पूर्वखण्डः - अध्याय २९
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
वासरपोऽरिसंस्थः |
शत्रुं विधत्ते व्रतिनं सदैव ।
तुङ्गांशकस्थित अथ विप्रमेव
षड्वर्गशुद्धो नृपतिं सदैव ॥१॥
नीचाश्रयस्थः सवितारिसंस्थः
शत्रुं विधत्ते कुमतिं कृतघ्नम् ।
नीचांशकस्थः प्रमदानुरक्तं
पापस्य वर्गे परतर्ककं च ॥२॥
सुहृद्गृहस्थः सवितारिसंस्थः
शत्रुं विधत्ते वणिजानुरक्तम् ।
मित्रांशकस्थस्त्वथ गाजपाल
वर्गोत्तमस्थो बहुशिष्यभाजम् ॥३॥
शत्र्वाश्रयस्थो यदि तीक्ष्णरश्मिः
षष्ठे विधत्ते प्रमदासमुत्थम् ।
वैरं तदम्शे त्वथ पंश्चलीभी
र्मूलत्रिकोणे च विलासिनीभिः ॥४॥
चन्द्रोऽरिसंस्थो यदि तुङ्गसंथः
शत्रुं विधत्ते बहुशास्त्ररक्तम् ।
उच्चांशके वा परदाररक्तं
षड्वर्गशुद्धोऽप्यथ पार्थिवं च ॥५॥
नीचाश्रितः शीतकरोऽरिसंस्थो
मित्रं न किंचित् कुरुते मराणाम् ।
निचांशकस्थश्च बहुप्रकारं
वैरं ववर्णेन खलोत्थवर्गे ॥६॥
मित्राश्रयस्थो यदि शीतरश्मिः
षष्ठस्थितोऽरिं नृपतिं प्रसूते ।
मित्रांशकस्थस्तु नरेन्द्रपुत्रं
वर्गोत्तमस्थः सततं नृशंसम् ॥७॥
शत्र्वाश्रयस्थो यदि शीतरश्मिः
शत्रुं विधत्ते विकृतस्वभावम् ।
तस्यैव भागे ह्यथ सैन्यनाथं
मूलत्रिकोणे गुरुवत्सनं च ॥८॥
तुङ्गाश्रितो भूतनयस्तु षष्ठे
शत्रुं न पुंसां कुरुते कदाचित् ।
तुङ्गांशके चाथ सुदीनचेष्टं
षड्वर्गशुद्धः परदेशभाजम् ॥९॥
भौमोऽरिसंस्थो यदि नीचसंस्थः
शत्रुं विधत्तेऽन्त्यजमेव पुंसाम् ।
नीचांशके वा कृषिकर्मरक्तं
पापस्य वर्गे धनधान्यहीनम् ॥१०॥
मित्राश्रयस्थो यदि भूमिपुत्रः
षष्थे प्रसूते तनयेन वैरम् ।
मित्रांशके वा त्वथ बान्धवेन
वर्गोत्तमस्थो निजमातुलेन ॥११॥
भौमोऽरिसंस्थो यदि शत्रुराशौ
रिपुं विधत्ते गुरुदेवतारिम् ।
तस्यैव भागे घृणया विहीनं
मूलत्रिकोणे प्रियसाहसं च ॥१२॥
सौम्योऽरिसंस्थो यदि तुङ्गसंस्थः
शत्रुं विधत्ते विकृतवभावम् ।
तुङ्गांशके वा धनिनं विरूपं
षड्वर्गशुद्धः सुरतानुकूलम् ॥१३॥
बुधोऽरिसंस्थो यदि नीचराशौ
शत्रुं सुवाते विकलं विनेत्रम् ।
काणं तदंशे विकृतांघृदंष्त्रं
पापस्थ वर्गे द्विजधामरक्तम् ॥१४॥
मित्राश्रयस्थो यदि सोमपुत्रः
षष्थे विधत्ते सचिवं हि मित्रम् ।
मित्राम्शकस्थः सचिवस्य पुत्रं
षड्वर्गशुद्धः परदाररक्तम् ॥१५॥
शत्रोर्गृहस्थो यदि सोमपुत्रः
शत्रुं विधत्ते परविन्तरक्तम् ।
चौरं तदंशे सततं नृशंसं
मूलत्रिकोणे व्यसनाभिभूतम् ॥१६॥
जीवः स्वतुङ्गे यदि षष्ठसंस्थः
शत्रुं प्रसूते बहुदोषभाजम् ।
तुङ्गांशके ।रिविवर्जितं च
षड्वर्गशुद्धः प्रमदानुकूलम् ॥१७॥
नीचाश्रये वा यदि देवपूज्यः
षष्थे प्रसूतेऽल्पसुखं च सक्तम् ।
तदंशके वा बहुपानरक्तं
॥वर्गे गुणवर्जितं च ॥१८॥
मित्राश्रय॥यदि देवमन्त्री
शत्रुं सुवात्तेऽपतिं प्रसिद्धम् ।
तदंशके वा खरगर्दभाढ्यं
वर्गोत्तमस्थः श्रुतवर्जितं च ॥१९॥
शत्र्वाश्र्यस्थः कुरुते सुरेज्यः
शत्रुं विहीनं निजबन्धुवर्गे ।
शत्रोर्विभागे विनयेन हीनं
मूलत्रिकोणे बहुपुत्रपौत्रम् ॥२०॥
शुक्रः स्वतुङ्गे यदि शत्रुसंस्थः
शत्रुं विधत्ते जितशत्रुपक्षम् ।
तुङ्गांशके वा जितशत्रुदारं
षड्वर्गशुद्धः प्रणतारिपक्षम् ॥२१॥
नीचाश्रयस्थो रिपुगोऽसुरेज्यः
शत्रुं प्रसूते बहुकन्यकाढ्यम् ।
नीचांशकस्थस्तु गजाधिनाथं
पापस्य वर्गे कृतपापसङ्गम् ॥२२॥
मित्राश्रयस्थो रिपुगो विधत्ते
शुक्रो रिपुं बन्धववर्गनेव ।
तदंशके वा स्वकलत्रवर्गे
वर्गोत्तमस्थः श्वशुरं सदैव ॥२३॥
शत्र्वाश्रयस्थोऽरिगतस्तु शुक्रो
रिपुं प्रसूते सुतरां नृशंसम् ।
तस्यांशके व्याधुविवर्जिताण्गं
मूलत्रिकोणे धनवर्जितं च ॥२४॥
शनैश्चरः षष्ठगतः स्वतुङ्गे
परैर्विहीनं जनयेन्मनुष्यम् ।
तुङ्गांशके स्वल्परिपुं जितारिं
षड्वर्गशुद्धः सुनतं परैश्च ॥२५॥
नीचाश्रयस्थो यदि सूर्यपुत्रः
शत्रुं प्रसूते तरलं मनुष्यम् ।
नीचस्य भागे कनकाढ्यमेव
पापस्य वर्गे कृषिकर्मदक्षम् ॥२६॥
मित्राश्रयस्थो रविजोऽरिसंस्थः
शठं रिपुं स्वल्पतनुं प्रसूते ।
मित्रस्य भागे हनिनं प्रधानं
वर्गोत्तमस्थो बहुकर्मयुक्तम् ॥२७॥
शत्र्वाश्रयस्थो रविजो रिपुस्थः
शत्रुं सुवाते सततं गतार्थम् ।
शत्रोर्विभागे सुतदारहीनं
मूलत्रिकोणे परसङ्गतं च ॥२८॥
दशाधिपस्तीक्ष्णकरः प्रदिष्तं
सहत्रनाथो रजनीपतिश्च
वक्रार्कजौ हीनपरौ सदैव
सेषास्तु चन्द्रेण समाः स्वतुङ्गे ॥२९॥
इति श्रीवृद्धयवने रिपुस्थानचिन्ता ॥
N/A
References : N/A
Last Updated : November 10, 2011
TOP