उत्तरार्धम् - अध्यायः ३१
वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.
॥ऋषयः ऊचुः॥
मरुतेन कथं कन्या राज्ञे दत्ता महात्मना ।
किंवीर्याश्च महात्मानो जाता मरुतकन्यकाः ॥१॥
॥सूत उवाच॥
आहवन् तं मरुत्सोममन्नकामः प्रजेश्वरम् ।
मासि मासि महातेजाः षष्टिसंवत्सरान्नृपः ॥२॥
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः ।
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥३॥
अन्नं तस्य सकृत्पक्वमहोरात्रे न क्षीयते ।
कोटिशो दीयमानं च सूर्य्यस्योदयनादपि ॥४॥
मित्राज्योतिस्तु कन्यायां मरुतस्य च धीमतः ।
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥५॥
संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः ।
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥६॥
अनपायस्ततो जातस्तदा धर्मप्रदत्तवान् ।
क्षत्रधर्मस्ततो जातः प्रतिपक्षो महातपाः ॥७॥
प्रतिपक्षसुतश्चापि सञ्जयो नाम विश्रुतः ।
सञ्जयस्य जयः पुत्रो विजयस्तस्य जग्मिवान् ॥८॥
विजयस्य जयः पुत्रस्तस्य हर्यन्द्वतः स्मृतः ।
हर्यन्दुतस्ततो राजा सहदेवः प्रतापवान् ॥९॥
सहदेवस्य धर्मात्मा अदीन इति विश्रुतः ।
अदीनस्य जयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥१०॥
संकृतेरपि धर्मात्मा कृतधर्मा महायशाः ।
इत्येते क्षत्र धर्माणो नहुषस्य निबोधत ॥११॥
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ॥१२॥
यतिर्ययातिः संयातिरायातिः पञ्च तुद्वयः ।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ॥१३॥
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा ।
संयातिर्मो क्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥१४॥
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः ।
देवयानिमुशनसः सुतां भार्यामवाप ह ॥१५॥
शर्मिष्ठा मासुरीं चैव तनयां वृषपर्वणः ।
यदुं च तुर्वसुं चैव देवयानिर्व्यजायत ॥१६॥
द्रुह्युञ्चानुञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी ।
अजीजनन्महावीर्यान् सुतान्देवसुतोपमान् ॥१७॥
रथन्तस्मै ददौ रुद्रः प्रीतः परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यमक्षयौ च महेषुधी ॥१८॥
युक्तं मनो जवैरश्वैर्येन कन्यां समुद्वहत् ।
स तेन रथमुख्येन जिगाय च ततो महीम् ॥१९॥
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ।
पौरवाणां नृपाणाञ्च सर्वेषां सोऽभवद्रथः ॥२०॥
योवत्सुदेशप्रभवः कौरवो जनमेजयः ।
कुरोः पुत्रस्य राज्ञस्तु राज्ञः पारिक्षितस्य ह ।
जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः ॥२१॥
गार्ग्यस्य हि सुतं बालः स राजा जनमेजयः ।
दुर्बुद्धिर्हिंसयामास लोहगन्धं नराधिपम् ॥२२॥
स लोहगन्धो राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥२३॥
ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् ।
शशाप हेतुकमृषिं शरण्यं व्यथितस्तदा ॥२४॥
ईन्द्रोतो नाम विख्यातो योऽसौ मुनिरुदारधीः ।
योजयामास चेन्द्रोतः शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥२५॥
स लोहगन्धो व्यनशत्तस्यावसथमेत्य ह ।
स च दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ॥२६॥
ततः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः ।
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥२७॥
स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः ।
पुत्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः॥३१.२८॥
जरावली च मां तात पलितानि च पर्यगुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥२९॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥३०॥
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥३१॥
जराया बहवो दोषा पानभोजनकारिणः ।
तस्माज्जरान्न ते राजन् ग्रहीतुमहमुत्सहे ॥३२॥
सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।
बली सन्नतगात्रश्च दुर्द्दशो दुर्बलाकृतिः ॥३३॥
अशक्तः कार्यकरणे परिभूतस्तु यौवने ।
महोपभीतिभिश्चैव तां जरान्नाभिकामये ॥३४॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥३५॥
स एवमुक्तो यदुना तीव्रकोपसमन्वितः ।
उवाच वदतां श्रेष्छो ज्येष्ठं तं गर्हयन् सुतम् ॥३६॥
आश्रमः कश्च वान्योऽस्ति को वा धर्मविधिस्तव ।
मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ॥३७॥
एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥३८॥
तस्मान्न राज्यभाग् मूढ प्रजा ते वै भविष्यति ।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥३९॥
तुर्वसुरुवाच॥
न कामये जरां तात सामभोगप्रणाशिनीम् ।
जराया बहवो दोषाः पानभोजनकारिणः ।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥४०॥
ययातिरुवाच॥
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि ।
तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥४१॥
असङ्कीर्णा च धर्मेण प्रतिलोमवरेषु च ।
पिशितादिषु चान्येषु मूढ राजा भविष्यसि ॥४२॥
गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु वा ।
पशुधर्मेषु म्लेच्छेषु भविष्यति न संशयः ॥४३॥
॥सूत उवाच ।
एवन्तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥४४॥
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।
जरां वर्षसहस्रं वै यौवनं स्वन्ददस्व मे ॥४५॥
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ।
स्वञ्चादास्यामि बूयोऽहं पाप्मानं जरया सह ॥४६॥
द्रुह्युरुवाच॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्॥
न सङ्गश्चास्य भवति न जरां तेन कामये ॥४७॥
ययातिरुवाच॥
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि ।
तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥४८॥
नौप्लवोत्तरसञ्चारस्तत्र नित्यं भविष्यति ।
अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ॥४९॥
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
एवं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥५०॥
अनुरुवाच॥
जीर्णः शिशुवरं दत्ते जरया ह्यशुचिः सदा॥
न जुहोति स कालेऽग्नि तां जरान्नाबिकामये ॥५१॥
ययातिरुवाच॥
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि ।
जरादोषस्त्वयोक्तोऽयं तस्मात्ते प्रतिपत्स्यते ॥५२॥
प्रजा च यौवनं प्राप्ता विनशिष्यत्यतस्तव ।
अग्निप्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ॥५३॥
पूरो त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह ।
जरावली च मान्तात पलितानि च पर्यगुः ॥५४॥
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ।
कञ्चित्कालञ्जरेयं वै विषयान् वयसा तव ॥५५॥
पूर्णें वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ।
स्वञ्चैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ॥५६॥
॥सूत उवाच॥
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा ।
यथानुमन्यसे तात करिष्यामि तथैव च ॥५७॥
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह ।
गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ॥५८॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ।
यौवनं भवते दत्त्वा चरिष्यामि यथार्तवत् ॥५९॥
ययातिरुवाच॥
पूरो प्रीतोऽस्मि भद्रन्ते प्रीतश्चेदं ददामि ते ।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥६०॥
॥सूत उवाच॥
पूरोरनुमतो राजा ययातिः स्वां जरान्ततः ।
संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ॥६१॥
यौवनेनाथ वयसा ययातिरनहुषात्मजः ।
प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् स्वकान् ॥६२॥
यथाकामं यथोत्साहं यथाकालं यथासुखम् ।
धर्म्माविरोधाद्राजेन्द्रो यथार्हति स एव हि ॥६३॥
देवानतर्पयद्यज्ञैः पितॄञ्छ्राद्धैस्तथैव च ।
दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥६४॥
अतिथीनन्नपानैश्च वैश्यांश्च परिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून् संनिग्रहेण च ॥६५॥
धर्म्मेण च प्रजाः सर्व्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥६६॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥६७॥
स मार्गमाणः कामानामन्तर्दोषनिदर्शनात् ।
विश्वासहेतो रेमे वै वैब्राजे नन्दने वने ॥६८॥
अपश्यत्स यदा तां वै वर्द्धमानां नृपस्तदा ।
गत्वा पूरोः सकाशं वै स्वां जरा प्रत्यपद्यत ॥६९॥
स सम्प्राप्य तु तान् कामांस्तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रं वै सस्मार मनुजाधिपः । ॥७०॥
परिसङ्ख्याय कालञ्च कलाकाष्ठास्तथैव च ।
पूर्णं मत्त्वा ततः कालं पूरुं पुत्रमुवाच ह ॥७१॥
यथासुखं यथोत्साहं यथाकालमरिंदम ।
सेविता विषयाः पुत्र यौवनेन मया तव ॥७२॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् ।
राष्ट्रञ्च नृपं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥७३॥
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः ।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥७४॥
अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥७५॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।
श्रेष्ठं यदुमतिक्रम्य पूरो राज्यं प्रदास्यसि ॥७६॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।
शर्मिष्ठायाः सुतो द्रुह्युस्तनोऽनुः पूरुरेव च ॥७७॥
कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति ।
अतः सम्बोधयामि त्वां धर्म्मं समनुपालय ॥७८॥
ययातिरुवाच॥
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः ।
ज्येष्टं प्रति यथा रार्ष्ट्रं न देयं मे कथञ्चन ॥७९॥
माता पित्रोर्वचनकृत्स हि पुत्रः प्रशस्यते ।
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ॥८०॥
प्रतिकूलं पितुर्यश्च न स पुत्रः सतां मतः ।
स पुत्रः पुत्रवद् यश्च वर्त्तते पितृमातृषु ॥८१॥
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ।
द्रुह्युणा चानुना चैवमप्यवज्ञा कृता भृशम् ॥८२॥
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः ।
कनीयान् मम दायादो जरा येन धृता मम ।
सर्वकामः सर्वकृतः पूरुणा पुत्रकारिणा ॥८३॥
शुक्रेण च वरो दत्तः काव्ये नोशनसा स्वयम् ।
पुत्रो यस्त्वानुवर्त्तेत स राजा ते महामते ॥८४॥
भवतोऽनुमतोप्येवं पूरु राष्ट्रेऽभिषिच्यताम् ।
यःपुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ।
सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ॥८५॥
अर्हः पूरुरिदं राष्ट्रं यः प्रियः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥८६॥
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।
अभिषिच्य ततः पूरुं स्वराष्ट्रे सुतमात्मनः ॥८७॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् ।
दक्षिणापरतो राजा यदुं श्रेष्ठं न्यवेशयत् ॥८८॥
प्रतीच्यामुत्तरस्याञ्च द्रुह्युञ्चानुञ्च तावुभौ ।
सप्तद्वीपां ययातिस्तु जित्त्वा पृथ्वीं ससागराम् ।
व्यभजत् पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥८९॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशं धर्मज्ञैर्धर्म्मेण प्रतिपाल्यते ॥९०॥
एवं विसृज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा ।
पुत्रसंक्रामितश्रीस्तु प्रीतिमानभवन्नृपः ॥९१॥
धनुर्न्यस्य पृषत्कांश्च राज्यञ्चैव सुतेषु तु ।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥९२॥
अत्र गाथा महाराज्ञा पुरा गीता ययातिना ।
योऽभिप्रेत्याहरन् कामान् कूर्मोङ्गानीव सर्वशः ॥९३॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥९४॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥९५॥
यदा तु कुरुते भावं सर्व्वभूतेषु पावकम् ।
कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥९६॥
यदा परान्न बिभेति यदा त्वस्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥९७॥
या दुस्त्यजा दुर्म्मतिभिर्या न जीर्यति जीर्य्यतः ।
दोषाप्राणान्तिको रागस्तां तृष्णान्त्यजतः सुखम् ॥९८॥
जीर्य्यन्ति जीर्यतः कोशा दन्ता जीर्यन्ति जर्यितः ।
जीविताशा धनाशा च जीर्य्यतोपि न जीर्यति ॥९९॥
यच्चाकामसुखं लोके यच्च दिव्यं महत् सुखम् ।
तृष्णास्य च सुखस्यैव कलां नार्हति षोडशीम् ॥१००॥
एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् ।
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ।
पालयित्वा व्रतशतं तत्रैव स्वर्गमाप्नुयात् ॥१०१॥
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ।
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ॥१०२॥
धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः ।
ययातेश्चरितं सर्वं पठञ्छृण्वन् द्विजोत्तमः ॥१०३॥
इति श्रीमहापुराणे वायुप्रोक्ते चन्द्र वंशकीर्त्तनं नामैकत्रिंशोऽद्यायः ॥३१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP