संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्| अध्यायः १२ उत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० उत्तरार्धम् - अध्यायः १२ वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे. Tags : puranvayu puranपुराणवायु पुराणसंस्कृत अध्यायः १२ Translation - भाषांतर ॥बृहस्पतिरुवाच॥सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।रजतं रजताक्तं वा पितॄणां पात्रमुच्यते ॥१॥रजतस्य तथा चापि दर्शनं दानमेव च ।अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते ।पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥२॥राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा ।स्वधादायार्थिभिस्तात तस्मिन्दत्ते तदक्षयम् ॥३॥कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव वा ।रक्षोघ्नं ब्रह्मवर्च्चस्यं पितॄंस्तत्तद्वितारयेत् ॥४॥काञ्चनं राजतं ताम्रं दौहित्रं कुतपस्तिलाः ।वस्त्रञ्च पावनीयानि त्रिदण्डो योगमेव च ॥५॥श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्यः सनातनः ।आयुः कीर्त्तिः प्रजाश्चैव प्रज्ञासन्ततिवर्द्धनः ॥६॥दिशि दक्षिणपूर्वस्यां विदिकूस्थानं विशेषतः ।सर्वतोरत्निमात्रन्तु चतुरस्रं सुसंहितम् ॥७॥वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासनात् ।धन्यमारोग्यमायुष्यं बलवर्णविवर्द्धनम् ॥८॥तत्र गर्त्तास्त्रयः कार्य्यास्त्रयो दण्डाश्च खादिराः ।रत्निमात्रास्तु ते कार्य्या रजतेन विभूषिताः ।तेवितस्त्यायताः कार्य्याः सर्व्वतश्चतुरङ्गुलाः ॥९॥प्राग्दक्षिणमुखान्भूमौ स्थितानसुषिरंस्तथा ।अद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः ॥१०॥पयसा ह्याजगव्येन शोधनं वाग्भिरेव तु ।तर्पणात्सततं ह्येवं तृप्तिर्भवति शाश्वती ॥११॥इह चामुत्र च श्रीमान्सर्वकर्मसमन्वितः ।एवं त्रिषवणस्नातो योऽर्चयेत पितॄन्सदा ।मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥१२॥तत्स्थापयेदमावास्यां गर्त्ते भूचतुरङ्गुले ।त्रिःसप्तसंज्ञास्ते यज्ञास्त्रैलोक्यं धार्य्यते तु वै ॥१३॥तस्य पुष्टिरथैश्वर्य्यमायुः सन्ततिरेव च ।विचित्रा भजते लक्ष्मीर्मोक्षं च लभते क्रमात् ॥१४॥पाप्मापहं पावनीयमश्वमेधफलं तथा ।अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम् ।मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥१५॥देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥१६॥आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा ।पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ।पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥१७॥पितॄंस्तत्र्त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ।पठ्यमानः सदा श्राद्धे नियतं ब्रह्मवादिभिः ॥१८॥राज्यकामो जपेदेनं सदा मन्त्रमतन्द्रितः ।वीर्य्यशौचार्थसत्त्वञ्च श्रीरायुर्बलवर्द्धनम् ॥१९॥प्रीयन्ते पितरो येन जप्येन नियमेन च ।सप्तार्च्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥२०॥अमूर्तानां समूर्तानां पितॄणां दीप्त तेजसाम् ।नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषा ॥२१॥इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा ।सप्तर्षीणां पितॄणाञ्च तान्नमस्यामि कामदान् ॥२२॥मन्वादीनां सुरेशानां सूर्य्याचन्द्रमसोस्तथा ।तान्नमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥२३॥नक्षत्राणां चरादीनां पितॄनथ पितामहान् ।द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥२४॥देवर्षीणाञ्जनयितॄंश्च सर्वलोकनमस्कृतान् ।अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥२५॥प्रजा पतेः कश्यपाय सोमाय वरुणाय च ।योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥२६॥पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥२७॥एतदुक्तं ससप्तर्षिब्रह्मर्षिगणपूजितम् ।पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥२८॥अनेन विधिना युक्तस्त्रीन्वरान् लभते नरः ।अन्नमायुः सुतांश्चैव ददते पितरो भुवि ॥२९॥भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ।सप्तार्च्चिषं जपेद्यस्तु नित्यमेव समाहितः ।सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥३०॥यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव च ।अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ॥३१॥क्रमशः कीर्त्तयिष्यामि बलिपात्राण्यतः परम् ।येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रृणु ॥३२॥इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP