संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥शांशपायन उवाच॥

एतच्छ्रुत्वा वचस्तस्य सुतस्य विदितात्मनः ।
उत्तरं परिपप्रच्छुः॥सूतपुत्रं द्विजातयः ॥१॥

कथं द्वितीयमुत्पन्ना भवानी प्राक्सती तु या ।
आसीद्दाक्षायणी पूर्वमुमा कथम जायत ॥२॥

मेनायां पितृकन्यायां जनयामास शैलरुट् ।
केचैते पितरश्चैव येषां मेना तु मानसी ॥३॥

मैनाकश्चैव दौहित्रो दौहित्री च तथा ह्युमा ।
एकपर्णा तथा चैव तथा या चैकपाटला ॥४॥

गङ्गा चैव सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा ।
पूर्वमेव मयोद्दिष्टं श्रृणुध्वं मम सर्वशः ॥५॥

अनेके पितरश्चैव वर्त्तन्ते व्क च वा पुनः ।
श्रोतुमिच्छामि भद्रन्ते श्राद्धस्य च परं विधिम् ॥६॥

पुत्राश्च ते स्मृताः केषां कथञ्च पितरस्तु ते  ।
पितरः कथमुत्पन्नाः कस्य पुत्राः किमात्मकाः ॥७॥

स्वर्गे तु पितरोऽन्ये ये देवानामपि देवताः ।
एवं वै श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ।
यथावद्दत्तमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥८॥

यदर्थं तेन दृश्यन्ते तत्र किं कारणं स्मृतम् ।
स्वर्गे हि के तु वर्त्तन्ते पितरो नरके तु के ॥९॥

अभिसन्धाय पितरं पितुश्च पितरं तथा ।
पितुः पितामहञ्चैव त्रिषु पिण्डेषु नामतः ॥१०॥

कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन्  ।
कथञ्च शक्तास्ते दातुं नरकस्थाः फलं पुनः ॥११॥

के चेह पितरो नाम कान् यजामो वयं पुनः  ।
देवा अपि पुतॄन् स्वर्गे यजन्तीति हि नः श्रुतम् ॥१२॥

एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुत ।
स्पष्टाभिधानमर्थं वै तद्भवान्वक्तुमर्हति ॥१३॥

ऋषीणान्तु वचः श्रुत्वा॥सूतस्तत्त्वार्थदर्शिवान् ।
आचचक्षे यथाप्रश्रं ऋषीणां मानसं ततः ॥१४॥

 ॥सूत उवाच॥
अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम् ।
मन्वन्तरेषु जायन्ते पितरो देवसूनवः ॥१५॥

अतीतानागते ज्येष्ठाः कनिष्ठाः क्रमशस्तु ते ।
देवैः सार्द्धं पुरातीताः पितरो येऽन्तरेषु वै ।
वर्त्तन्ते साम्प्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ॥१६॥

श्राद्धञ्चैषां मनुष्याणां श्राद्धमेव प्रवर्त्तते ।
देवानसृजन् ब्रह्मा नायक्षन्निति वै पुनः  ।
तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ॥१७॥

ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ।
न स्म किञ्चिद्विजानन्ति ततो लोके ह्यमुह्यत ॥१८॥

ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम् ।
अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ॥१९॥

प्रायश्चित्तं चरध्वं वै व्यभिचारो हि यः कृतः  ।
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥२०॥

ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः ।
अपृच्छन् संयतात्मानो विधिवच्च मिथो मिथः ॥२१॥

तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा ।
प्रायश्चित्तानि धर्मज्ञा वाङ्मनः कर्म्मजानि तु ॥२२॥

ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः ।
यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः ।
धर्मज्ञानञ्च कामश्च को वरो वः प्रदीयताम् ॥२३॥

पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः ।
तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा ॥२४॥

उक्तञ्च पितरोऽस्माकमिति वै तनयाः स्वकाः ।
पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ॥२५॥

तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः ।
पुत्राः पितृत्त्वमाजग्मुः पुत्रत्वं पितरः पुनः ॥२६॥

तस्मात्ते पितरः पुत्राः पितृत्वे तेषु तत्स्मृतम्  ।
एवं स्मृत्वा पितॄन् पुत्रान्पुत्राश्च पितरस्तथा ।
व्याजहार पुनर्ब्रह्मा पिदॄनात्मविवृद्धये ॥२७॥

यो ह्यनिष्ट्वा पिदॄञ्च्राद्धे क्रियां काञिचित्करिष्यति ।
राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ॥२८॥

श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।
आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ॥२९॥

श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति  ।
कृत्स्रं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥३०॥

श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥३१॥

श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः ।
सर्वत्र वर्त्तमानास्ते पितरः प्रपितामहम् ।
तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ॥३२॥

एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना ।
तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ॥३३॥

ते तु ज्ञानप्रदातारः पितरो वो न संशयः ।
इत्येते पितरो देवा देवाश्च पितरः पुनः  ।
अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ॥३४॥

एतद्ब्रह्मवचः श्रुत्वा॥सूतस्य विहितात्मनः  ।
पप्रच्छुर्मुनयो भूयः॥सूतं तस्माद्यदुत्तरम् ॥३५॥

॥ऋषय ऊचुः॥

कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः  ।
वर्त्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ॥३६॥

॥सूत उवाच॥
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम् ।
शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ॥३७॥

बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम् ।
पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ॥३८॥

क एते पितरो नाम कियन्तः के च नामतः ।
समुद्भूताः कथञ्चैते पितृत्वं समुपागताः ॥३९॥

कस्माच्च पितरं पूर्वं यज्ञे युज्यन्ति नित्यशः ।
क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ॥४०॥

कस्मै श्राद्धानि देयानि किञ्च दत्तं महाफलम् ।
केषु वाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥४१॥

केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः ।
कश्च कालो भवेच्च्राद्धे विधिः कश्चानुवर्त्तते ॥४२॥

एतदिच्छामि भगवन् विस्तरेण यथातथम् ।
व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ॥४३॥

बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः ।
व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ॥४४॥

  ॥बृहस्पतिरुवाच॥
कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि ।
विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ॥४५॥

द्यौरन्तरिक्षं पृथिवी नक्षत्राणि दिशस्तथा ।
सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ॥४६॥

न बभूवुस्तदा तात तमोभूतमिदं जगत् ।
ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ॥४७॥

शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम् ।
सर्वदैव व्रतस्नातं सर्वज्ञानविदांवरम् ॥४८॥

कीदृशं सर्वभूते शस्तपस्तेपे प्रजापतिः ।
एवमुक्तो बृहत्तेजा ॥बृहस्पतिरुवाच तम् ॥४९॥

सर्वेषां तपसां युक्तिस्तपोयोगमनुत्तमम् ।
ध्यायंस्तदा तद्भगवांस्तेन लोकनवासृजत् ॥५०॥

भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः ।
योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ॥५१॥

लोकाः सान्तानिका नाम यत्र तिष्ठन्ति भास्वराः ।
ते वैराजा इति ख्याता देवानां दिवि देवताः ॥५२॥

योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः ।
देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ॥५३॥

आदिदेवा इति ख्याता महासत्त्वा महौजसः ।
सर्वकामप्रदाः पूज्या देवदानवमानवैः ॥५४॥

तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः  ।
अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्त्तयः ॥५५॥

उपरिष्टात्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः ।
तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्षममूर्त्तयः ॥५६॥

ततो देवास्ततो भूमिरेषा लोकपरम्परा ।
लोके वर्त्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसम्भवः  ।
वृष्टिर्भवति तैर्वृष्ट्या लोकानां सम्भवः पुनः ॥५७॥

आप्याययन्ति ते यस्मात्सोमञ्चान्नञ्च योगतः ।
ऊचुस्तान्वै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ॥५८॥

मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः ।
लोभमोहभयापेता निश्चिताः शोकवर्जिताः ॥५९॥

एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान् ।
दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ॥६०॥

ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ।
प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः ॥६१॥

व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा  ।
नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ॥६२॥

उत्सृज्य देहजातानि महायोगबलेन च ।
निराख्योपाख्यतां यान्ति सरितः सागरे यथा ॥६३॥

क्रियया गुरुपूजाभिर्ये च कुर्वन्ति नित्यशः ।
ताभिराप्याययन्त्येते पितरो योगवर्द्धनाः ॥६४॥

श्राद्धे प्रीताः पुनः सोमं पितरो योगमास्थिताः ।
आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ॥६५॥

तस्माच्छ्राद्धानि देयानि योगिभ्यो यत्नतः सदा ।
पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ॥६६॥

सहस्रशस्तु विप्रान्वै भोजयेद्यावदागतान्॥

एकस्तु योगवित्प्रीतः सर्वानर्हति तच्छृणु ॥६७॥

कल्पितानां सहस्रेण स्नातकानां शतेन च ।
योगाचार्येण यद्भुक्तं त्रायते महतो भयात् ॥६८॥

गृहस्थानां सहस्रेण वानप्रस्थशतेन च ।
ब्रह्मचारिसहस्रेण योगी ह्येको विशिष्यते ॥६९॥

नास्तिको वा विकर्मा वा सङ्कीर्णस्तस्करोऽपि वा ।
नान्यत्र कारणं दानं योगेष्वाह प्रजापतिः ॥७०॥

पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः ।
पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ॥७१॥

अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणौ  ।
तदलाभेप्युदासीनं गृहस्थमपि भोजयेत् ॥७२॥

यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः  ।
ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ॥७३॥

सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ।
तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ॥७४॥

पूजयेच्चार्घ्यपात्रेण वेश्मना भोजनेन च ।
ऊर्वोः सागरपर्यन्तां देवा योगेश्वराः सदा ।
नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ॥७५॥

तस्माद्दद्याच्च वै दानं विप्रायातिथये नरः ।
प्रदानानि प्रवक्ष्यामि फलञ्चैषां तथैव च ॥७६॥

अश्वमेधसहस्रेण राजसूयशतेन च ।
पुण्डरीकसहस्रेण योगिष्वावसथो वरम् ॥७७॥

आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम् ।
भावयन्सप्तकालान्वै स्थित एष गणस्तदा ॥७८॥

अत ऊरद्ध्वं प्रवक्ष्यामि सर्वान् पितृगणान्पुनः  ।
सन्ततिं संस्थितिञ्चैव भावनाञ्च यथाक्रमम् ॥७९॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धप्रक्रियारम्भो नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP