हि भगवान्नाथ अभावी श्रान्त कृद्द्विजाः ॥३४७॥

ततस्ते ॥ऋषयः सर्वे दिवाकरसमप्रभाः ।
स्वंस्वमाश्रमसंवासमारोप्याग्निं तथात्मनि ॥३४८॥

कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना  ।
अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ॥३४९॥

व्रतोपवासनिरताः सर्वभूतदयापराः ।
योगं ह्यनुपमन्दिव्यं प्राप्तं तैश्छिन्नसंशयैः ॥३५०॥

प्रपद्य परया भक्त्या ज्ञानयुक्तेन चेतसा ।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥३५१॥

यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम् ।
ब्राह्मणः क्षत्रियो वापि वैश्यो वा स्वक्रियापरः ॥३५२॥

लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः ।
अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ॥३५३॥

आभूत संप्लवस्थायी ह्यप्रतीघातलक्षणः ।
गाणपत्यं स लभते स्थानं वा सर्वकामिकम् ॥३५४॥

मद्यपो मद्यपैः सार्द्धं भूतसङ्घैश्च मोदते ।
सोऽर्च्यमानो महीपृष्ठो मर्त्त्यानां वरदो भवेत् ।
इति होवाच भगवान्वायुर्वाक्यमिदं वरः ॥३५५॥

इति श्रीमहापुराणे वायुप्रोक्ते शिवपुरवर्णनं नामैकोन चत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP