पूर्वखण्डः - अध्याय ७

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


भनोर्दशायां यदि शीतरश्मे
र्दशाविपाकं कुरुते तदा स्यात् ।
क्लेशेन वित्तं स्वधनेन मित्रं
भोगांच नित्यं हि विडम्बनेन ॥१॥
हृद्रोगमीर्ष्यं स्वजनापमानं
भयं सुशोकं प्रियलोकनाशम् ।
भानोर्दशायां कुरुते प्रविष्टा
दशा महीजस्य क्षतप्रकोपम् ॥२॥
बौधी विधत्ते पतितस्य लाभं
कुमित्रसङ्गं परिवारलाभम् ।
अपात्रदानं विचयातिवेगं
भानोर्दशायां यदि संप्रविष्टा ॥३॥
भानोर्दशायां सुरपूजितस्य
दशा विधत्ते कुनृपेण सख्यम् ।
असद्जयं पापविधानलाभं
दुष्टाबलासङ्गमसत्यमेव ॥४॥
शौक्री खरांशोर्यदि संप्रवृत्ता
दशा दशायां कुरुते कुपुत्रम् ।
कावत्तला ॥।कुजनेन सख्य
विदेशतः प्राप्तियथो नराणाम् ॥५॥
दशाविपाके दिनपस्य सौरी
दशा प्रविष्टाक्षिरुजं विधत्ते ।
वृचाटनं बन्धुजनेन वैरं
क्षुच्छस्त्रभूपालकृतं भयं च ॥६॥
लाग्नी दशा सौम्यविलग्नजाता
भानोर्दशायां खरवेशराप्तिम् ।
अश्रीयमस्त्रप्रभवं च लाभं
श्चामर्कटव्योमविचारिणीनाम् ॥७॥
पापोद्भवा पापमातिं विधत्ते
द्विजामरद्वेषगुरुप्रकोपम् ।
अन्तर्दशा सा दिनपस्य नित्यं
भयं दशायां नृपचौरजातम् ॥८॥
तृष्णौषधीसेवनचौर्यलाभं
सौख्यं तदोथ्यं विटकामिनिभीः ।
कुपुण्यां विविधैश्च दम्भै
रविर्दशायां कुरुत् हिमांशोः ॥९॥
कुभोजनाछादनपानलाभं
कुस्त्रीप्रसङ्गं कुधनं विचित्रम् ।
दशा महीजस्य सुधाकरस्य
प्राप्ता दशायां परमोच्चणं च ॥१०॥
॥त्नार्थहस्त्यश्चसुवर्णला
कुतुम्बवृद्धिं प्रियतां च लोके ।
बौधी दशा चन्द्रदशाप्रवेशे
करोति मर्त्यं बहुवित्तलाभम् ॥११॥
नरेन्द्रपूजा द्विजदेवभक्ति
र्यशः प्रशंसा स्थिरमित्रलाभम् ।
पुण्यानि शुभ्राणि जयं परेषां
चान्द्र्यां यदा देवगुरोः प्रयाता ॥१२॥
लाभं पुरग्राममहाधनानां
विहारविद्यागमवाजिनां च ।
शौक्री दशा चन्द्रदशां प्रयाता
करोति तुष्टिं परमां सदैव ॥१३॥
शौराबलीसधितमुग्रलाभं
पापानुरागं व्यसनेन सिद्धिम् ।
सौरेर्दशा चन्द्रदशां प्रयाता
वेश्मानुरागं कुरुते प्रभूतिम् ॥१४॥
सौम्योदयोत्था हि दशा हिमांशो
र्यदा दशायां कुरुते प्रवेशम् ।
आर्थलाभं कृषिकर्मासिद्धिं
नृणां विधत्ते विविधांश्च भोगान् ॥१५॥
खलोदयेत्य हिमगोर्दशायां
खरोष्ट्रधर्मप्रभवं च लाभम् ।
कुशास्त्रसेवां प्रणयेन वैरं
स्ववान्धवैर्मित्रसुतैश्च नित्यम् ॥१६॥
दशा खरांशोर्धरणिसुतस्य
यदा दशायां कुरुते प्रवेशम् ।
तदा ज्वरश्लेष्मसुपित्तवाइतैः
पीडां विधत्ते क्षतजैर्विकारैः ॥१७॥
भौम्यां हिमांशोः सहसा प्रयाता
दशा दशायां कुनयेन लाभम् ।
द्युतानुरागं परदारसौख्यं
प्रपोषणं देवगुरुद्विजानाम् ॥१८॥
बौधी दशा भौमदशां प्रयाता
करोति सौख्यं वनदेशजातम् ।
आत्मप्रशंसाजनितं च तेषं
नृणां महायासभवं च सौख्यम् ॥१९॥
भौम्यां यदा देवपुरोहितम्
दशा प्रयाता त्वरितं दशायाम् ।
करोति दैन्यप्रभवं च लाभं
पराबलायाः स्वकलत्रहानिम् ॥२०॥
विधत्तेऽन्त्यजनेन मैत्रीं
क्वचिद्विषादं क्रचिदेव हर्षम् ।
परापराधोदवमाशकर्म
नृणां विधत्तेऽल्पफलां च वृद्धिम् ॥२१॥
गुरुप्रकोपं बहुगुह्यरोगं
पामाविचर्थिप्रभवां हि पीडाम् ।
सौरी दशा वक्रदशाविपाके
प्राप्ता सुवैरं निजबन्धुदारैः ॥२२॥
लाग्नी दशा भौमदशां प्रयाता
वास्यानि धत्ते परदाररागम् ।
क्वचिद्भयं पार्थिवजं च लाभं
क्वचित् क्वचिद्बन्धुजने प्रहर्षम् ॥२३॥
खलोदयोत्था च दशा दशायां
भौमस्य धत्ते स्वरुजाङ्गपीडाम् ।
मानापमानं निजलोकमध्ये
मिथ्या प्रबुद्धिं स्वपरैः सदैव ॥२४॥
रवेर्दशा सौम्यदशा प्रयाता
करोति मानं खलजं सदैव ।
लाभं विकृत्या परदेशतोऽन्यन्
मायापटुत्वं बहुकामसेवाम् ॥२५॥
॥।दशा प्रयाता
तदा विधत्ते नृपतेस्तु मानम् ।
आरोग्यतां साधुजनेन सख्यं
॥।ओगान् विचित्रान् द्विजदेवसेवाम् ॥२६॥
चनानी
क्लेशोदयः संशय एव पुंसाम् ।
यदा दशायां शशिजस्य याता
दशा धरित्रीतनयस्य नित्यम् ॥२७॥
विद्यागमं पार्थिवमानमोजो
जयं विवेकं प्रियतां च लोके ।
यदा दशा देवपुरोहितस्य
बौध्यां प्रयाता सततं विधत्ते ॥२८॥
मानं प्रशांसां नृपलोकसख्यं
विद्यार्जनं धर्ममतिं सदैव ।
शौक्री दशा सौम्यदशां प्रपना
करोति मुक्तामणिवित्तलाभन् ॥२९॥
व्रणप्रकोपं कलह कुबुद्धिं
विदेशवासं मतिसंक्षयं च ।
सौरी दशा सौम्यदशाविपाके
धत्ते नराणां बहुवित्तनाशम् ॥३०॥
यशः प्रतापं परमं च सौख्यम्
चतुष्पदाधादनभूमिलाभम् ।
लाग्नी दशा सौम्यविलग्नजाता
बौध्यां दशायां विविधं च भोगम् ॥३१॥
कुतुम्बवैरं पशवित्तनाशं
रोगान् विचित्रान् सततं च युद्धम् ।
दयोत्या तु दशा दशायां
लाग्नी विधत्ते शशिनन्दनस्य ॥३२॥
देवद्विजोत्यं कुरुते सुलाभं
प्रपोषणोत्यं विविधैः प्रपंचैः ।
दशा यदा देवपुरोहितस्य
भानोर्दशायां कुरुते विपाकम् ॥३३॥
नानार्थलाभं पशुपुत्रवृद्धिं
यशःप्रमोदं प्रभुतां सदैव ।
गुरोर्दशा रात्रीपतेर्दशायां
सौम्ख्यानि धत्ते विविधानि पुंसाम् ॥३४॥
कृच्छेण सिद्धिं बहुदैन्यमेव
स्वपक्षविद्वेषणतश्च लाभम् ।
वेश्यानुरागं कपटं नितान्तं
गुरोर्दशां भौमदशा प्रपन्ना ॥३५॥
हस्त्यश्चयानाशनभोजनानि
नानाविमित्राणि च मण्डनानि ।
बौधी दशा देवपुरोहितस्य
ददाति पुत्रान् विविधांश्च भृत्यान् ॥३६॥
नृपप्रसादं बहुवित्तलाभं
धर्मानुरागं विजयं रिपूणाम् ।
भृगोर्दशा जीवदशाविपाके
पुंसां विधत्ते सुबहुप्रशंसाम् ॥३७॥
नीचानुरागं
नीचेन सख्यं परधर्मसेवाम् ।
सौरेर्दशा जीवदशाविपाके
नृणां विधत्ते परवाम्चनानि ॥३८॥
लाग्नी दशा सद्ग्रहजा प्रयाता
गुरोर्दशायां कुरुते प्रहर्षम् ।
हस्त्यश्चलाभं नृपतेश्च मानं
विवेकतां धर्ममतिं सदैव ॥३९॥
पापोद्भवा लग्नदशा दशायां
जीवस्य धत्ते कलहेन लाभम् ।
संसेवया नीचजनस्य नित्यं
विद्वेषणं साधूजनस्य पुंसाम् ॥४०॥
लाभं खरोष्ट्रप्रभवं नराणां
कुधान्यजं चैव जनापवादम् ।
शौक्री दशा सौर्यदशाविपाके
करोति बालस्य तथा प्रमोहम् ॥४१॥
धर्मक्रीयाराधनमुन्त्तमानां
लाभं पुरक्षेत्रविलासिनीनाम् ।
भृगोर्दशा रात्रिप्तेर्दशायां
नृणां विधत्ते बहुवित्तजं च ॥४२॥
विदेशवासं परपक्षपूजां
कुधर्मसेवां कुजनानुरागम् ।
भृगोर्दशां भुमदशा प्रयाता
करोति वेश्याजनसंप्रयोगम् ॥४३॥
विद्यां विवेकं प्रभुतो च कीर्तिं
सुधर्मलब्धं नृपमेश्च मानभ ।
दशा भृगोः सौम्यदशाविपके
नृणां विधत्ते गत्तवार्जितलाभम् ॥४४॥
लाभं गृहक्षेत्रपुरास्वजातं
सुवर्णस्वनाम्बरयो जनानाम् ।
दशा भृगोर्जीवदशाविपके
करोति लाभं सुतदारसौख्यम् ॥४५॥
प्रमादनिद्राकलहं सुवेश
मालस्यतां देहकृतं च लाभम् ।
द्रोहं स्ववर्गेण परेण ॥
आति शौक्री रविजस्य पाके ॥४६॥
शौक्रीं दशां लग्नदशा प्रयाता
सौम्योद्भवायं कुरुतेऽर्थसिधिम् ।
प्रतापवृद्धिं प्रभुतां विवेकं
॥४७॥
पापोद्भवे वंचनतस्तु लाभं
दैन्येन पापं बहुगर्जितेन ।
कुकर्मणा सूधुनिपीडनेन
भृगोर्दशा लग्नदशाविपाके ॥४८॥
मान्दी दशा भानुर्दशाविपाके
करोति नाशं धनपुत्रसम्भवम् ।
क्लेशं प्रवासं भयमिष्टहानिं
देवद्विजानां परिपीडानं च ॥४९॥
मान्दी दशा चन्द्रदशाविपाके
आलस्यमार्तिं कुरुते सदैव ।
कुकर्मसिद्धिं कुजनस्य लाभं
कुकर्मसेवां सततं नराणाम् ॥५०॥
हृद्रोगदुःखं परवित्तहानिं
पोषणं चौरकृतं सदैव ।
शनिर्दशा भौमदशाविपाके
करोति वैरं निजबन्धुलोकैः ॥५१॥
बौधी दशा सौरदशां प्रयाता
वृद्धिं जनयेन्मनुष्यम् ।
पित्तानिलश्लेष्मकृतं विकार
मालस्यमुद्वेगमहाभयं च ॥५२॥
दशा शनेर्देवपुरोहितस्य
यदा दशायां परिपाकमेति ।
असद्वयं बान्धवबन्धनं च
तदा विधत्ते गुणविप्रकर्षम् ॥५३॥
शौक्री दशा सौरदशाविपाके
करोति पुंसां प्रभुतां कुवर्गे ।
नीचैर्विवादं बहुनीचलाभं
धर्मस्य नाशं परधर्मवृद्धिम् ॥५४॥
लाग्न्यां यदा सुर्यसुतो विपाकं
सौम्योद्भवायां कुरुतेऽतिगर्वम् ।
औद्धत्यमिष्टैः सह वंचनानि
नानापटुत्वं सततं नितान्तम् ॥५५॥
पापोद्भवायां रविजस्य जाता
ं कुरुते सुहानिम् ।
शिरोर्तिपित्तज्वरवेदनाश्च
बहुप्रकाराः परमं च शोकम् ॥५६॥
विलग्णि सूर्यदशाविपाके
करोति सौम्यांनियमं कु ।
असज्जनैः सङ्गामथाज्ञता च
विद्वेषतां बन्धुजनेन नित्यम् ॥५७॥
चान्द्र्यां प्रयाता प्रकरोति सिद्धिं
दशा विलग्नस्य तु सौम्यरूपा ।
मिष्टान्नपानानि पृथग्विधानि
शत्रुक्षयं पार्थिवलोकपूजाम् ॥५८॥
सौम्या दशा भूमिसुतस्य पाके
यदा विलग्नस्य करोति पाकम् ।
तदातिरोगं रुधिरोद्भवं स्या
द्विद्वेषता सर्वजनेन नित्यम् ॥५९॥
प्रतापं प्रणयं च लोके
विवेकविद्यागममर्थसिद्धिम् ।
विलग्नी दशा सौम्यदशाविपाके
सौम्या विधत्ते गुरुकामसेवाम् ॥६०॥
मन्त्रौवधीछादनभोजनानि
विलग्नी दशा जीवदशां प्रयाता ।
सुधनानि सौख्यं
सौख्यं नरेन्द्रेण विवेकतां च ॥६१॥
भृगोर्दशायां प्रकरोति लाग्नी
सौम्या दशा मानुसुखं विधत्ते ।
प्रियातिथित्वं प्रचुरांश्च भोगाम्
विवेकतां साधु नन सख्यम् ॥६२॥
पापादशा लग्नसमुद्भवा च
शनेर्दशायां कुरुते प्रमादम् ।
आलस्यमुद्वेगगुरुप्रकोपं
विमाननां पार्थिवजं भयं च ॥६३॥
पापा दशा लग्नसमुद्भवा च
रवेर्दशायां प्रकरोति हानिम् ।
सदा प्रमासं प्रचुरां च पीडाम् ॥६४॥
सुहृत्प्रकोपं कुरुते न सौख्यं
                                                                 ।
लाग्नी दशा चन्द्रदशां
पापा विधत्ते खलुबन्धवं च ॥६५॥
शिरोर्तिदाहज्वरमिष्टनाशं
भयं प्रकोपं कलहं सदैव ।
लाग्नी दशा भौमदशाविपाके
करोति नाशं निजबन्धवानाम् ॥६६॥
सौम्यां दशायां कुरुते प्रवा
लाग्नी दशा पापरतिं कुपूजाम् ।
पापातिपापानि यथा विधत्ते
गुरुद्विजप्रेषणजैर्विकारैः ॥६७॥
गुरोर्दशायामनुसंप्रविष्टा
दशा विलग्नस्य यदा च पापा ।
तदा धनैरात्मगृहोद्भवैश्च
करोति भोगान् विविधान् मनुष्यः ॥६८॥
दम्भेन धर्मं सभयेन चिन्त्यं
नृणां विधत्ते कुधिया च चारम् ।
लाग्नी दशा शुक्रदशाविपाके
पापा सुदैन्यं न कुतुम्बवृद्धिम् ॥६९॥
क्लेशान् विचित्रान् सुतदारवैरं
धनप्रणाशं प्रचुरां च वाणीम् ।
लाग्नी दशा मन्ददशाविपाके
पापा विधत्ते विविधांश्च रोगान् ॥७०॥
इति श्रीवृद्धयवनेऽन्तर्दशाध्यायः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP