पूर्वखण्डः - अध्याय ३६

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


लग्नेऽर्कदृष्ते सुनृशंसचेष्टो
भवेन्मनुष्यः पुरुषस्वभावः ।
सदाभिमानी नतिधर्मसंस्थो
रुजान्वितो द्वेषरतः सुभीतः ॥१॥
चन्द्रेक्षिते धर्मपरो मनुष्यो
भवेद्विलग्ने वरयानभोगी ।
स्त्रीभोगभोगी प्रभया समेतः
प्रियंवदः शास्त्रकलानुरक्तः ॥२॥
कुजेक्षिते श्लेष्मविकारदोषैः
संपीड्यते रक्तसमुद्भवैश्च ।
लग्ने मनुष्यः परिभूतदेहः
सदातुरस्त्राससमन्वितश्च ॥३॥
बुधेन दृष्टे सुरसत्यभागी॥।
भवेन्नरः सत्यपरः सुशीलः ।
नरेन्द्रपूज्यः प्रथितः पृथिव्यां
प्रियंवदो दानप्रोऽल्पकायः ॥४॥
लग्ने सुरेज्येन विलोकिते च
भवेन्नरो रत्नगजाश्चभाजः ।
नानार्थलाभैः सहितः प्रग्ल्भः
प्रधानसेव्यो द्विजदेवभक्तः ॥५॥
शुक्रेक्षिते सत्यपरो मनुष्यो
भवेन्नरः पुण्यपरः कृतज्ञः ।
यज्या विवेकी सुदृढ्यप्रतापी
हन्ता विपक्षः प्रणतः प्रसन्नः ॥६॥
सौरेण दृष्टेऽल्पसुखो विलग्ने
भवेन्मनुष्यो भयसङ्कुलात्मा ।
रोगान्वितः स्वल्पसु।
नीचानुरक्तः सततं कृतघ्नः ॥७॥
इति स्रीवृद्धयवने लग्नदर्शनचारः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP