संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ११

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
सप्त मेधावतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्त्तयः ।
तेषां लोकविसर्गन्तु कीर्त्तयिष्ये निबोधत ॥१॥

या वै दुहितरस्तेषां दोहित्राश्चैव ये स्मृताः ।
धर्ममूर्त्तिधरास्तेषां ये त्रयः परमा गणाः ॥२॥

नामानि लोकसर्गञ्च तेषां वक्ष्ये समासतः ।
लोका विरजसो नाम्ना यत्र तिष्ठन्ति भास्वराः ॥३॥

अमूर्त्तयः पितृगणाः पुत्रास्ते वै प्रजापतेः ।
विरजस्य द्विजाः श्रेष्ठा वैराजा इति विश्रुताः  ।
एष वै प्रथमः कल्पो वैराजानां प्रकीर्त्तितः ॥४॥

तेषान्तु मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः शुभ्र यस्यां मैनाक उच्यते ॥५॥

जातः सर्वैषधिधरः सर्वरत्नाकरात्मवान् ।
पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्यात्मजोऽभवत् ॥६॥

तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम् ॥७॥

आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोऽचरत् ।
न्यग्रोधमेकपर्णी तु पाटलामेकपाटला ।
शतं वर्षसहस्राणि दुश्चरं देवदानवैः ष॥ ११.८॥

आहारमेकपर्णेन एकपर्णी समाचरत् ।
पाटलेनैव चैकेन विदध्यादेकपाटला ॥९॥

पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रजक्रतुः  ।
एका तत्र निराहारा तां माता प्रत्यभाषत ॥१०॥

निषेधयन्ती ह्युमेति माता स्रेहेन दुःखिता ।
सा तथोक्ततया देवी मात्रा दुश्चरचारिणी ॥११॥

उमेति सा महाभागा त्रिषु लोकेषु विश्रुता  ।
तथेति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ॥१२॥

एतत्तु त्रिकुमारीकं जगत्स्यास्यति शाश्वतम् ।
एतासां तपसा दृप्तं यावद्भूमिद्धरिष्यति ॥१३॥

तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
देव्यस्ताः सुमहाभागाः सर्व्वाश्च स्थिरयौवनाः ॥१४॥

सर्वाश्च ब्रह्मवादिन्यः सर्वा श्चैवोर्द्ध्वरेतसः ।
उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ॥१५॥

महायोगबलोपेता महादेवमुपस्थिता ।
दन्तकाण्वोशना तस्याः पुत्रो वै भृगु नन्दनः ॥१६॥

असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता ।
दत्ता हिमवता तस्मै योगाचार्याय धीमते ।
देवलं सुषुवे सा तु ब्रह्मिष्ठं मानसं सुतम् ॥१७॥

या चैतासां कुमारीणां तृतीया त्वेकपाटला ।
पुत्रं शतशिलाकस्य जैगीषव्यमुपस्थिता ॥१८॥

तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ।
इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥१९॥

रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते ।
अन्योन्यप्रीतिरनयोरुमाशङ्करयोर्यथा ॥२०॥

श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा ।
ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा ।
तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ॥२१॥

अनयो रतिविघ्नञ्च त्वमाचर हुताशन ।
सर्वत्र गत एव त्वं न दोषो विद्यते तदा ॥२२॥

इत्येवमुक्ते तु तथा वह्निना च तथा कृतम् ।
उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ॥२३॥

ततो रुषितया देव्या शप्तोऽग्निः शांशपायन ।
इदं चोक्तवती वह्निं रोषगद्घदया गिरा ॥२४॥

यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन ।
कृतवानस्यकर्त्तव्यं तस्मात्त्वमसि दुर्मते ॥२५॥

यदेवं विभृतं गर्भं रौद्रं शुक्रं महाप्रभम् ।
गर्भं त्वं धारयस्वैवमेषा ते दण्डधारणा ॥२६॥

स शापरोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः ।
बहून्वर्षगणान् गर्भं धारयामास वै द्विजाः ॥२७॥

स गङ्गामुपगम्याह श्रूयतां सरिदुत्तमे ।
सुमहान् परिखेदो मे गर्भधारणकारणात् ॥२८॥

मद्धितार्थमिमं गर्भमतो धारय निम्नगे ।
मत्प्रसादाच्च खेदो वै मन्दस्तव भविष्यति ॥२९॥

तथेत्युक्त्वा तदा सा तु सम्प्रहृष्ट महानदी ।
तं गर्भं धारयामास दह्यमानेन चेतसा ॥३०॥

सापि कृच्छ्रेण महता खिद्यमाना महानदी ।
कालं प्रकृष्टं सुमहद्घर्भधारणतत्परा ॥३१॥

तया परिगतं गर्भं कुक्षौ हिमवतः शुभे ।
शुभं शरवणं नाम चित्रं पुष्पितपादपम् ।
तत्र तं व्यसृजद्गर्भं दीप्यमानामिवानलम् ॥३२॥

रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः  ।
आदित्यशतसङ्काशो महातेजाः प्रतापवान् ॥३३॥

तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते ।
विमानयानैराकाशं पतत्रिभिरिवावृतम् ॥३४॥

देवदुन्दुभयो नेदुराकाशे मधुरस्वराः ।
मुमुचुः पुष्पवर्षञ्च खचराः सिद्धचारणाः ॥३५॥

जगुर्गन्धर्व्वमुख्याश्च सर्व्वशस्तत्र तत्र ह ।
यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः ॥३६॥

महानाग सहस्राणि प्रवराश्च पतत्रिणः  ।
उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम् ।
प्रभावेण तदा तेन दैत्यदानवराक्षसाः ॥३७॥

सह सप्तर्षिभार्याभिरादावे वाग्निसम्भवः ।
अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ॥३८॥

ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः  ।
स्निह्यमानाभिरत्यर्थं स्वकाभिरिव मातृभिः ॥३९॥

युगपत्सर्वदेवीर्हि दिदृक्षुर्जाह्नवीसुतः ।
षप्मुखो व्यसृजच्छ्रीमांस्तासां प्रीत्या महाद्युतिः ॥४०॥

श्रीमान् कमलपत्राक्षस्तरुणादित्य सन्निभः ।
येन जातेन लोकानामाक्षेपस्तेजसा कृतः ॥४१॥

तेन जातेन महता देवानामसहिष्णवः ।
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ॥४२॥

कृत्तिकाभिस्तु यस्मात् संवर्द्धितः स पुरातनः ।
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ॥४३॥

जृम्भतस्तस्य दैत्यारेर्ज्वालामालाकुलात्तदा ।
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ॥४४॥

क्रीडार्थञ्चैव स्कन्दस्य विष्णुना प्रभविष्णुना ।
गरुडादिति सृष्टौ हि पक्षिणौ हि प्रभद्रकौ ॥४५॥

मयूरः कुक्कुटश्चैव पताका चैव वायुना ।
यस्य दत्ता सरस्वत्या महावीणा महास्वना ।
अजः स्वयम्भुवा दत्तो मेषो दत्तश्च शम्भुना ॥४६॥

माया विहरणे विप्रा गिरौ क्रौञ्चे निपातिते ।
तारके चासुरवरे समुदीर्णे निपातिते ॥४७॥

सेन्द्रोपेन्द्रैर्महाभागैर्देवरैग्निसुतः प्रभुः  ।
सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ॥४८॥

देवसेनापतिस्त्वेवं पठ्यते नरनायकः ।
देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ॥४९॥

प्रमथैर्विविधैर्दवैस्तथा भूत गणैरपि  ।
मातृभिर्विविधाभिश्च विनायकगणैस्तथा ॥५०॥

सा त्वपश्यद्विमानानि पतन्ती सा दिवश्च्युता  ।
त्रसरेणुप्रमाणानि तेष्वपश्यच्च्युतान् पितॄन् ॥५१॥

सुसूक्ष्मानपरित्यक्तानग्नीनग्निष्विवाहितान् ।
त्रायध्वमित्युवाचाथ पतन्ती तानवाक्शिराः ॥५२॥

तैरुक्ता सा तु माभैषीरित्युक्ताधिष्ठिताभवत् ।
ततः प्रासादयत्सा वै पितॄंस्तान् दीनया गिरा ॥५३॥

ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ।
भ्रष्टैश्वर्या स्वदोषेण तपसि त्वं शुचिस्मिते ॥५४॥

यैः क्रियन्ते च कर्म्माणि शरीरैरिह दैवतैः  ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ॥५५॥

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मादमावस्वपत्यत्वं प्रेत्य प्राप्स्यसे फलम् ॥५६॥

इत्युक्त्या वै पितरः पुनस्ते तु प्रसादिताः ।
ध्यात्वा प्रसादं सञ्चक्रुस्तस्यास्ते त्वनुकम्पया ॥५७॥

अवश्यम्भाविनं दृष्ट्वा ह्यर्थमूचुस्ततः सुराः  ।
सोमपाः पितरः कन्यां राज्ञश्चैव ह्यमावसोः ॥५८॥

उत्पन्नस्य पृथिव्यां तु मानुषत्वे महात्मनः ।
कन्या भूत्वा त्विमाँल्लोकान्पुनः प्राप्स्यसि स्वानिति ॥५९॥

अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ।
अस्यैव राज्ञो दुहिता अद्रिकायां ह्यमावसोः ॥६०॥

पराशरस्य दायादं ऋषेस्त्वं जनयिष्यसि ।
स वेदमेकं विप्रर्षिश्चतुर्धा वै करिष्यति ॥६१॥

महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ ।
विचित्रवीर्य्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ॥६२॥

चित्राङ्गदं चराजानं तेजोबलगुणान्वितम् ।
एतानुत्पाद्य पुत्रं स्वं पुनर्लोकानवाप्स्यसि ॥६३॥

व्यतिक्रमात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम् ।
तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ॥६४॥

कन्या भूत्वा ततश्च त्वमिमान् लोकानवाप्स्यसि ।
एवमुक्ता तु दाशेयी जाता सत्यवती तु सा ॥६५॥

अद्रिकायां सुता मत्स्यां सुता जाता ह्यमावसोः ।
अद्रि कामत्स्यसम्भूता गङ्गायामनुसङ्गमे ॥६६॥

तस्य राज्ञो हि सा कन्या राज्ञो वीर्य्ये सदैव हि ।
विरजा नाम ते लोका दिवि रोचन्ति ते गणाः ॥६७॥

अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः  ।
तान्दानवगणा यक्षा रक्षोगन्धर्व्वकिन्नराः ।
भूतसर्पपिशाचाश्च भावयन्ति फलार्थिनः ॥६८॥

एते पुत्राः समाख्याताः पुलहस्य प्रजापतेः ।
त्रय एते गणाः प्रोक्ता धर्ममूर्तिधराः शुभाः ॥६९॥

एतेषां मानसी कन्या पीवरी नाम विश्रुता ।
योगिनी योगपत्नी च योगमाता तथैव च ॥७०॥

भविता द्वापरं प्राप्य अष्टाविंशन्तु दैवतम् ।
पराशरकुलोद्भूतः शुको नाम महातपाः ॥७१॥

श्रीमान्योगी महायोगी योगस्तस्माद्द्विजोत्तमः ।
व्यासादरण्यां सम्भूतो विधूम इव पावकः ॥७२॥

स तस्यां पितृकन्यायां योगाचार्यान्परिश्रुतान्  ।
कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं ववौ ॥७३॥

कन्यां कीर्त्तिमतीञ्चैव योगिनीं योगमातरम्  ।
ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य तु ॥७४॥

एतानुत्पाद्य धर्मात्मा पुत्रान्योगमवाप्य च ।
महायोगतपाश्चैव अपरावर्त्तिनीं गतिम् ॥७५॥

आदित्यकिरणोपेतं त्वपुनर्भावमास्थितः ।
सर्वव्यापि विनिर्मुक्तो भविष्यति महामुनिः ॥७६॥

अमूर्त्तिमन्तः पितरो धर्ममूर्त्तिधरास्तु ये ।
त्रय एते गणास्तेषां चत्वारोऽन्ये निबोधत ॥७७॥

यान्वक्ष्यामि द्विजश्रेष्ठा मूर्त्तिमन्तो महाप्रभाः ।
उत्पन्नास्ते स्वधायास्तु कन्या ह्यग्नेः कवेः सुताः ॥७८॥

पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः ।
सर्वकामसमृद्धेषु द्विजा स्तान्भावयन्त्युत ॥७९॥

एतेषां मानसी कन्या गौर्नाम दिवि विश्रुता ।
दत्तसेना कुमारेण शुक्रस्य महिषी प्रिया ॥८०॥

एकत्रिंशच्च विख्याता भृगूणां कीर्त्तिवर्द्धनाः ।
मरीचिगर्भास्ते लोकाः समावृत्य दिवि स्थिताः ॥८१॥

एते ह्यङ्गिरसः पुत्राः साध्यैः सह विवर्द्धिताः ।
उपहूताः स्मृतास्ते तु पितरो भास्वरा दिवि ।
तान्क्षत्रियगणान्दृष्ट्वा भावयन्ति फलार्थिनः ॥८२॥

एतेषां मानसी कन्या यशोदा नाम विश्रुता ।
पत्नी सा विश्वमहतः स्नुषा वै विश्वशर्म्मिणः ॥८३॥

राजर्षेर्जननी देवी खट्वाङ्गस्य महात्मनः ।
यस्य यज्ञे पुरा गीता गाथा गीतैर्महर्षिभिः ॥८४॥

अग्नेर्जन्म तथा दृष्ट्वा शाण्डिल्यस्य महात्मनः ।
यजमानं दिलीपं ये पश्यन्ति सुसमाहिताः ।
सत्यव्रतं महात्मानं ते स्वर्गजयिनोऽमराः ॥८५॥

आज्यपा नाम पितरः कर्दमस्य प्रजापतेः  ।
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य वै पुनः ॥८६॥

लोकेष्वेतेषु वर्त्तन्ते कामगेषु विहङ्गमाः  ।
एतान्वैश्यगणाः श्राद्धे भावयन्ति फलार्थिनः ॥८७॥

एतेषां मानसी सन्या विरजा नाम विश्रुता  ।
ययातेर्जननी साध्वी पत्नी सा नहुषस्य तु ॥८८॥

सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः  ।
हिरण्यगर्भस्य सुताः शूद्रास्तान्बावयन्त्युत ॥८९॥

मानसा नाम ते लोका वहन्ते यत्र ते दिवि ।
एतेषां मानसी कन्या नर्मदा सरितां वरा ॥९०॥

सा भावयति भूतानि दक्षिणापथगामिनी  ।
जननी त्रसद्दस्योर्हि पुरुकुत्सपरिग्रहः ॥९१॥

एतेषामभ्युपगमान्मातुर्मन्वन्तरेश्वरः  ।
मन्वन्त रादौ श्राद्धानि प्रवर्त्तयति सर्वशः ॥९२॥

पिदॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः  ।
तस्मादिह स्वधर्मेण श्राद्धं देयन्तु श्रद्धया ॥९३॥

सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः ।
दत्तं स्वधां पुरोधाय तथा प्रीणाति वै पितॄन् ॥९४॥

सोमस्याप्यायनं कृत्वा ह्यग्नेर्वैवस्वतस्य च ।
उद गायनञ्चाग्नौ च अश्वमेधं तदामुयात् ॥९५॥

पितॄन् प्रीणाति वै भक्त्या पितरः प्रीणयन्ति तम् ।
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ।
पुष्टिं प्रजां च स्वर्गं प्रयच्छन्ति न संशयः ॥९६॥

देवकार्य्यादपि सदा पितृकार्य्यं विशिष्यते ।
देवताभ्यः पितॄणां हि पूर्व्वमाप्यायनं स्मृतम् ॥९७॥

न हि योगगतिः सूक्ष्मा पितॄणामपि तृप्तयः ।
तपसा हि प्रसिद्धेन दृश्यन्ते मांसचक्षुषा ॥९८॥

इत्येते पितरश्चैव लोका दुहितरश्च वै ।
दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति तान् ॥९९॥

चत्वारो मूर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः ।
तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्व्वन्ति यत्नतः ॥१००॥

भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तद्घतमानसाः ।
विश्वे च सिकताश्चैव पृश्निजाः श्रृङ्गिणस्तथा ॥१०१॥

कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत ।
प्रजास्ता वातरशना दिवाकीर्त्त्यास्तथैव च ॥१०२॥

लेखाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ।
अत्रिभृग्वङ्गिराद्याश्च ॥ऋषयः सर्व्व एव च ॥१०३॥

यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह ।
पितॄंस्त्वपूजयन्सर्वे नित्यमेव फलार्थिनः ॥१०४॥

एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ।
सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ॥१०५॥

हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा ।
मोक्षं योगमयैश्वर्य्यं प्रयच्छन्ति पितामहाः ॥१०६॥

मोक्षोपायमथैश्वर्य्यं सूक्ष्मदेहाश्च देवताः ।
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥१०७॥

ऐश्वर्य्यं विहितं योगमैश्वर्य्यं वित्तमुत्तमम् ।
योगैश्वर्य्यदृते मोक्षः कथञ्चिन्नोपपद्यते ॥१०८॥

अपक्षस्यैव गमनं गगने पक्षिणो यथा  ।
वरिष्ठः सर्वधर्म्माणां मोक्षो धर्म्मः सनातनः ॥१०९॥

विमानानां सहस्राणि युक्तान्यप्सरसांगणैः ।
सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ॥११०॥

प्रज्ञा पुष्टिः स्मृतिर्मेधा राज्यमारोग्यमेव च ।
पितॄणां हि प्रसादेन प्राप्यते सुमहात्मना ॥१११॥

मुक्तावैढूर्य्यवासांसि वाजिनागायुतानि च ।
कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ॥११२॥

हंसबर्हिणयुक्तानि मुक्तावैढूर्य्यवन्ति च ।
किङ्किणीजालनद्धानि सदा पुष्पफलानि च ।
प्रीत्या नित्यं प्रयच्छन्ति मनुष्याणां पितामहाः ॥११३॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP