पूर्वखण्डः - अध्याय ३८
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
सूर्यं विना रात्रिपतेर्धनस्थो
यदा ग्रहः स्याद्बहवोऽथवा स्युः ।
स्यातानय द्वौ सुनफाख्ययोग
हस्यद्यते रूपगुणैः सदैव ॥१॥
चन्द्रस्य भौमौ यदि वित्तसंस्थो
नरं प्रसूते सुतरां धनाढ्यम् ।
धर्मध्वजं प्राणभृतां वरिष्ठं
प्रभूतमित्रं जनवल्लभं च ॥२॥
द्वितीयगः सोमसुतो यदा स्या
श्चन्द्रस्य धत्ते सुभगं मनुष्यम् ।
प्रभूतवित्तं धनधान्ययुक्तं
गुणानुरक्त जनसंमतं च ॥३॥
गुरुर्भवेच्चयदि वित्तसंथ
श्चन्द्रस्य धत्ते प्रणतं मनुष्यम् ।
स्वभावशुद्धं प्रियसाधुकृत्य
महाजनैः शंसितमेव नित्यम् ॥४॥
चन्द्रस्य शुक्रो यदि वित्तसंस्थो
नरं विधत्तेऽद्भुतकृत्यदक्षम् ।
जनानुरक्तं विभवैः समेतं
सुशंसितं ब्राह्मणसंमतं च ॥५॥
चन्द्रस्य सौरो वित्तसंस्थो
नरं विधत्ते बहुलाभभाजम् ।
प्रभूतहस्त्यग्वगणैः समेतं
कुलप्रधानं शुभक्रमरक्तम् ॥६॥
धनस्थितौ रात्रिपतेर्ज्ञवक्रौ
नरं सदा दम्भधृतं कृतज्ञम् ।
विदग्धवाक्यं बहुधर्मभाजं
गतव्ययं पार्थिववल्लभं च ॥७॥
सुरेज्यवक्रौ यदि वित्तसंस्थौ
चन्द्रस्य मर्त्यं दधतः प्रधानम् ।
मनस्विनं शत्रुजनैर्विहीनं
सदा प्रसुष्टं बहुधर्मभाजम् ॥८॥
शुक्रावनेयौ यदि वित्तसंस्थौ
चन्द्रस्य वित्तं दधतो नराणाम् ।
नराक्रमं भूरियशःप्रतापं
शत्रुक्षयं बान्धवसङ्गमं च ॥९॥
सौरावनेयौ यदि वित्तसंस्थौ
चन्द्रस्य धत्तः सुभगं मनुष्यम् ।
विद्याविवेकागमशास्त्ररक्तं
महाप्रभावं प्रचुरार्थयुक्तम् ॥१०॥
सुरेज्यसौम्यौ यदि वित्तसंस्थौ
चन्द्रस्य पुंसां दधतः प्रतापम् ।
धर्मार्थसिद्धिं प्रियतां च लोके
पूज्योत्तमानां जगतां जनानाम् ॥११॥
दैत्येज्यसौम्यौ यदि वि॥स्थौ
धनं तदा संदधतो नराणाम् ।
चन्द्रस्य मित्राश्वगजैः ॥
सुसाधुवादं नयसङ्गह च ॥१२॥
शनैश्चरज्ञौ यदि वित्तसंस्थौ
चन्द्रस्य पुंसां दधतः क्षमां च ।
धर्मस्य वृद्धिं गुरुदेवभक्तिं
जितेन्द्रियत्वं बहुसस्यलाभम् ॥१३॥
सुरेज्यशुक्रौ यदि वित्तसंस्थौ
॥पुंसां दधतो मतिं च ।
सुसाधुसन्मानमरिप्रणाश।
सुशीलतां साधुजनेन सख्यम् ॥१४॥
सुरेज्यसौरौ यदि वित्तसंस्थौ
चन्द्रस्य पुंसां द्धतोऽद्भुतानि ।
सौख्यानि दारात्मजसम्भवानि
सहाश्चवस्त्रौघसुवर्णसंघैः ॥१५॥
धनस्थितौ शुक्रदिनेशपुत्रौ
चन्द्रस्य धत्तो धनपुत्रदारान् ।
गुणानुरागं प्रियतां च लोके
सुशीलतां भूरिपुराधिपत्यम् ॥१६॥
जीवज्ञभौमा यदि वित्तसंस्था
श्चन्द्रस्य कुर्वन्ति विभुं च पुंसाम् ।
पुराधिपत्यं जनताधिपत्यं
विद्वज्जनिः सङ्गममिष्टलाभम् ॥१७॥
शुक्रज्ञभौमा यदि वित्तसंस्था
श्चन्द्रस्य कुर्वन्ति सुखं नराणाम् ।
प्रियातिथित्यं जनतोपरोधं
विदग्धतां वीर्यविशुद्धिमेव ॥१८॥
सौरश्चभौमा यदि वित्तसंस्था
श्चन्द्रस्य कुर्वन्ति नरं धनाढ्यम् ।
निर्मुक्तवैरं सुतबन्धुमान्यं
॥आभरणं विदग्धम् ॥१९॥
जीवारशुक्रा यदि वित्तसंस्था
श्चन्द्रस्य कुर्वन्ति नृणां प्रहर्षम् ।
गुणानुरागं विजयं प्रमोदं
विदग्धतां वैरिनिनाशनं च ॥२०॥
॥२१॥
मन्दारशुक्रा धनगा यदा स्यु
र्नरं प्रकुर्वन्ति सुशीलचेष्टम् ।
जनानुकूलं विभवैः समेतं
धर्मध्वजं चारुविशालनेत्रम् ॥२२॥
जीवज्ञशुक्रा धनगा यदा स्यु
श्चन्द्रस्य कुर्वन्ति सदा प्रभुत्वम् ।
कृतज्ञतां साधुजरोन्द्रियत्वं
विद्वज्जनैः सङ्गमनं सदैव ॥२३॥
जीवज्ञसौरा धनगा यदा स्यु
श्चन्द्रस्य कुर्वन्ति यशोर्थलाभम् ।
नरेन्द्रसत्यं प्रियतां च लोके
कीर्तिं सदा साधुसमागमं च ॥२४॥
शुक्रज्ञसौरा यदि वित्तसंस्था
श्चन्द्रस्य कुर्वन्ति कलत्रभाजम् ।
नरेन्द्रपूज्यं प्रियतां च लोके
तीर्थानुरागं सततं नराणाम् ॥२५॥
जीवार्किशुक्रा यदि वित्तसंस्था
श्चन्द्रस्य कुर्वन्ति गजाश्च्लाभम् ।
मनोविशुद्धिं सुकलत्रलाभं
विवेकतां तीर्थरति ॥ऽत्वम् ॥२६॥
सुरेज्यशुक्रज्ञकुजा धनस्था
श्चन्द्रस्य कुर्वन्ति सुपार्थिवेभ्यः ।
प्रभूतलाभं स्मृतिशास्त्रसारं
सदा नराणां प्रविवेकमेव ॥२७॥
सुरेज्यसौरज्ञकुजा धनस्था
श्चन्द्रस्य कुर्वन्ति बहुप्रतापम् ।
सुतार्थलाभं सुजनप्रहर्ष
मघ्यं च भूपादिसमागमं च ॥२८॥
सौम्यारशुक्रार्कसुता धनस्था
श्चन्द्रस्य कुर्वन्ति महाधनानि ।
नृणां सुचेष्टा विवि॥
कलत्रपुत्रार्थनिषेवणं च ॥२९॥
सुरेज्यशुक्रारदिनेशपुत्रा
श्चन्द्रस्य कुर्वन्ति धनाश्रिताश्च ।
धनं प्रभूतं जनतानुरागं
प्रसिद्धिमोजोद्भतलाभमेव ॥३०॥
सुरेज्यशुक्रज्ञदिनेशपुत्रा
आश्रिता रात्रिपतेर्नराणाम् ।
कुर्वन्ति राज्यं बहुवित्तलाभं
सुसत्यतां भोगविवृद्धिमेव ॥३१॥
इति श्रीवृद्धयवने सुनफायोगाध्यायः ॥
N/A
References : N/A
Last Updated : November 10, 2011
TOP