संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्| अध्यायः २७ उत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० उत्तरार्धम् - अध्यायः २७ वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे. Tags : puranvayu puranपुराणवायु पुराणसंस्कृत अध्यायः २७ Translation - भाषांतर ॥सूत उवाच॥अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोधत ।योऽसौ निवेशयामास पुरन्देवपुरोपमम् ॥१॥जयन्तमितिविख्यातं गौतमस्याश्रमाभितः ।यस्यान्ववाये यज्ञे वै जनकादृषिसत्तमात् ॥२॥नेमिर्नाम सुधर्मात्मा सर्वसत्वनमस्कृतः ।आसीत् पुत्रो महाप्राज्ञ इक्ष्वाकोर्भूरितेजसः ॥३॥स शापेन वसिष्ठस्य विदेहः समपद्यत ।तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥४॥अरण्यां मथ्यमानायां प्रादुर्भूतो महायशाः ।नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ॥५॥मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत् ।राजासौ जनको नाम जनकाच्चाप्युदावसुः ॥६॥उदावसोः सुधर्मात्मा जनितो नन्दिवर्द्धनः ।नन्दिवर्द्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥७॥सुकेतोरपि धर्मात्मा देवरातो महाबलः ।देवरातस्य धर्मात्मा बृहदुच्छ इति श्रुतिः ॥८॥बृहदुच्छस्य तनयो महावीर्यः प्रतापवान् ।महावीर्यस्य धृतिमान् सुधृतिस्तस्य चात्मजः ॥९॥सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः ।धृष्टकेतु सुतश्चापि हर्यश्वो नाम विश्रुतः ॥१०॥हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतित्वकः ।प्रतित्वकस्य धर्मात्मा राजा कीर्त्तिरथः सुतः ॥११॥पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः ।देवमीढस्य विबुधो विबुधस्य सुतो धृतिः ॥१२॥महाधृतिसुतो राजा कीर्त्तिराजः प्रतापवान् ।कीर्त्ति राजात्मजो विद्वान् महारोमेति विश्रुतः ॥१३॥महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत ।स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवनृपः ॥१४॥ह्रस्वरोमात्मजो विद्वान् सीरध्वज इति श्रुतिः ।उद्भिन्ना कृषता येन सीता राज्ञा यशस्विनी ।रामस्य महिषी साध्वी सुव्रतातिपतिव्रता ॥१५॥ शांशपायन उवाच॥कथं सीता समुत्पन्ना कृष्यमाणा यशस्विनी ।किमर्थञ्चाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ॥१६॥॥सूत उवाच॥अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः ।विधिना सुप्रयुक्तेन तस्मात्सा तु समुत्थिता ॥१७॥सीरध्वजात्तु जातस्तु भानुमान्नाम मैथिलः ।भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ॥१८॥तस्य भानुमतः पुत्रः प्रद्युम्नश्च प्रतापवान् ।मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ॥१९॥ऊर्जवहात् सुतद्वाजः शकुनिस्तस्य चात्मजः ।स्वागतः शकुनेः पुत्रः सुवर्च्चास्तत्सुतः स्मृतः ॥२०॥श्रुतो यस्तस्य दायादः सुश्रुतस्तस्य चात्मजः ।सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ॥२१॥विजयस्य ऋतः पुत्र ऋतस्य सुनयः स्मृतः ।सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ॥२२॥धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः ।तस्मिन् सन्तिष्टते वंशो जनकानां महात्मनाम् ।इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥२३॥इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशकीर्त्तनं नाम सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP