संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्| अध्यायः २६ उत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० उत्तरार्धम् - अध्यायः २६ वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे. Tags : puranvayu puranपुराणवायु पुराणसंस्कृत अध्यायः २६ Translation - भाषांतर ॥सूत उवाच॥ककुझिनस्तु तं लोकं रैवतस्य गतस्य ह ।हताः पुण्यजनैः सर्व्वा राक्षसैः सा कुशस्थली ॥१॥तद्वै भ्रातृशतं तस्य धार्म्मिकस्य महात्मनः ।निबध्यमाना रक्षोभिर्दिशः संप्राद्रवन् भयात् ॥२॥तेषान्तु ते भया क्रान्ताः क्षत्रियास्तत्र तत्र हि ।अन्ववायस्तु सुमहान् महांस्तत्र द्विजोत्तमाः ॥३॥प्रयता इति विख्याता दिक्षु सर्व्वासु धार्म्मिकाः ।धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ॥४॥त्रिसाहस्रन्तु सगणं क्षत्रियाणां महात्मनाम् ।नभगस्य च दायादो नाभागो नाम वीर्य्यवान् ॥५॥अम्बरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः ।पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥६॥एते क्षत्रप्र॥सूता वै पुनश्चाङ्गिरसः स्मृताः ।रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ॥७॥क्षुवतस्तु मनोः पूर्व्वमिक्ष्याकुरभिनिःसृतः ।तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥८॥तेषां ज्येष्ठो विकुक्षिश्च नेमिर्दण्डश्च ते त्रयः ।शकुनिप्रमुखास्तस्य पुत्राः पंचाशतस्तु ते ॥९॥उत्तरापथदेशस्य रक्षितारो महीक्षितः ।चत्वारिंशत्तथाष्टौ च दक्षिणस्याञ्च ते दिशि ॥१०॥विंशतिप्रमुखास्ते तु दक्षिणापथरक्षिणः ।इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशेत् ॥११॥राजोवाच॥मांसमानय श्राद्धेयं मृगान् हत्वा महाबल ।श्राद्धमद्य नु कर्तव्यमष्टकायां न संशयः ॥१२॥स गतस्तु मृगव्यां वै वचनात्तस्य धीमतः ।मृगान् सहस्रशो हत्वा परिश्रान्तश्च वीर्य्यवान् ।भक्षयच्छशकन्तत्र विकुक्षिर्मृगयाङ्गतः ॥१३॥आगते स विकुक्षौ तु समांसे सहसैनिके ।वसिष्ठञ्चोदयामास मांसं प्रोक्षयतामिति ॥१४॥तथेति चोदितो राज्ञा विधिवत्समुपस्थितः ।स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ॥१५॥शूद्रेणोपहतं मांसं पुत्रेण तव पार्थिव ।शशभक्षादभोज्यं वै तव मांसं महाद्युते ॥१६॥शशो दुरात्मना पूर्वमरण्ये भक्षितोऽनघ ।तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ॥१७॥इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् ।पितृकर्म्मणि निर्द्दिष्टो मया त्वं मृगयाङ्कतः ।शशं भक्षयसेऽरण्ये निर्घृणः पूर्व्वमद्य नु ॥१८॥तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्म्मणा ।एवमिक्ष्वाकुना त्यक्तो वसिष्ठवचनात् सुतः ॥१९॥इक्ष्वाकौ संस्थिते तस्मिञ्छशी स पृथिवीमिमाम् ।प्राप्तः परमधर्म्मात्मा स चायोध्याधिपोऽभवत् ॥२०॥तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः ।ततः स्तेनेन सा पूर्णो राज्यावस्था महीपतेः ॥२१॥कालेन गतवांस्तत्र स च न्यूनतराङ्गतिम् ।ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेत्तु वै ॥२२॥मां सभक्षयितामुत्र यस्य मांसमिहाज्यहम् ।एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥२३॥शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ।इन्द्रस्य वृषभूतस्य ककुत्स्थो जायते पुरा ॥२४॥पूर्व्वमाडीबके युद्धे ककुत्स्थस्तेन स स्मृतः ।अनेनास्तु ककुत्स्थस्य पृथुरोमा च स स्मृतः ॥२५॥वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्य्यवान् ।आन्ध्रस्तु यवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥२६॥जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥२७॥बृहदश्वसुतश्चापि कुबलाश्च इति श्रुतिः ।यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥२८॥ ॥ऋषय ऊचुः॥धुन्धुवधं महाप्राज्ञ श्रोतुमिच्छमि विस्तरात् ।यदर्थं कुबलाश्वः स धुन्धुमारत्वमागतः ॥२९॥॥सूत उवाच॥बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥३०॥बभूवुर्द्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।कुबलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥३१॥बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन् राष्ट्रे नराधिपः ।पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥३२॥बृहदश्वं महाराजं शूरमुत्तमधार्म्मिकम् ।प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥३३॥ उत्तङ्क उवाच॥भवतो रक्षणं कार्य्यं तत्तावत् कर्तुमर्हति ।निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ॥३४॥ममाश्रमसमीपेषु समेषु मरुधन्वसु ।समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥३५॥देवतानामवध्यस्तु महाकायो महाबलः ।अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥३६॥स मनोस्तनयः क्रूरो धुन्धुर्नाम सुदारुणः ।शतं लोकविनाशाय तप आस्थाय दारुणम् ॥३७॥संवत्सरस्य पर्य्यन्ते स निःश्वासं प्रमुञ्चति ।यदा तदा मही तत्र चलिता स्म सकानना ॥३८॥तस्य निःश्वासवातेन रज उद्धूयते महत् ।आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥३९॥सविस्फुलिङ्गं सज्वालं सधूममतिदारुणम् ।तेन राजन्न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥४०॥तं वारय महाबाहो लोकानां हितकाम्यया ।तेजस्ते सुमहाविष्णुस्तेजसाप्याययिष्यति ॥४१॥लोकाः स्वस्था भवन्त्वद्य तस्मिन् विनिहतेऽसुरे ।त्वं हि तस्य वधायाद्य समर्थः पृथिवीपते ॥४२॥विष्णुना च वरो दत्तो मम पूर्व्वं ततोऽनघ ।न हि धुन्धुर्महावीर्य्यस्तेजसाल्पेन शक्यते ॥४३॥निर्द्दग्धुं पृथिवीपाल अपि वर्ष शतैरिह ।वीर्य्यं हि सुमहत्तस्य देवैरपि दुरासहम् ॥४४॥एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना ।कुबलाश्वं सुतं प्रादात्तस्मिन् धुन्धुनिवारणे ॥४५॥राजा संन्यस्तशस्त्रोऽहमयन्तु तनयो मम ।भविष्यति द्विजश्वेष्ठ धुन्धुमारो न संशयः ॥४६॥स तं व्यादिश्य तनयं धुन्धुमारणमुद्यतम् ।जगाम पर्व्वतायैव तपसे शंसितव्रतः ॥४७॥कुबलाश्वस्तु धर्म्मात्मा पितुर्वचनमास्थितः ।सहस्रैरेकविंशत्या पुत्राणां सह पार्थिवः ।प्रायादुत्तङ्क सहितो धुन्धोस्तस्य निवारणे ॥४८॥तमाविशत्ततो विष्णुर्भगवान् स्वेन तेजसा ।उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ॥४९॥तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।अद्यप्रुभृत्येष नृपो धुन्धुमारो भविष्यति ॥५०॥दिव्यैः पुष्पैश्च तं देवाः सममंसत अद्भुतम् ।सगत्वा पुरुष व्याघ्रस्तनयैः सह वीर्य्यवान् ॥५१॥समुद्रं खनयामास वालुकार्णवमव्ययम् ।नारायणेन राजर्षिस्तेजसाप्यायितो हि सः ॥५२॥बभूवातिबलो भूय उत्तङ्कस्य वशे स्थितः ।तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥५३॥धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ।मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव ॥५४॥वारि शुश्राव योगेन महोदधिरिवोदये ।सोमस्य सोमपश्रेष्ठ धारोर्मिकलिलो महान् ॥५५॥तस्य पुत्रास्तु निर्द्दग्धास्त्रिभिरूनास्तु राक्षसाः ।ततः स राजातिबलो धुन्धुबन्धुनिबर्हणः ॥५६॥तस्य वारिमयं वेगमपिबत् स नराधिपः ।योगी योगेन वह्निं वा शमयामास वारिणा ॥५७॥निरस्यत्तं महाकायं बलेनोदकराक्षसम् ।उत्तङ्कं दर्शयामास कृतकर्म्मा नराधिपः ॥५८॥उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने ।अदात्तस्याक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् ॥५९॥धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् ।पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये राक्षसा हताः ॥६०॥तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।भद्राश्वः कपिलाश्वश्च कनीयासौ तु तौ स्मृतौ ॥६१॥धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ।हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥६२॥संहताश्वो निकुम्भस्य श्रुतो रणविशारदः ।कृशाश्वश्चाक्षयाश्वश्च संहताश्च सुतावुभौ ॥६३॥तस्य पत्नी हैमवती सतां मतिदृषद्वती ।विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥६४॥युवनाश्वः सुतस्तस्य त्रिषु लोकेष्वतिद्युतिः ।अत्यन्तधार्मिको गौरी तस्य पत्नी पतिव्रता ॥६५॥अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता ।तस्यास्तु गौरिकः पुत्र श्चक्रवर्त्ती बभूव ह ॥६६॥मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः ।अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिकी द्विजाः ॥६७॥यावत्सूर्य उदयति यावच्च प्रतितिष्ठति ।सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥६८॥अत्राप्युदाहरन्तीमं श्लोकं वंशविदो जनाः ।यौवनाश्वं महात्मानं यज्वान ममितौजसम् ।मान्धाता तु तनुर्विष्णोः पुराणज्ञाः प्रजक्षते ॥६९॥तस्य चैत्ररथी भार्य्या शशबिन्दोः सुताऽभवत् ।साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ॥७०॥पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा ।तस्यामुत्पादयामास मान्धाता त्रीन् सुतान् प्रभुः ॥७१॥पुरुकुत्समम्बरीषं मुचुकुन्दञ्च विश्रुतम् ।अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥७२॥हरितो युवनाश्वस्य हारिताः शूरयः स्मृताः ।एते ह्यङ्गिरसः पुत्राः क्षात्रोपेता द्विजातयः ॥७३॥पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः ।नर्मदायां समुत्पन्नः सम्भूतस्तस्य चात्मजः ॥७४॥सम्भूतस्यात्मजः पुत्रो ह्यनरण्यः प्रतापवान् ।रावणेन हतो येन त्रिलोकीविजये पुरा ॥७५॥त्रसदश्वोऽनरण्यस्य हर्य्यश्वस्तस्य चात्मजः ।हर्य्यश्वात्तु दृषद्वत्यां जज्ञे वसुमतो नृपः ॥७६॥तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्म्मिकः ।आसीत् त्रैधन्वनश्चापि विद्वांस्त्रय्यां रणप्रभुः ॥७७॥तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।तेन भार्य्या विदर्भस्य हृता हत्वा दिवौकसः ॥७८॥पाणिग्रहणमन्त्रेषु निष्ठां सम्प्रापितोष्विह ।विष्णुवृद्धः सुतस्तस्य विष्णु वृद्धो यतः स्मृतः ।एते ह्यङ्गिरसः पुत्राः क्षात्रोपेताः समाश्रिताः ॥७९॥कामाद्बलाच्च मोहाच्च सङ्कर्षणबलेन च ।भाविनोऽर्थस्य च बलात् तत्कृतं तेन धीमता ॥८०॥तमधर्म्मेण संयुक्तं पिता त्रयीगुणोऽत्यजत् ।अपध्वंसेति बहुशोऽवदत् क्रोधसमन्वितः ॥८१॥पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः ।पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ॥८२॥नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ।इत्युक्तः स निराक्रामन्नगराद्वचनाद्विभो ॥८३॥न चैनं धारयामास वसिष्ठो भगवानृषिः ।स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिकम् ।पित्रा मुक्तोऽवसद्वीरः पिता चास्य वनं ययौ ॥८४॥तस्मिंस्तु विषये तस्य नावर्षत् पाकशासनः ।समा द्वादश संपूर्णास्तेनाधर्म्मेण वै तदा ॥८५॥दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।संन्यस्य सागरानूपे चचार विपुलं तपः ॥८६॥तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।शिखया भरणार्थाय व्यक्रीणाद्घोशतेन वै ॥८७॥तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः ।महर्षिपुत्रं धर्म्मात्मा मोक्षयामास सुव्रतः ॥८८॥सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् ।विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥८९॥सोऽभवद्घालवो नाम गले बद्धो महातपाः ।महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ॥९०॥तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।विश्वामित्रकलत्रञ्च बभार विनये स्थितः ॥९१॥हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।विश्वामित्राश्रमाभ्याशे तन्मांसमपचत्ततः ॥९२॥उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।पितुर्नियोगातभजन्नृपे तु वनमास्थिते ॥९३॥अयोध्याञ्चैव राज्यञ्च तथैवान्तःपुरं मुनिः ।याज्योपाध्यायसंयोगाद्वसिष्ठः परिरक्षितः ॥९४॥सत्यव्रतस्तु बाल्यात्तु भाविनोऽर्थस्य वै बलात् ।वसिष्ठेऽभ्याधिकं मन्युं धारयामास मन्युना ॥९५॥पित्रा रुदंस्तदा राष्ट्रात् परित्यक्तं स्वमात्मजम् ।न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥९६॥पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।एवं सत्यव्रतस्तान् वै कृतवान् सप्तमे पदे ॥९७॥जानन् धर्म्मान् वसिष्ठस्तु न च मन्त्रानिहेच्छति ।इति सत्यव्रते रोषं वसिष्ठो मनसाकरोत् ॥९८॥गुरुर्बुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तदा ।न तु सत्यव्रतो बुद्ध्या उपांशुव्रतमस्य वै ॥९९॥तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः ।तेन द्वादशवर्षाणि नावर्षत् पाकशासनः ॥१००॥तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि ।कुलस्य निष्कृतिः स्वस्य कृतेयञ्च भवेदिति ॥१०१॥ततो वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् ।अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ॥१०२॥स तु द्वादशवर्षाणि दीक्षान्तामुद्वहन् बली ।अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥१०३॥सर्व्वकामदुघां धेनुं संददर्श नृपात्मजः ।तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥१०४॥दस्युधर्म्मं गतो दृष्ट्वा जघान बलिनां वरः ।स तु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥१०५॥भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत् ।प्रोवाच चैव भगवान् वसिष्ठस्तं नृपात्मजम् ॥१०६॥पातये क्रूर हे क्रूर तव शंकुमयोमयम् ।यदि ते त्रीणि शंकूनि न स्युर्हि पुरुषाधम ॥१०७॥पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।अप्रोषितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥१०८॥एवं स त्रीणि शंकूनि दृष्ट्वा तस्य महा तपाः ।त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥१०९॥विश्वामित्रस्तु दाराणामागतो भरणे कृते ।ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥११०॥छन्द्यमानो वरेणाथ गुरुं व्रवे नृपात्मजः ।अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ॥१११॥अभिषिच्य राज्ये पित्र्ये याजयामास तं मुनिः ।मिषतां दैवतानाञ्च वसिष्ठस्य च कौशिकः ।सशरीरं तदा तं वै दिवमारोपयत् प्रभुः ॥११२॥मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् ।अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिका जनाः ॥११३॥विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते ।देवै सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥११४॥शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता ।अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ॥११५॥तस्य सत्यरता नाम भार्य्या केकयवंशजा ।कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥११६॥स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः ।आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ॥११७॥हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्य्यवान् ।हरितो रोहितस्याथ चंचुहारीत उच्यते ॥११८॥विजयश्च सुदेवश्च चंचुपुत्रौ बभूवतुः ।जेता सर्व्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥११९॥रुरुकस्तनयस्तत्र राजा धर्म्मार्थकोविदः ।रुरुकाद्धृतकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥१२०॥हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः ।शकैर्यवनकाम्बोजैः पारदैः पह्लवैस्तथा ॥१२१॥नात्यर्थं धार्म्मिकोऽभूत् स धर्म्म्ये सत्ययुगे तथा ।सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ।भृगोराश्रममासाद्य तुर्वेण परिरक्षितः ॥१२२॥आग्नेयमस्त्रं लब्ध्वा तु भार्गवात् सगरो नृपः ।जघान पृथिवीङ्गत्वा तालजंघान् सहैहयान् ॥१२३॥शकानां पह्लवानाञ्च धर्म्मान्निरसदच्युतः ।क्षत्रियाणां तथा तेषां पारदानाञ्च धर्म्मवित् ॥१२४॥ ॥ऋषय ऊचुः॥कथं स सगरो राजा गरेण सह जज्ञिवान् ।किमर्थञ्च शकादीनां क्षत्रियाणां महौजसाम् ।धर्म्मान् कुलोचितान् क्रुद्धो राजा निरसदच्युतः ॥१२५॥॥सूत उवाच॥बाहोर्व्यसनिनस्तस्य हृतं राज्यं पुरा किल ।हैहयैस्तालजंवैश्च शकैः सार्द्धं समागतैः ॥१२६॥यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ।हैहयार्थं पराक्रान्ता एते पञ्चगणास्तदा ॥१२७॥हृतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः ।हृतराज्यस्तदा बाहुः संन्यस्य नु तदा नृपः ।वनं प्रविश्य धर्म्मात्मा सह पत्न्या तपोऽचरत् ॥१२८॥कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः ।वृद्धत्वाद्दुर्ब्बलत्वाच्च अन्तरा स ममार च ॥१२९॥पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् ।सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥१३०॥सा तु भर्तुश्चितां कृत्वा वह्नौ तं समरोहयत् ।और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्त्तयत् ॥१३१॥तस्याश्रमे तु तङ्गर्भं सागरेण तदा सह ।व्यजायत महाबाहुं सगरं नाम धार्मिकम् ॥१३२॥और्वस्तु जातकर्मादीन् कृत्वा तस्य महात्मनः ।अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥१३३॥जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम् ।स तेनास्त्रबलेनैव बलेन च समन्वितः ।जघान हैहयान् क्रुद्धो रुद्रः पशुगणानिव ॥१३४॥ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा ।पह्लवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥१३५॥ते वध्यमाना वीरेण सगरेण महात्मना ।वसिष्ठं शरणं सर्व्वे प्रपन्नाः शरणैषिणः ॥१३६॥वसिष्ठस्तान् तथेत्युक्त्वा समयेन महामुनिः ।सगरं वारयामास तेषान्दत्त्वाऽभयन्तदा ॥१३७॥सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वास्यं निशम्य च ।धर्म्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥१३८॥अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।यवनानां शिरः सर्वं काम्बोजानान्तथैव च॥ २६.१३९॥पारदा मुक्तकेशाश्च पह्लवाः श्मश्रु धारिणः ।निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥१४०॥शका यवनकाम्बोजाः पह्लवाः पारदैः सह ।केलिस्पर्शा माहिषिका दार्वाश्चोलाः खसास्तथा ॥१४१॥सर्व्वे ते क्षत्रियगणा धर्म्मस्तेषां निराकृतः ।वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥१४२॥स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।अश्वं विचारयामास वाजिमेधाय दीक्षितः ॥१४३॥तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।वेलासमीपेऽपहृतो भूमिञ्चैव प्रवेशितः ॥१४४॥स तन्देशं सुतैः सर्वैः खनयामास पार्थिवः ।आसेदुश्च ततस्तस्मिंस्तदन्तस्ते महार्णवे ॥१४५॥तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥१४६॥तस्य चक्षुः समासाद्य तेजस्तत् प्रतिपद्यते ।दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः ॥१४७॥बर्हिकेतुः सकेतुश्च तथा धर्म्मरतस्त्रयः ।शूरः पञ्चवनश्चैव तस्य वंशकराः प्रभो ॥१४८॥प्रादाच्च तस्य भगवान् हरिर्नारायणो वरान् ।अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा ।विभुं पुत्रं समुद्रञ्च स्वर्गे वासं तथाक्षयम् ॥१४९॥स समुद्रोऽश्वमादाय वन्ददे (?) सरितांपतिः ।सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥१५०॥तं चाश्वमेधिकं सोऽश्वं समुद्रात् प्राप्य पार्थिवः ।आजहाराश्वमेधानां शतं चैव पुनः पुनः ॥१५१॥षष्टिपुत्रसहस्राणि दग्धान्यश्वानुसारिणाम् ।तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।पुत्राणान्तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥१५२॥ ॥ऋषय ऊचुः ।.सगरस्यात्मजा राज्ञः कथं जाता महाबलाः ।विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥१५३॥॥सूत उवाच॥द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे ।ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥१५४॥कनीयसी तु या तस्य पत्नी परमधर्मिणी ।अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥१५५॥और्वस्ताभ्यां वरं प्रादात् तपसाराधितः प्रभुः ।एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम् ।षष्टिपुत्रं सहस्राणि द्वितीया जनयिष्यति ॥१५६॥मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् ।वंशस्य कारणं श्रेष्ठा जग्राह नृपसंसदि ॥१५७॥षष्टिपुत्रसहस्राणि सुपर्णभगिनी तथा ।महात्मनस्तु जग्राह सुमतिः पोषणे नृपः ॥१५८॥अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत ।असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ॥१५९॥सुमतिस्त्वपि जज्ञे वै गर्भन्तुम्बं यशस्विनी ।षष्टिपुत्रसहस्राणि तुम्बमध्याद्विनिःसृताः ॥१६०॥घृतपूर्णेषु कुम्भेषु तान् गर्भान् न्यदधत्ततः ।धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः ॥१६१॥ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् ।कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ॥१६२॥कालेन महता चैव चौवनं प्रतिपेदिरे ।षष्टिपुत्रसहस्राणि तेषामश्वानुसारिणाम् ॥१६३॥स तु ज्येष्ठो नरव्याघ्रः सगरस्यात्मसम्भवः ।असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ॥१६४॥पौराणामहिते युक्तः पित्रा निर्वासितः पुरा ।तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥१६५॥तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः ।दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥१६६॥येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता ।ईजाऽनेन समुद्राद्वै दुहितृत्वेन कल्पिता ।अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥१६७॥भगीरथस्तु तां गङ्गामानयामास कर्मभिः ।तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥१६८॥भगीरथसुतश्चापि श्रुतो नाम बभूव ह ।नाभागस्तस्य दायादो नित्यं धर्मपरायणः ॥१६९॥अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत् ।एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥१७०॥नाभागेरम्बरीषस्य भुजाभ्यां परिपालिता ।बभूव वसुधात्यर्थं तापत्रयविवर्जिता ॥१७१॥अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् ।अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ॥१७२॥दिव्याक्षहृदज्ञोऽसौ राजा नलसखो बली ।नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ॥१७३॥वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ।ऋतुपर्णस्य पुत्रोऽभूत् सर्व्वकामो जनेश्वरः ॥१७४॥सुदासस्तस्य तनयो राजा हंसमुखोऽभवत् ।सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥१७५॥ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः ।वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ॥१७६॥अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत् ।अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥१७७॥स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् ।विवस्त्रस्त्राणमिच्छन् वै नारीकवचमीश्वरः ॥१७८॥मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः ।तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ॥१७९॥आसीत्त्वैडिविडः श्रीमान् कृतशर्मा प्रतापवान् ।पुत्रो विश्वमहत्तस्य पुत्रीकस्य व्यजायत ॥१८०॥दिलीपस्तस्य पुत्रोऽभूत् खट्वाङ्ग इति विश्रुतः ।येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् ।त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥१८१॥दीर्गबाहुः सुतस्तस्य रघुस्तस्मादजायत ।अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ।राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥१८२॥रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः ।भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥१८३॥माधवं लवणं हत्वा गत्वा मधुवनञ्च तत् ।शत्रुघ्नेन पुरी तस्य मथुरा सन्निवेशिता ॥१८४॥सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ ।पालयामासतुः सूनू वैदेह्यौ मथुरां पुरीम् ॥१८५॥अङ्गदश्चान्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ ।हिमवत्पर्वताभ्याशे स्फीतौ जनपदौ तयोः ॥१८६॥अह्गदस्याङ्गदीया तु देशे कारपथे पुरी ।चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्ता पुरी शुभा ॥१८७॥भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च ।गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ॥१८८॥तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी ।पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥१८९॥गाथां चैवात्र गायन्ति ये पुराणविदो जताः ।रामे निबद्धास्सत्त्वार्था माहात्म्यात्तस्य धीमतः ॥१९०॥श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ।आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥१९१॥दशवर्षसहस्राणि रामो राज्यमकारयत् ।ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ॥१९२॥अविच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति ।जनस्थाने वसन् कार्यं त्रिदशानाञ्चकारसः ॥१९३॥तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः ।सीतायाः पदमन्विच्छन् निजघान महायशाः ॥१९४॥सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्व तेजसा ।अतिसूर्यञ्च वह्निञ्च रामो दाशरथिर्बभौ ॥१९५॥एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः ।रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥१९६॥श्रीरामस्यात्मजो जज्ञे कुश इत्यभिधीयते ।लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ॥१९७॥कुशस्य कोशला राज्यं पुरी वापि कुशस्थली ।रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥१९८॥उत्तराकोशले राज्यं लवस्य च महात्मनः ।श्रावस्ती लोकविख्याता कुशवंशं निबोधत ॥१९९॥कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः ।अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥२००॥निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥२०१॥क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् ।आसीदहीनगुर्नाम देवानी कात्मजः प्रभुः ॥२०२॥अहीनगोस्तु दायादः पारियात्रो महायशाः ।दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥२०३॥औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह ।वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥२०४॥शंखणस्य सुतो विद्वान् ध्युषिताश्च इति श्रुतः ।ध्युषिताश्च सुतश्चापि राजा विश्वसहः किल ॥२०५॥हिरण्यनाभः कौशल्यो वसिष्ठस्तत्सुतोऽभवत् ।पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ॥२०६॥शतानि संहितानान्तु पञ्च योऽधीतवांस्ततः ।तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥२०७॥पुष्यस्तस्य सुतो विद्वान् ध्रुवसन्धिश्च तत्सुतः ।सुदर्शनस्तस्य सुतो अग्निवर्णः सुदर्शनात् ॥२०८॥अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः ।मनुस्तु योगमास्थाय कलापग्राममास्थितः ।एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ॥२०९॥प्रसुश्रुतो मनोः पुत्रः सुसन्धिस्तस्य चात्मजः ।सुसन्धेश्च तथामर्षः सहस्वान्नाम नामतः ॥२१०॥आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति ।तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ॥२११॥एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः ।वंशे प्रधाना ये तेऽस्मिन् प्राधान्येन तु कीर्त्तिताः ॥२१२॥पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ॥२१३॥श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।विपाप्मा विरजाश्चैव आयुष्मान् भवतेऽच्युतः ॥२१४॥इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशवर्णनं नाम षड्विंशोध्यायः ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP