संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय २६ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय २६ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य सहजस्थानचिन्ताध्यायः Translation - भाषांतर तृतीयसंस्थो यदि वासरेशोमित्रं नृपं तुङ्गगतो विधत्ते ।तुङ्गांशके वा नृपसंभवं चषड्वर्गशुद्धस्त्वथ सार्वभौमम् ॥१॥नीचाश्रितो नीचधनं विधत्तेमित्रं तृतीये यदि तीक्ष्णरश्मिः ।नीचांशके भिक्षुकपुत्रवैरंपापस्य वर्गे त्वथ वारणं च ॥२॥मित्राश्रयस्थो यदि वासरशीमित्रं द्विजेन्द्रं कुरुते तृतीये ।मित्रांशकस्थो जनयेत् सुशीलंवर्गोत्तमस्थोऽद्भुतशास्त्ररक्तम् ॥३॥रवितृतीयेऽरिगृहं प्रयातोमित्रं विधत्ते रिपुवर्जिताङ्गम् ।द्विषविभागे गुणवर्जितं चमूलत्रिकोणे पतिमेव शान्तम् ॥४॥तृतीयगः शीतकरः सुवातेमित्रं स्वतुङ्गे कृपणस्वभावम् ।मेव भागे परतर्ककं चषड्वर्गशुद्धः परदाररक्तम् ॥५॥नीचाश्रितो रात्रिपतिस्तृतीयेमित्रं स्वातेऽत्यजमेव नित्यम् ।नीचस्य भागे त्वथ नर्तकं चभण्डं च वर्गे खलसम्भवं च ॥६॥मित्राश्रयस्थो यदि शीतरश्मिर्मित्रं सुवाते परवंचकं च ।मित्रस्य भागे बहुदोषजं चवर्गोत्तमस्थो घृणया विहीनम् ॥७॥तृतीयगः शीतकरो विधत्तेनराधमं शत्रुगृहं प्रयातः ।शत्रोर्विभागे बहुमाययाढ्यंमूलत्रिकोणे परदाररक्तम् ॥८॥भौमस्तृतीये यदि तुङ्गसंस्थोमित्रं विधत्ते वरभूमिपालम् ।तुङ्गांशके वा नृपतेरमात्यंषड्वर्गशुद्धो द्वितयं सदैव ॥९॥नीचाश्रितो भूतनयस्तृतीयेमित्रं विधत्ते बहुकामसक्तम् ।नीचांशकस्थो भृतकं च वैद्यंपापोत्थवर्गे व्यसनाभिभूतम् ॥१०॥मित्राश्रयस्थो यदि भूमिपुत्रस्तृतीयगो भूरिसुखं प्रसूते ।मित्रांशके वाक्षयजं कुमारंवर्गोत्तमस्थः प्रचुरान्नपानम् ॥११॥शत्रोर्गृहस्थो यदि भूमिपुत्रोमित्रं प्रसूते सहजाश्रितं च ।तस्थैव भागे च समृद्धिभाजंमूलत्रिकोणे त्वथ दण्डनाथम् ॥१२॥सौम्यस्तृतीये यदि तुङ्गसंस्थो॥ शान्तमतिं प्रसूते ।तुङ्गांशके कंचकिन सम।षड्वर्गशुद्धः सुतरा कृत् ॥म् ॥१३॥नीचारितः सोमसुतस्तृतीयेमित्रं विधत्ते वृजिनैः समेतम् ।गोपालकं नीचविभागसंस्थःपापस्य वर्गे गतसौहृदं च ॥१४॥मित्राश्रयस्थः शैजस्तृतीयमित्रं सुवाते बहुकर्मभाजम् ।भागे त्वथ नापितं चखलरम् ॥१५॥शत्रोर्गृहस्थो यदि सोमपुत्रोमित्रं तृतीये कुरुते सुनिन्धम् ।तस्थैव भागे जनितातिगं चमूलत्रिकोणेऽथ मलिम्लुचम् च ॥१६॥नीचस्तृतीये यदि तुङ्गसंस्थोमित्रं सुवात् विनयेन हीनम् ।उच्चांशके दम्भपरं नृशंसंषड्वर्गशुद्धस्तु तथाप्रजं च ॥१७॥नीचाश्रितो देवगुरुस्तृतीयेमित्रं प्रसूते बहुपाचितारम् ।तदंशके द्यूतरतं सदैव॥वर्गे गतबधुवर्गम् ॥१८॥जीवो यदा मित्रगृहे तृतीयेतदा प्रसूतेऽतिकृशं च मित्रम् ।मित्रांशके पण्यपरं प्रधानंवर्गोत्तमस्थः खलु दन्तकारम् ॥१९॥तृतीयगो देवगुरुर्य॥शत्रोर्गृहे क्लीवसुखं सुवाते ।तदंशके शिल्पिनमप्रधानंमूलत्रिकोणे पतितं निकृष्टम् ॥२०॥शुक्रो यदा तुङ्गतस्तृतीयेतदा सुवाते पतितं च मित्रम् ।तुङ्गांशके वा नृपसेवकं चषड्वर्गशुद्धं कलहप्रियं च ॥२१॥नीचाश्रितो दैत्यगुरुस्तृतीयेमित्रं विधत्ते वधकं नृशंशम् ।नीचांशके निचकुलप्रसूतंपापस्य वर्गे पतितं नृशंसम् ॥२२॥मित्राश्रयस्थो भृगुजस्तृतीयेकरोति मित्रं खलु भाण्डम्व ।मितांशके वारणमप्रशस्तंवर्गोत्तमस्थः शबरं कृतघ्नम् ॥२३॥रिपोर्गृहे भार्गवजः प्रसूतेतृतीयगः क्रीडनकं च मित्रम् ।तदंशके शिल्पिनमप्रशस्तंमूलत्रिकोणेऽथ जनैर्निरस्तम् ॥२४॥सूर्यात्मजस्तुङ्गतस्तृतीयेमित्रं सुवाते वरभूमिपालम् ।तुङ्गांशके वित्तपतिं प्रसिद्धम्षड्वर्गशुद्धो बहुशास्त्ररक्तम् ॥२५॥नीचाश्रितः सूर्यसुततृतीयेमित्रं प्रसूते मलिनस्वभावम् ।नीचांशके वंचनतत्परं चपापस्य वर्गे घृनथा विहीनम् ॥२६॥मित्राश्रयस्थः खलु सूर्यपुत्रोमित्रं प्रसूते सचिवं नयचम् ।मित्रांशके वा गुणवित्तभाजंवर्गोत्तमस्थ स्थितिमानयुक्तम् ॥२७॥शनिर्यदा शत्रुगृहाश्रयस्थस्तृतीयगः पापरतं च मित्रम् ।धत्ते तदंशे वृजिनं सुदीनंमूलत्रिकोणे विजितारिपक्षम् ॥२८॥सावता प्रविदशाधिपः शीत्करस्तु सहस्रमित्रः क्षितिजो ॥।उशताधिपो देवपुरोहितश्च ॥२९॥अशीतिनाथो भृगुन। सौरस्तु भौमेम ॥।मितोऽधिको वा ।स्वतुङ्गराशौ यदि वत्तमानाःसर्वे ॥।उ॥।ऽतस्य वशाद्ददन्ति ॥३०॥इति श्रीवृधयवने सहजस्थानचिन्ता ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP