संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय ८ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय ८ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य अष्टक्वर्गफलाध्यायः Translation - भाषांतर चन्द्रेषु सूर्यः स्वगृहात् क्रमेणपुनस्तथायाष्टकराङ्कसंस्थितः ।मन्दारयोश्चापि तथैव वाच्यःशुक्राद्रसास्तान्त्यगतश्च नित्यम् ॥१॥जीवाद्रसैकादशपंचनन्दैर्विद्धिस्थितो रात्रिपतेः प्रदिष्टः ।बुद्धङ्कसूर्येषु शरे च सौम्यात्स्वलग्नतो वृद्धियुगव्ययेषु ॥२॥ <सूर्यः>अर्कात् केन्द्रवह्नीशुभवाष्टसंस्थोगुरोर्व्ययाआष्टचतुष्टयथः ।आब्धिपंचाङ्कदशागरुद्रैःशुक्रात् कुजाल्लाभधना ॥३॥॥ष्टकेन्द्रैःस्यान्मन्दतो वह्निरसेपुसूर्यगः ॥४॥ <चन्द्रः>गुरोर्दशैकादशाषडन्त्यमःरवेस्त्रिषष्ठायदशेषुसंस्थितः ।लग्नात् प्रवृद्धा प्रथमे च शीतगोर्बुद्धा सितात् सूर्यरसाष्टलाभगः ॥५॥॥६॥ <भौमः>चन्द्राद् द्विषष्ठायदशाष्टवेदगोलग्नात् स्वषष्ठार्थ शुभदः प्रकीर्तिआद्याब्धिलाभार्थगजाङ्कवह्निभिःशुक्राच्छनेश्चन्द्रयुगायवित्तैः ॥७॥वस्वङ्कादक्रामसुसंस्थितश्चभात् स्वाश्च तन्वब्धिभवार्थ मङ्गलात् ।रन्ध्रेषु कासासुप एव सार्वक्षीगुरोश्च चन्द्राङ्ग गस्थः शुभदः ॥८॥ <बुधः>जीवः कुजाडस्त्रभवाष्तकेन्द्रगःसूर्याश्च दस्त्रादिनवाष्ट कीर्तितः ।स्वशून्यरामैः स्वगृहात् प्रकीर्तितोनवाशकायार्थशराङ्गगः सितात् ॥९॥चन्द्रान् मदाङ्केषुधनायगः सदाशनैश्चराद्वह्निरसेषुभास्करैः ॥१०॥वधान् नवव्योमयुगेन्दुमार्गणरुद्रतर्कैः शुभदः प्रकीर्तितः ।लग्नान् नवाशाब्धिपरेषुलोचनसूर्यागरामैः क्रमशो विधेयः ॥११॥ <जीवः>शुक्रो विलग्नाच्छशिवित्तवह्नियुगेषुनन्दायगश्च इष्टः ।चन्द्रात् ससूर्यः सदिशाः स्वसद्यतस्त्रिवेदपंचाष्टदिगङ्कलाभगः ॥१२॥शने रवेरष्टदिवाकरायैर्गुरोर्नवव्योमभवाष्टपंचगः ।बुधाद् गुणेष्वङ्कदशाङ्गसंस्थितोभौमाद भवेष्वग्निरसाङ्कसूर्यगः ॥१३॥ <शुक्रः>स्यात् सूर्यजो वह्निरसेषुसंगतःससूर्यदिग्गो धरणिसुतस्य ।सूर्याद् धनयाष्टचतुष्टये चशुक्राद्रसार्कायगतः सुभद्रः ॥१४॥त्रिषष्ठलाभेषु निशाधिनाथाल्लग्नात् सवृद्धीन्दुदशाब्धिभिश्च ।जीवाच्छराङ्गव्ययलाभसंस्थोबुधाद् व्ययाङ्काङ्गदिशाङ्गनागतः ॥१५॥ <शनिः>विन्दूनि रेखश्च विमिश्रयित्वा ।सप्तावशेषेण मितो ग्रहश्चस्वाष्टांशसंज्ञं फलमादधाति ॥१६॥इन्यात् फले सोष्तकवर्गनाचजंफलं बलिष्टो यदि तस्य पार्श्वगः ।अतोऽन्यथा तस्य फलं निहन्यतेतेनैव साम्ये फलयोर्निसर्गजम् ॥१७॥रेखाश्रितस्तीक्ष्णकरः प्रगल्भंकरोति मर्त्यं गजवाजियुक्तम् ।मित्राङ्गसाधुं जनसंप्रयुक्तंस्थानेऽद्यके रोगविवर्जितं च ॥१८॥द्वितीयसंस्थः प्रचुरप्रतापंप्रभूतवित्तिं जितशत्रुपक्षं ।विद्यानुरक्तं नृपतेरभीष्टंप्रशान्तचिन्तं कुरुते सदैव ॥१९॥तृतीयगः सत्यपरं प्रशान्तंव्यचेतपापं सुजनैः सुपूज्यम् ।हिरण्यपुजार्थविवेनरं प्रसूते सततं सुशीलम् ॥२०॥चतुर्थगः सर्वजनस्य पूज्यंकरोति मर्त्यं सुदृढं सुशीलम् ।पूज्यं सुभगं प्रशस्तंधर्मान्वितं दानपरं प्रसूते ॥२१॥करोति मर्त्यं खलु पंचमस्योनरं रविर्गोमहिषोष्ट्रयुक्तम् ।कुलप्रधान नृपतेरभीष्टंसुसंयतं ब्रह्मणदेवभक्तम् ॥२२॥हतारिपक्षं प्रकरोति षष्ठेस्थितो विवस्वान् प्रथितं नृलोके ।स्त्रीणामभीष्टं गुरुदेवभक्तं॥२३॥स्त्रीलाभयुक्तं खलु सप्तमस्थोनरं विधत्ते खलु तीक्ष्णरश्मिः ।उदारचिन्तं प्रभुतासमेतंमिज्ञानशीलं समरप्रचण्डम् ॥२४॥स्थानेऽष्टमे पुत्रधनैः समेतंसुरक्तपित्ताधिकमप्रमेयम् ।विख्यातकीर्तिं सततं सुदान्तंहतारिपक्षं प्रकरोति भानुः ॥२५॥बिन्दुस्थितोऽर्कः प्रकरोति पापंस्थानेऽद्यके दुर्जनमुग्ररोगम् ।कृशं कृतघ्नं परदाररक्तंविवेकहीनं प्रियसाहसं च ॥२६॥मूर्खं निकृष्टं तु तथा द्वितीयेकुमीत्ररक्तं धनधान्यहीनम् ।शिरोतिदाहजतरपित्तमुख्यैःप्रपीडितं वक्त्रभवैश्च रोगैः ॥२७॥तयेन हीनं पुरुषं तृतीयेसुतार्थधान्यैः परिवर्जितं च ।सुदाभिभूतं बहुशत्रुपक्षंक्रियाविहीनं विफलं प्रसूते ॥२८॥निन्द्यं कृतघ्नं परदेशरक्तंकरोति मर्त्यं नियतं चतुर्थे ।इष्टैर्वियुक्तं परदाररक्तंपराजितं सर्वजनैः सदैव ॥२९॥करोति भानुः खलु पंचमस्थित्तोसुग्वैरदारिद्र्यभयेन पीडितम् ।दौर्भाग्यवन्तं परदारभाषणंनरं भयाक्लीवमलं सुनीष्टरम् ॥३०॥षष्थे स्थितः शत्रुगणैः पराजितंनरं प्रसूतेऽधमकर्मसेवकम् ।मायासमेतं मलिनं मलील्लुचंच्युतं स्वधर्माद्गतसत्त्वमातुरम् ॥३१॥श्रिया विहीनं विकृतं गतत्रपंपरान्नवस्त्रार्थसमीडकं सदा ।करोति भानुः खलु सप्तमस्थितःप्रपंचशीलं कुबलं सुनिष्ठरम् ॥३२॥स्थानेऽष्टमे तीक्ष्णमयुखमालीनरं विधत्ते बहुपापचेष्टम् ।इष्टैर्वियुक्तं परदाररक्तंपापात्मकं दुःखयुक्तं करोति ॥३३॥इति रवेरष्टकवर्गफलम् ॥रेखाथितोऽड्ये हिमरश्मिमालीस्थाने विधत्ते सुभगं मनुष्यम् ।प्रियं नृपाणां गुरुविप्रभक्तंतीर्थाश्रयं सर्वजनोपसेव्यम् ॥३४॥हस्त्यश्चयानैः सहितं द्वितीयेवैडुर्यमुक्तामणिभिस्तथैव ।नरं सुसौख्यैः सहितं प्रगल्भंप्रशान्तचिन्तं प्रणयान्वितं च ॥३५॥चन्द्रस्तृतीये कुरुते सनाथंनरं विनीतं बहुधर्मभाजम् ।श्रिया युतं सर्वगुणोपपन्नंधत्ते सदा बन्धुजनस्य पूज्यम् ॥३६॥स्थाने चतुर्थे प्रकरोति मान्यंनरं प्रसिद्धं विविधार्थयुक्तम् ।तडागकूपाश्रयरक्तचिन्तंमहामनुष्यं सुतसौख्ययुक्तम् ॥३७॥विद्याविनीतं सुविवेकयुक्तंनरं प्रसूते बहुभागभाजम् ।क्षपाधिनाथः खलु पंचमस्थःप्रियातिथिं सर्वसहं सुविज्ञम् ॥३८॥षष्ठे सुरूपं सुभगं मनोज्ञंकरोति चन्द्रः सुतदारयुक्तम् ।धमाश्रयं शास्त्ररतं विनीतंनरेन्द्रपूज्यं बहुमानभाजम् ॥३९॥करोति चन्द्रः खलु सप्तमस्थःप्रभासमेतं सचिवं सुशीलम् ।व्रतोपवासादिरतं विधिज्ञंमनोज्ञनारिदयितं सदैव ॥४०॥स्थानेऽष्टमे सौख्यहिरण्ययुक्तंविद्यान्वितं सत्यपरं प्रगल्भम् ।करोति चन्द्रोऽपतितं मनुष्यंप्रियातिथिं ब्राह्मणवल्लभं च ॥४१॥स्थानेऽद्यके विन्दुगतः शशाङ्कःसरोगदेहं कुरुते मनुष्यम् ।पपानुरक्तं स्वजनैर्विमुक्तंदीमं कृशं सत्यविहीनमेव ॥४२॥करोति चन्द्रो नियतं द्वितीयेनरं कृतघ्नं सुकृतं सुदीनम् ।अभूतश्रत्रुं प्रभया विहीनंविवर्जितं बन्धुजनेन नित्यम् ॥४३॥सांपीडितं भूपतिना सदैवमहाव्ययैः संयुतमुग्ररोगम् ।कफानिलाभ्यां परिपीडितं चचन्द्रस्तृतीये कुरुते मनुष्यम् ॥४४॥लुसङ्गतं सत्यविहीनमेवसौख्येन हीनं बहुरोगयुक्तम् ।सुदुर्भगं पानरतं सदैवचन्द्रचतुर्थे कुरुते मनुष्यम् ॥४५॥प्रणष्टशीलं प्रचुरारिपक्षंनिशाधिनाथः खलु पंचमे च ।करोति दीनं व्यय्सनैः समेतंविवर्जितं भूपतिमानदानैः ॥४६॥विदेशसेवाविरतं कृतघ्नंषष्ठेऽरिवर्गैर्विजितं वृतान्तम् ।नित्यं मनुष्यं नृपपीडितं चकलत्रयानादिभिर्विप्रमुक्तम् ॥४७॥स्यात् सप्तमे वैरमनल्पमुग्रंचन्द्रे रुजं भूपमलिम्लुचोत्थम् ।रोगं नराणां जठरे प्रभूतंधनस्य नाशं प्रियविप्रयोगम् ॥४८॥चन्द्रोऽष्टमेऽनिष्तफलं विधत्तेशोकं धनार्तिं विविधं च दुःखम् ।शीलच्युतं वासनवित्तनाशंमहाभयं दैन्यमनर्थमुग्रम् ॥४९॥इति चन्द्राष्टकवर्गफलम् ॥रेखास्थितोऽद्ये क्षितिवित्तलाभंकरोति भौमः पशुवृद्धिमेव ।सौख्यं च भोगं विविधाश्च पूजामहाजनोत्थं सततं सखानि ॥५०॥आरोग्यतां मनोविकाशं प्रियतां च लोके ।समुज्ञतिं शत्रुविनाशमेवकरोति भौमो नियतं द्वितीये ॥५१॥खरोष्ट्रयानानि पृथग्विधानिनृणां विधत्ते क्षितिजस्तृतीये ।विभूतिप्रभ्युव्रतिमिष्टलाभंभूपप्रषादं विविधं च नित्यम् ॥५२॥भौमश्चतुर्थे कुरुते प्रतापंसौभाग्यसौख्याभ्युदय नितान्तम् ।प्रियातिथित्वं सुरविप्रभक्तिंनरेन्द्रमानं विविधं च लाभम् ॥५३॥सुतीर्थलाभं खलु पंचमस्थःक्षोणीसुतो यच्छति मानवानाम् ।हिरण्यलाभं बहुमानसौख्यंव्याधेर्विनाशं खलु उन्नतिं च ॥५४॥षष्ठेऽरिनाशं कुरुते महीजःसमागमं बन्धुजनेन नित्यम् ।वस्त्राणि शय्यासनभाजनानिधर्मार्थसिद्धिं सततं नराणाम् ॥५५॥क्षोणिसुतो यच्छति सप्तमस्थोविश्ज्ञानविद्यागममिष्टलाभम् ।शय्यासनाछादनभोजनानिरतोपलब्धिं जगतीसुलाभम् ॥५६॥भौमोऽष्टमे भूतिमथोन्नतिं चनृणां विधत्ते महिमामनन्तां ।वाणिज्यलाभं कृषिकर्मसिद्धिंप्रियाप्तिमत्युज्ञतिमेव पुंसां ॥५७॥बिन्धुस्थितो भूतनयो यदाद्येस्थाने दशां यच्छति मानवानां ।तदार्थहानिं गदपृष्ठरोगान्मतेर्विनाशं कुजनेन सौख्यम् ॥५८॥शिरोर्तिदाहं ज्वरतापमुग्रंप्रमोषणं चौरकृतं सदैव ।प्रियाव्योगं मतिमित्रनाशंभौमो द्वितीये कुरुते नराणाम् ॥५९॥भौमस्तृतीये विनयार्थलौल्यंधत्ते नराणां च तथापनादम् ।कुबुद्धिभिः सङ्गमुग्रवैरंपराजयं प्राणभृतां सदैव ॥६०॥विवादवैराणि पृ॥।म्विधानिभौमचतुर्थे कुरुते नराणाम् ।द्यूतं च वेश्माव्यसनं महान्तंपराजयं साध्वसमेसं हानिम् ॥६१॥असौख्यमोजः क्षयवित्तनाशंपुत्रार्थहानिं सुतरां वियोगम् ।करोति भौमः खलु पंचमस्थःप्रतापहानिं सततं नराणाम् ॥६२॥चतुष्पदव्यालसरीसृपोत्थंभयं विधत्ते क्षितिजो नराणाम् ।सदाविधानं खलु षष्ठसंस्थोनरेन्द्रपीडां खलसङ्गमं च ॥६३॥व्ययं विरागं भयमिष्टवैरंभौमो विधत्ते खलु सप्तमस्थः ।जिह्वाक्षिरोगोद्भवमेव दुःखंसदा नराणां विषयप्रलौल्यम् ॥६४॥पराभवं मृत्युसमांश्च रोगान्कलत्रहानिं परवंचनानि ।भौमोऽष्टमस्थः कुरुते नराणांशस्त्राभिघातं परतः स्वतो वा ॥६५॥इति भौमाष्टकवर्गफलम् ॥रेखास्थितः सोमसुतो यदाद्येस्थाने तदा शीलधनं विधत्ते ।विद्याविवेकादिभिः संप्रयुक्तंप्रभूतमित्रं विगतारिपक्षम् ॥६६॥स्थानस्थितं देवगुरुप्रसक्तंविज्ञानशीलं बहुखानपानम् ।स्थाने द्वितीये शशिजो विधत्तेनरं सुरूपं सुभगं सुकान्तम् ॥६७॥तृतीयगः सोमसुतः करोतिप्रसन्नवाव्यं नृपलोकपूज्यम् ।नरं विधिज्ञं सुभगं मनोज्ञंहतारिपक्षं बहुधर्मभाजम् ॥६८॥बुधश्चतुर्थे कुरुते सुरूपंप्रियातिथिं बन्धुजनस्य मान्यम् ।मेधाविनं शास्त्ररतिं विधिज्ञंव्रतोपासादिरतं सदैव ॥६९॥करोति सौम्यः खलु पंचमस्थोनरं नितान्तं नृपतेरभीष्टम् ।आरामविप्रादिविहारभाजंचिन्तान्वितं भक्तिपरं द्विजानाम् ॥७०॥षष्ठेऽरिनाशं प्रकरोति सौम्योनृणां पुरग्रामकृतं च लाभम् ।देशाधिपत्यं प्रचुरान्नपानंयशःप्रतापं विजयं सदैव ॥७१॥कलत्रलाभं रतिभोगसौख्यंकलत्रसंस्थः प्रकरोति सौम्यः ।तीर्थाश्रयं सौख्यसमृद्धियुक्तंप्रसन्नमूर्तिं सततं सुशीलम् ॥७२॥चतुष्पदाछादनविनयुक्तंनरं प्रसूते शशिजोऽष्टमस्थः ।कलत्रपुत्रोद्भवसौख्ययुक्तंसर्वत्र पूज्यं महिमासमेतम् ॥७३॥विन्दुस्थितः सोमसुतोऽतिपापंकरोति मर्त्यं प्रथमे खलं च ।मामान्वितं बान्धवविप्रयुक्तंसदा कुशीलं विनयेन हीनम् ॥७४॥प्रभूतदुःखं सुजनैर्विहीनंपराभिभूतं कठिनं कृतघ्नम् ।द्वितीयसंस्थो हिनरश्मिपुत्रोनरं प्रसूते बहुपापयुक्तम् ॥७५॥तृतीयगः पुत्रकलत्रनाशंकरोति सौम्यः सततं कुचैलम् ।तेजोविहीनं मलदग्धदेहंसंपीडितं भूपतिना सदैव ॥७६॥चतुर्थगः शीतकरस्य पुत्रःप्रभूतदुःखं कुरुते मनुष्यम् ।शीलेन हीनं विनयेन हीनंसत्त्वात्मिकं चैव विवर्जितं च ॥७७॥नष्टात्मजं नष्टधनं कुचैलंरोगाभिभूतं परतर्ककं च ।परैर्जितं देवगुरुप्रमुक्तंकरोति सौम्यः खलु पंचमस्थः ॥७८॥षष्ठस्थितः शीतकरस्य पुत्रोनरं प्रसूते धनवर्जितं च ।पराजितं शत्रुजनेन नित्यंविद्याविहीनं विनयेन मुक्तम् ॥७९॥सौम्यो नरं सप्तमगो विधत्तेभोगेन हीनं परदाररक्तम् ।जनापवादेन युतं सुदीनंकुबुद्धिभाजं सुभयं सदैव ॥८०॥द्यूतप्रसक्तं गणिकासु रक्तंरजोधिकं सत्यधनेन हीनम् ।सौम्योऽष्टमस्थः सभयं विहीनंकरोति मर्त्यं सततं नृशंसम् ॥८१॥इति बुधाष्टकव्र्गफलम् ॥रेखागतो देवगुरुः प्रसूतेनरं विदग्धं विनयोपयुक्तम् ।आद्ये महाबुद्धिधनान्वितं चधर्मध्वजं ब्राह्मणवल्लभं च ॥८२॥द्वितीयगः सौम्ययुतं प्रसूतेनरं सुरेज्यः सुभगं मनोज्ञम् ।हस्त्यग्वयानादिधिया समेतंनरेन्द्रपूज्यं प्रथितं नृलोके ॥८३॥तृतीयसंस्थः कुरुते प्रधानंसुरेज्यम्न्त्री बहुपुत्रपौत्रम् ।दयान्वितं जन्तुहितेषु युक्तंकुलप्रधानं सततं सुशीलम् ॥८४॥हिरण्यवित्तार्थसुबुद्धियुक्तंकरोति मर्त्यं त्रिदशेन्द्रमन्त्री ।चतुर्थसंस्थश्चतुरं धनाढ्यंविवेकिनं बान्धवसंमतं च ॥८५॥करोति जीवः खलु पंचमस्थोनरं नितान्तं नृपतेरभीष्टम् ।पुत्रान्वितं प्रितिकरं नराणांसदा सुशीलं बहुधर्मयुक्तम् ॥८६॥हतारिपक्षं नियतं प्रसूतेनरं सुरेज्यः खलु षष्ठसंस्थः ।हृष्टं सुपुष्टं प्रणतं गुरूणांप्रशान्तवैरं प्रथितं प्रियं च ॥८७॥अभीष्टनारिरतसंप्रहृष्टंकरोति मर्त्यं सततं सुरेज्यः ।श्रियान्वितं देवगुरुप्रसक्तंसुभाशितज्ञं सुजनैः समेतम् ॥८८॥जीवोऽष्टमस्थः कुरुते विदग्धंप्रियातिथिं सर्वकलाउ दक्षम् ।नरं नृपेज्यं बहुशास्त्रलुब्धंपराक्रमप्राणसमन्वितं च ॥८९॥बिन्दुस्थितो देवगुरुः प्रसूतेनरं नृशंसं बहुदुःखयुक्तम् ।लुब्धं कृत्घ्नं मलिनस्वभावंविहीनसत्त्वं बहुसाहसं च ॥९०॥द्वितीयगो भूमिमतस्करोत्यंभ्यं सुरेज्यः कुरुते नराणाम् ।नृशंसतां रोगमनिष्टसंस्थंप्रभूतदुःखं दयितावधं च ॥९१॥तृतीयसंस्थे त्रिदशेशपूज्येविहीनवित्तः सरुजो मनुष्यः ।भवेत् कुमित्रः परदाररक्तोदौर्भाग्ययुक्तो ह्यलसः कृतघ्नः ॥९२॥चतुर्थगो देवगुरुः प्रसूतेविहीनवित्तं बहुशत्रुगम्यम् ।विचर्थिकाद्यैः परिपीडितं चनरं सुमायं कुदिलं खलं च ॥९३॥पामाज्वरार्तं पर्दाररक्तंनरं प्रसूते सुरराजपूज्यः ।प्रभूतशोकं सततं सुपापंचौरं महाकष्टसमन्वितं च ॥९४॥षष्ठे सुरेज्यः कुरुतेऽक्षिरोगैःसंपीडितं म्लेच्छसमानरूपम् ।प्रपंचशीलं सुतदारहीनंधर्मक्रियाहीनमनन्तशोकम् ॥९५॥करोति जीवः खलु सप्त्मस्थोनरं कफादिप्रचुरं सदैव ।हिक्काज्वरार्तिं पृथुमानहीनंदीनं जनैर्निन्दितमल्पसौख्यम् ॥९६॥स्थानेऽष्टमे देवगुरुः प्रसूतेसदातिगर्वं कुटिलं मनुष्यम् ।द्वेष्यं नृपाणां स्वकुलस्य मध्येगतप्रतापं विकृतं सदैव ॥९७॥इति जीवाष्टक्वर्गफलम् ॥रेखाश्रितो दैत्यगुरुः प्रसूतेनरं मनोज्ञं सुभगं सुशीलम् ।जितेन्रियं दानपरं मनोज्ञंधर्मानुरक्तं प्रचुरान्नपानम् ॥९८॥द्वितीयगः काव्यसुतः प्रसूतेनरं विधिज्ञं धनिकं च ।स्वधर्मशीलं विनयेन युक्तंप्रभासमेतं जनवल्लभं च ॥९९॥तृतीयसंस्थो बहुभूषणाढ्यंनरं प्रसूते सततं प्रगल्भम् ।मेधाविनं धर्मपरं विनीतंदेवद्विजानामनुवल्लभं च ॥१००॥शुक्रचरुर्थे कुरुते धनाढ्यंसद्भोजनाछादनपानयुक्तम् ।वैडूर्यमुक्ताफलरत्नलाभैःसंतुष्टचिन्तं सततं मनुष्यम् ॥१०१॥सुतीर्थयानादिकपुत्रलाभैर्युक्तं नरं दैत्यगुरुर्विधत्ते ।चतुष्पदाढ्यं खलु पंचमस्थःप्रियं नृलोके परमं प्रधानम् ॥१०२॥शुक्रस्तु षष्ठे कुरुते मनुष्यंविद्यासु निष्ठं बहुमन्त्रभाजम् ।स्त्रीवित्तलाभः सहितं सुरूपंविपक्षणं सर्वफलासु दक्षम् ॥१०३॥शुक्रो विधत्ते खलु सप्तमस्थोनरं निप्तान्तं सुरतप्रगल्भम् ।सकुङ्कुमाछादनभोगभाजंनरेन्द्रपूजासहितं सदैव ॥१०४॥स्थानेऽष्टमे दैत्यगुरुः प्रसूतेनरं नितान्तं सुनयेन युक्तम् ।प्रभासमेतं बहुकीर्तिभाजंसुकर्मिणं धर्मसमन्वितं च ॥१०५॥विन्दुस्थितो दैत्यगुरुः प्रसूतेनरं सुपापं बहुरोगयुक्तम् ।नृपाभिभूतं सुतवित्तहीनंविवर्जितं बान्धवसज्जनैश्च ॥१०६॥शुक्रो द्वितीये सरुजं विधत्तेप्रतापहीनं बहुपापयुक्तम् ।सदा विरक्तं स्वकुतुम्बवर्गेशोकाभिभूतं रतिलालसं च ॥१०७॥तृतीयसंस्थः कुरुते नृशंसंशुक्रः सदा रोगविथर्चिकैश्च ।नराभिभूतं अततं कुचैलंज्वरार्दितं मानधनेन हीनम् ॥१०८॥चतुर्थगः शोकयुतं प्रसूतेनरं महाव्याधियुतं दरिद्रम् ।चतुष्पदाछादनवर्जितं चप्रेष्यं खलं पार्थिवमानहीनम् ॥१०९॥करोति शुक्रः खलु पंचमस्थःसदा दरिद्रं विकृतं मनुष्यम् ।सुतार्थहीनं व्यसनैः समेतंकुमित्रसङ्गेन युतं नितान्तम् ॥११०॥षष्ठे सितः सर्वजनाभिभूतंनरं प्रसूते प्रणयेन हीनम् ।विवर्जितं सत्यसुखेन नित्यंविदेशरक्तं परतर्ककं च ॥१११॥करोति शुक्रः खलु सप्तमस्थोवातादिदोषैः सहितं मनुष्यम् ।नृशंसचेष्टं व्यसनाभिभूतंसदा कृतघ्नं मतिवर्जितं च ॥११२॥शुक्रोऽष्टमस्यः कुरुते विशीलंनरं महाव्याधियुतं कृतघ्नम् ।नित्यं विहीनं बहुपापरक्तंचिन्तान्वितं वैरयुतं सदैव ॥११३॥इति शुक्राष्टकवर्गफलम् ॥रेखास्थितः सूर्यसुतः प्रसूतेस्थिरस्वभावं सुभगं मनुष्यम् ।प्रियान्वितं सर्वजनैः प्रधानंविनीतवेषाभरणं सदैव ॥११४॥द्वितीयसंस्थो रविजः प्रसूतेनरं नितान्तं बहुमानभाजम् ।पराक्रमोत्साहधनेन युक्तंतीर्थानुरक्तं लरयातनां च ॥११५॥सौरस्तृतीयः कुरुते प्रधानंनरं सुविद्यागमशास्त्रलुब्धम् ।खरोष्ट्रलोहाढ्यमनल्पपुत्रंनरं सदा शान्तमतिप्रभवं ॥११६॥चतुर्थगः सूर्यसुतः प्रसूतनरं सुताढ्यं बहुखानपानम् ।स्नग्गन्धभूपादिसुभोगभाजंप्रभूतसख्यर्चवराश्चयुक्तम् ॥११७॥करोति मन्दः खलु पंचमस्थोनरं कुलीनं सुखिनं च नित्यम् ।श्रिया समेतं विगतारिपक्षंनृपाश्रितं श्रीदयितं सदैव ॥११८॥षष्ठेऽर्कजः शीलधनं प्रसूतेनरं विधिज्ञं सुरविप्रयुक्तम् ।पश्चात् प्रतिज्ञं कनकार्थलाभंमहाप्रभावं नरनाथपूज्यम् ॥११९॥शनैश्चरः सप्तमगो विधत्तेनरं धनाढ्यं प्रमदाप्रधानम् ।विचक्षणं कीर्तिकरं मनोज्ञंकलासु दक्षं प्रथितं नृलोके ॥१२०॥स्थितेऽष्टमे सूर्यसुतः प्रसूतेविचित्रमाल्याभरणं मनुष्यम् ।हिरण्य॥विद्याविनीतं द्विजदेवभक्तम् ॥१२१॥विन्दुस्थितः सूर्यसुतश्च सूतेवृथाश्रमं पापरतं मनुष्यम् ।स्वबान्धवैस्त्यत्कमनल्पदुःखंदीनं नृशंसं नृपपीडितं च ॥१२२॥द्वितीयसंस्थः कुरुतेऽर्कपुत्रःपापात्मकं पापसुखं मनुष्यम् ।कुक्षिस्यरोगैः परिपीडिताङ्गंचलस्वभावं सुमहाकर्दयम् ॥१२३॥तृतीयसंस्थोऽर्कसुतः प्रसूतेनरं नृशंसं वितथक्रियं च ।बह्वाशिनं सत्यविहीनमुग्रंचौरं खलं सर्वजनाभिभूतम् ॥१२४॥चतुर्थगः सूर्यसुतः प्रसूते॥। परूजं मनुष्यम् ।विहीनवर्णं गतबुद्धिवीर्यंप्रेष्यं खलं दीनमनर्थयुक्तम् ॥१२५॥सौरः सदा पंचमगः प्रसूतेविरक्तपौरं मलिनवभावम् ।द्वेषां कुबुद्धिं हतकर्मसिद्धिंक्षुद्रोगशस्त्रोपहतं नृशंसम् ॥१२६॥षष्ठे शनिः पापयुतं प्रभावहीनं परदाररक्तम् ।गुदाक्षिरोगोपहतं सशोकंप्रभूतवैरं प्रियसाध्वसं च ॥१२७॥सौरो विधत्ते खलु सप्तमस्थोनरं क्रियाहीनमनल्पवैरम् ।सदा सरोगं निजबन्धुहीनं॥विवर्जितं च ॥१२८॥सौरोऽष्टमस्थः कुरुते दरिद्रंनरं सरोगं बहुनीचरक्तम् ।पित्तोद्भवैः पीडितमुग्ररोगंविदेशभाजं परतर्ककं च ॥१२९॥इति शनेरष्टकवर्गफलम्इति श्रीवृद्धयवनेऽष्ट्कवर्गफलानि ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP