उत्तरार्धम् - अध्यायः २३
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥सूत उवाच॥
ततो मन्वन्तरेऽतीते चाक्षुषे दैवतैः सह ।
वैवस्वताय महते पृथिवीराज्यमादिशत् ॥१॥
तस्य वैवस्वतो वक्ष्ये साम्प्रतस्य महात्मनः ।
आनुपूर्व्येण वै विप्राः कीर्त्त्यमानं निबोधत ॥२॥
मनोर्वैवस्वतस्येह सर्गमादाय साम्प्रतम् ।
मनोः प्रथमजस्यासन् नवपुत्रास्तु तत्समाः ॥३॥
इक्ष्वाकुर्नहुषश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तस्तथा प्रांशु र्नाभागोऽरिष्ट एव च ।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥४॥
ब्रह्मणा तु मनुः पूर्वं चोदितस्तु निबोधत ।
स्रष्टुं प्रचक्रमे कामं निष्फलं समवर्त्तत ॥५॥
अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः ।
मित्रावरुणयोरंशे मनुराहुतिमावपत् ॥६॥
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यसन्नहना चैव इडा जज्ञे इति श्रुतिः ॥७॥
तामिलेत्यथ होवाच मनुर्द्दण्डधरः स्मृतः ।
अनुगच्छामि भद्रन्ते तमिला प्रत्युवाच ह ॥८॥
धर्म्मयुक्तमिदं वाच्यं पुत्रकामं प्रजापतिम् ।
मित्रावरुणयोरंशे जातास्मि वदतां वर ॥९॥
तयोः सकशं यास्यामि मा नो धर्मो हतोऽवधीत् ।
सैवमुक्त्वा पुनर्द्देवी तयोरन्तिकमागमत् ॥१०॥
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ।
अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि च ॥११॥
मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति ।
तथा तु वदतीं साध्वीमिडामाश्रित्य तावुभौ ॥१२॥
देवौ च मित्रावरुणाविदं वचनमूचतुः ।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ॥१३॥
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ।
आवयोस्त्वं महाभागे ख्यातिं कन्या प्रयास्यसि ॥१४॥
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु पूजितः ।
जगत्प्रियो धर्म्मशीलो मनोर्वंश विवर्द्धनः ॥१५॥
मानवः स तु सुद्युम्नः स्त्रीभावमगमत् प्रभुः ।
सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥१६॥
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्राद्बुधाच्चास्या ऐलो जज्ञे पुरूरवाः ॥१७॥
बुधात् सा जनयित्वा तु सुद्युम्नं पुनरागता ।
सुद्युम्नस्य च दायादास्त्रयः परमधार्म्मिकाः ॥१८॥
उत्कलश्च गयश्चैव विनताश्वस्तथैव च ।
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ।
दिक्षु वातस्य राजर्षेर्गयस्य तु गया पुरी ॥१९॥
प्रविसृष्टे मनौ तस्मिन् प्रजाः सृष्ट्वा दिवाकरः ।
दशधा तद्दधत् क्षेत्रमकरोत् पृथिवीमिमाम् ॥२०॥
इक्ष्वाकुरेव दायादानन्यान् दश समाप्नुयात् ।
कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ॥२१॥
वसिष्ठवचनाच्चासीत् प्रतिष्ठानो महाद्युतिः ।
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ॥२२॥
तत् पुरूरवसे प्रादाद्राष्ठ्रं प्राप्य महायशाः ।
मानवेभ्यो महाभागा स्त्रीपुंसोर्लक्षणं प्रति ।
मानवः स तु सुद्युम्नः स्त्रीभावमगमत् पुनः ॥२३॥
एतच्छ्रुत्वा तु ॥ऋषयः पप्रच्छुस्तदनन्तरम् ।
मानवः स तु सुद्युम्नः स्त्रीभावमगमत् कथम् ॥२४॥
॥सूत उवाच॥
प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया ।
स मे ममाश्रमे देव यः पुमान् संप्रवेक्ष्यति ।
भविष्यति ध्रुवं नारी सा तुल्याप्सरसां शुभा ॥२५॥
तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये ।
स्त्रीभूताः सह रुद्रेण क्रीडन्त्यप्सरसो तथा ॥२६॥
उमावनं प्रविष्टस्तु स राजा मृगयां गतः ।
सह पिशाचैर्भूतैस्तु रुद्रैः स्त्रीभावमास्थितः ॥२७॥
तस्मात् स राजा सुद्युम्नः स्त्रीभावं लब्धवान् पुनः ।
महादेवप्रसादाच्च गाणपत्य मवाप्नुयात् ॥२८॥
इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनोः सृष्टिकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP