पूर्वखण्डः - अध्याय २

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


इनः पतङ्गे मिहिरोऽथ हिंसो
मित्रोऽर्यमाख्यो द्युमणिः खरांशुः ।
शूरः स्वगस्तीक्ष्णमयूखमाली
दिनाधिपो व्रध्नहतिं प्रदिष्टः ॥१॥
शशी शशाङ्कः शशभृविशेशः
सामुद्रकः शीतकरो दरेज्यः ।
नक्षत्रनाथः कुमुदावबोधी
विधुहिमांशुः शशलांछनश्च ॥२॥
वक्रः कुजो भूमिसुतस्तरीयो
राक्तङ्गभूमिर्लोहितगात्रकः स्यात् ।
क्षुधातुरः सीक्षिधरो महीजः
कीनांशकान्तः कविवल्लभश्च ॥३॥
सर्वश्ज्ञभोजी विषुधो बुधश्च
चान्द्रीः प्रणेता प्रियकृद्विरागी ।
स्याद्धौर्तिकः काशजजीयितज्ञो
विधानकारी प्रणतः सुतालः ॥४॥
जीवोऽङ्गिरा देवगुरुर्मतिज्ञो
वक्ता च वाचस्पतिप्रमेयः ।
पीताम्बरः पीतविधिः सुरेष्टः
संसिद्धिकर्मा पुरुहूतमन्त्री ॥५॥
शुक्रोऽस्फुजिदैत्यगुरुः सुधामा
काव्यो भृगुर्वीजनिधिः प्रणेता ।
महोशना संस्मृतिकJ कृतज्ञः
कलावितानप्रबलः सुजात्यः ॥६॥
कोणः शनिर्भ्रुरिति प्रसिद्धः
कृष्णो यमो मन्द हतङ्कं काली ।
सौरिः सुतीव्रस्तृणकः करालः
प्रतीतकर्माध्ययनप्रदिष्टः ॥७॥
रक्तो रविः शीतकरः सितश्च
रक्तः कुजः सोमसुतस्तु पीतः ।
हरिद्रवर्णस्त्रिदशाधिपेज्यः
शुक्रः सितः सूर्यसुतोऽसितश्च ॥८॥
सहस्त्ररश्मिर्यवनेषु जातो
विभावरीशस्तु तथा कलिङ्गे ।
अवन्तिदेशोद्भव एव भौमः
कौशाम्बिकेयो हिमरश्मिपुत्रः ॥९॥
सिन्धौ प्रलायस्त्रिदएशेशमन्त्री
जनान्त्यभूर्भोजकटे भृगोश्च ।
सौराष्ट्रजस्तिक्ष्णकरस्य पुत्रो
राहुमेहावर्वरसंभवश्च ॥१०॥
।सुतोऽथ राःऊः
॥शशाङ्को विबुधः सुरेज्यः ।
प्रागाधिनाथाः क्रमशो विचिन्त्या
दिग्द्वारहेन्वर्थमलं विचिन्त्याः ॥११॥
पापो रविः सूर्यसुतश्च वक्रः
क्षीणाः शशी तत्सहितो बुधश्च ।
सौम्यो गुरुः सोमसुतः शशाङ्कः
शुक्रश्च सर्वे प्रभवन्ति तुङ्गे ॥१२॥
शुक्रः शशाङ्कौ युवती प्रदिष्टौ
नपुंसकौ सूर्यसुतो बुधश्च ।
जीवार्कभौमाः पुरुषाः प्रदिष्टाः
षड्वर्गशुद्धाः पुरुषाः समग्राः ॥१३॥
धृग्वेदानाथस्त्रिदशाधिपेज्यो
यजुर्विनेता भृगुनन्दनश्च ।
साम्नां तथा भूतनयः प्रसिद्धो
ह्यथिर्वदेतस्य शशाङ्कपुत्रः ॥१४॥
शुक्रामरेज्यौ द्विजलोकनथौ
दिवाकरारौ पृथिवीपतीनाम् ।
वैश्याधिपः शीतकरश्च सौम्यः
शूद्राधिनाथो रविजः परेषाम् ॥१५॥
स्वतुङ्गमित्रय गृहे नवांशे
सौम्येक्षितानां बलमेकमुक्तम् ।
स्त्रीसध्यगाभ्यं शशिभर्गवाभ्यां
पुंक्षेत्रगानां च तथा परेषाम् ॥१६॥
काष्टाबलं स्यासुचिनिर्मलाभ्यां
सूर्यारयोर्याम्यदिशां तथैव ।
सूर्यात्मजस्यैव कलत्रगस्य
शुक्रय चन्द्रय तथोत्तरस्याम् ॥१७॥
चेष्टाबलं भास्कररात्रिपाभ्यां
मृगादिगाभ्यां कुटिले परेषाम् ।
गर्वर्कशुक्रा दिवसे वरिष्ठाः
सदा बुधोऽन्ये प्रभवन्ति रात्रौ ॥१८॥
स्ववर्षमासोदयवासरेषु
सौम्याः सितेऽन्ये च भवन्ति कृष्णे ।
सूर्यस्य शत्रू भृगुसूर्यपुत्रौ
सौम्यः समोऽन्ये सुहृदः प्रदिष्टाः ॥१९॥
मित्रं दिनेशः शशलांछनस्य
समाः सजीवार्किसितज्ञभौमः ।
जीवार्कचन्द्राः सुहृदः कुजस्य
ज्ञोऽरिः समौ भार्गवसूर्यपुत्रौ ॥२०॥
शुक्रद्युनाथौ शशीजस्य मित्रे
चन्द्रो रिपुर्जीवकुजार्किमध्याः ।
बृहस्पतेः शुक्रबुधौ पराख्यौ
समोऽर्कजोऽन्ये सुहृदः प्रदिष्टाः ॥२१॥
सौम्यार्कजौ भार्गवनन्दनस्य
मित्रे समो देवगुरुः कुजश्च ।
अन्ये परे भास्करनन्दनस्य
मित्रे सितश्ज्ञौ रिपवस्तथान्ये ॥२२॥
गुरुः समो जन्मविधौ विचिन्त्यो
दशायबन्धुव्ययवित्तशोकैः ।
मित्रं स्वमेषां प्रवदन्ति नित्यं
मित्रं सुमित्रं सममेव मित्रम्
शत्रुः समः स्यात् क्रमशस्तु तज्ज्ञैः ॥२३॥
दशे तृतीये नवपंचमे च
चतुर्थाछिद्रे मदने तथैव ।
पश्यत्ति पादात्तरपादवृद्धा
फलानि यच्छन्ति शुभाशुभानि ॥२४॥
पित्ताधिको रक्तनखः सुरूपः
कन्याधिपस्ताभ्रनस्वः सुवक्त्रः ।
॥वरो भास्करवीर्ययोगात्
ताप्रतापी परहा सदैव ॥२५॥
बुद्धाधिकः शस्त्रपरः कृतज्ञः
श्लेष्माधिको दीर्घतनुः प्रसन्नः ।
सुलोचनः सत्यरतः सुकान्ति
श्चन्द्रस्य वीर्यान् मनुजः प्रदिष्टः ॥२६॥
पापः कृतघ्नः पुरुषः कुशीलो
ह्वस्वः कुनेत्रः कुनखः प्रदिष्टः ।
कुप्यप्रियो दुर्विषहः प्रकामी
भौमस्य वीर्येण भवेदसत्त्वः ॥२७॥
सुरूपदेहः सुभगः सुशीलः
प्रियंवदः शास्त्रपरः कृतज्ञः ।
गौरः सुधामा पृथुगात्रयष्टि
र्ज्ञवीर्यतः संप्रवदन्ति मर्त्यः ॥२८॥
सुचारूगात्रः प्रणतः प्रतापी
सुदीर्घगात्रः कफवान् सदैव ।
विद्याधिकः सत्यपरो मनस्वी
सुरेज्यवीर्यात् सततं नयज्ञः ॥२९॥
धर्मी सुदीप्तिर्मनुजोऽतिदीर्घः
कफात्मकः प्राप्तयशः सदैव ।
नीरोगदेहः प्रियसाहसश्च
शुक्रस्य वीर्येण भवेत् सुदारः ॥३०॥
॥कृष्टदेहः प्रखलोऽतिह्वस्वो
हिंस्रः सदा द्रोहपरः प्रजानाम् ।
विद्याविहीनः सततं कुचैलो
वीर्याच्छनेः संप्रवदन्ति मर्त्यः ॥३१॥
सत्वाधिकाः सूर्यशशाङ्कजीवा
ओधिकः सूर्यसुतः कुजश्च ।
।ओधिकौ भार्गवसोमपुत्रौ
सर्वे मनुष्यप्रकृतिं नयन्ति ॥३२॥
इति श्रीवृद्धयवने ग्रहयोनिभेदाध्यायः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP