पूर्वखण्डः - अध्याय २२
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
मेषे तु शुक्रो जनयत्यशान्त॥
नरं बहुक्षोधविरोधशीलम् ।
॥ परस्त्रीहरणे प्रसक्तं
सेर्ष्यं वनारण्यविचारणं च ॥१॥
वृषे बहुस्त्रीसुतरत्नमाढ्यं
॥आतं प्रसूते भृगुजः सुमूर्तिम् ।
स्वबन्धुधर्तारमनेकवीर्यं
कृषीबलं गोकुलजीवनं च ॥२॥
निषेवमानो मिथुने प्रसूते
शुक्रो नरं वाःमिनमुर्जितं च ।
सुर्द्विजातिथ्यपरं कृतज्ञं
विज्ञानशास्त्रार्थकथारतं च ॥३॥
चतुर्थराशौ यदि षोडशार्चि
स्तिष्ठन् प्रसूते रतिधर्मशीलम् ।
प्राज्ञं श्रुतिज्ञानविदां वरिष्ठं
मृदुस्वभावं प्रियदर्शनं च ॥४॥
सिंहाश्रितस्तु प्रियबन्धुपक्षं
शुक्रं प्रसूते नरमत्मसह्यम् ।
विचित्रसौख्यव्यसनं सुरूपं
गुरुद्विजाचारपारयणं च ॥५॥
कन्यां गतो मार्दवमल्पवित्तं
शुक्रः परोपासनजीवितं च ।
स्त्रीभूषणज्ञं रतिगेयकाव्य
कलालिपिज्ञं मधुरं च कुर्यात् ॥६॥
तुलाधरस्थो भृगुसूनुराढ्यं
नरं प्रसूतेऽर्थविराजपण्यम् ।
विचित्रमाल्याम्बरमात्मवश्यं
बहुप्रवासं श्रमलब्धवित्तम् ॥७॥
शुक्रोऽष्टमक्षेत्रगतो नृशंसं
विद्वेषशीलं जनयत्यहन्यम् ।
प्रद्विष्टदुष्ट प्रातलोम
शठं परस्त्रीष्वनयप्रपंचम् ॥८॥
रस्थो विगतार्थविद्यं
शुक्रः प्रसूतेऽतिविलक्षशब्दम् ।
सधर्मकामाचफलरुपत
गतन्प्रियं कान्तमनल्पसौख्यम् ॥९॥
कुर्वीत राशौ दशमे मनुष्यं
शुक्रो बहुक्लेशभयश्रमार्तम् ।
नैशून्यलोभाश्रितवंचनानां
प्रयोगिणं क्लिवविपन्नचेष्तम् ॥१०॥
शुक्रश्चरन् कुम्भधरे मनुष्य
मुद्योगरोगव्यसनोपतप्तम् ।
कर्मस्वसंपन्नफलेषु सक्तं
कुर्याद्विरुद्धं गुरुभिः सुतैश्च ॥११॥
मीनद्वयस्थो जनयत्युदारं
शुक्रः श्रुतिज्ञानरतं मनुष्यम् ।
दिग्बुद्धिकर्मप्रचुरं सुरूपं
नृपप्रियं सज्जनमानलब्धम् ॥१२॥
होरां गतो वासरपस्य शुक्रः
करोति मूर्खं विधनं विशीलम् ।
हिंसानृतस्तेयरतं प्रकामं
पैशून्ययुक्तं च विधर्मशीलम् ॥१३॥
होरां गतो रात्रिपतेस्तु शुक्रः
सतां प्रियं स्फीतधनं करोति ।
गान्धर्वलीलाश्रुतिगीतरक्तं
विप्रप्रियं पार्थिववल्लभं च ॥ १४॥
द्रेष्काणसंस्थो दिनपस्य शुक्रो
नरं प्रसूते कठिनं गतस्वम् ।
कुयोषितामागतसौख्ययुक्तं
क्षुदं नृशंसं बहुरोषिणं च ॥१५॥
तृतीयभागे शशलांछनस्य
तिष्ठन् भृगुः सौख्ययुतं प्रसूते ।
विद्याविनीतं पितृमातृभक्तं
तपस्विनं धर्मपरं कृतज्ञम् ॥१६॥
तृतीयभगे धरणीसुतस्य
शुक्रश्चरन् पापरतं करोति ।
क्षुद्रोगवन्त व्यसनरूपेत
मायाविनं वंचनतस्परं च ॥१७॥
द्रेष्काणसंस्थः शशिजस्य शुक्रो
नरं प्रसूते सुभग मनोज्ञम् ।
रतप्रगल्भं प्रियपूर्तदारं
सुवर्णरत्नात्मजभागिनं च ॥१८॥
भागे तृतीये सुरपूजितस्य
शुक्रश्चरन् श्रेष्ठतमं सुरूपम् ।
सत्यान्वितं सर्वकलासु दक्षं
क्षमान्वितं प्रीतिकरं जनानाम् ॥१९॥
त्र्यंशे स्वकीये भृगुजः प्रसूते
नरं प्रगल्भं धनिनं सुशिलम् ।
अध्यात्मविद्यानिरतम् सुरूपं
र्विहीनम् ॥२०॥
॥ग तृतीये रविजस्य शुक्रः
करोति मर्त्यं वधबन्धुरक्तम् ।
स्वबन्धुहीनं परदाररक्तं
विद्वेशशीलं सततं कुसेव्यम् ॥२१॥
नवांशथो दिनपस्य शुक्रः
करोति मर्त्यं विकलं सुभीरुम् ।
बहुद्विषं निःक्रियमल्पवीर्यं
प्रपंचयुक्तं गतसत्त्वसौख्यम् ॥२२॥
नवाम्शके भार्गवनन्दनस्तु
चन्द्र धत्ते तनयं नराणम् ।
सद्योषितं वा धनधान्यलाभं
रिपुक्षयं बन्धुसमागमं च ॥२३॥
नवांशके भूमिसुतस्य शुक्रो
नरं प्रसूते रुधिरर्दिताङ्गम् ।
प्रपीडितं दस्युनृपैः सदिव
प्रद्वेषशीलं निकृतिप्रियं च ॥२४॥
बुधस्य भोगे नवमे तु शुक्रः
करोति मर्त्यं विबुधं सुधर्म्यम् ।
तीर्थाश्रयं देवगुरुप्रसक्तं
प्रियातिथिं संनियमैरुपेतम् ॥२५॥
शुक्रो नवांशे सुरपूजितस्य
करोति मर्त्यं प्रणतं द्विजानाम् ।
विवेकविधगमशस्त्रलु ॥
नृपप्रियं मित्रवरैः समेतम् ॥२६॥
नवांशके स्वे भृगुजः प्रसूते
अध्यात्मविक्षानिरतं मनुष्यम् ।
स्वधर्मपूज्यं सुधिया समेतं
हतारिपक्षं व्रतशीलिनं च ॥२७॥
स्थितो नवांशेऽर्कसुतस्य शुक्रो
नरं प्रसूते सरुजं सदुःखम् ।
भार्यास्य्तर्थैः परिवर्जितं च
प्रपीडितं नीचजनैर्विशेषात् ॥२८॥
सूर्यांशके वासरपस्य शुक्रः
करोति दिनं न च दीर्घसूत्रम् ।
।धा विहीनं सुजनैर्विमुक्तं
द्रोहात्मकं वादरतं नृशंशम् ॥२९॥
शुक्रोऽर्कभागे शशलांछनस्य
नरं प्रसूते वरयानभाजम् ।
नृपप्रियं भोगिनमर्थवन्तं
विहारवापीकरणेषु सक्तम् ॥३०॥
॥।ऊ॥। शुक्रो
विदेशरक्तं मनुजं प्रसूते
द्यूतप्रियं युद्धपरं कृतघ्नं
विवेकहीनं परदारभाजम् ॥३१॥
सूर्यांशके सोमसुतस्य शुक्रो
नरं प्रसूते सुभगं मनोज्ञम् ।
स्थानार्थमानैः सहितं प्रसिद्धं
विधार्जने तत्परमल्पदोषम् ॥३२॥
सूर्यांशकस्थः सुरपूजितस्य शुक्रः
करोत्यार्यमतिं सुदानम् ।
सन्मानसौहदसुखाथयुक्तं
विचित्रभोगं द्रविणोपपनम् ॥३३॥
सूर्यांशके स्वे भृगुजः प्रसूते
विचित्रवाभ्यं रतिगेयरक्तम् ।
धर्मार्थकामैः सहीतं सुविचं
नृपप्रधानं निजबन्धुमान्यम् ॥३४॥
अर्कांशके सूर्यसुतस्य शुक्र
स्तिष्ठन् प्रसूते सुखभाग्यहीनम् ।
नापात्मकं शत्रुविवर्जितं च
प्रवासिनं व्याधिभिरर्दितं च ॥३५॥
त्रिंशांशके भूमिसुतस्य शुक्र
स्तिष्ठन् प्रसूते सुरुजं मनुष्यम् ।
पित्तार्दितं सज्वरमल्पवीर्यं
स्वनीचयुक्तं बहुना यथोक्तम् ॥३६॥
त्रिंशल्लवे सूर्यसुतस्य शुक्र
स्तिष्ठन् प्रसूते बहुदोषखिन्नम् ।
हतात्मकं बन्धुवियोगयुक्तं
प्रपंचशीलं गतसत्यशौचम् ॥३७॥
त्रिंशांशके देवपुरोहितस्य
शुक्रश्चरन् देवरतं प्रसूते ।
सुधर्मशीलं सुजनाप्ततोषं
नरेन्द्रपूज्यं व्रतचारिणं च ॥३८॥
त्रिंशांशके सोमसुतस्य शुक्र
स्तिष्ठन् प्रसूते सवपुं मनुष्यम् ।
सौम्यं धनाढ्यं वरदारयुक्तं
हस्त्यश्चभाजं नृपवल्लभं च ॥३९॥
त्रिंशल्लवे स्वे भृगुजः प्रसूते
नरं विनीतं धनधान्यवन्तम् ।
तुलाधिकं कीर्तिकरं सुविश्चं
हास्त्ये रतं केलिकरं प्रसह्यम् ॥४०॥
शुक्रो यदा मित्रबलेन युक्त
स्तदा प्रसूते बहुमित्रयुक्तम् ।
प्रियातिथिं देवगुरुप्रसक्तं
प्रभाव्नैश्चर्यगुणैः समेतम् ॥४१॥
स्वस्थानवीर्येण युतस्तु शुक्रः
करोति मर्त्यं पुरुषप्रधानम् ।
स्वथानपूज्यंप्रमदास्वभीष्टं
प्रसन्नचिन्तं धृतिनाधिपं च ॥४२॥
स्वतुङ्गवीर्येण युतस्तु शुक्रः
करोति मर्त्यं बहुकीर्तिभाजम् ।
पुण्यात्म्क सत्यसमृद्धिमन्तं
चतुष्पदाढ्यं प्रियदर्शनं च ॥४३॥
नवाम्शवीर्येण युतस्तु शुक्रः
करोति मर्त्यं विजितारिपक्षम् ।
यशप्रियं दानप्तिं प्रसिद्धं
निर्मुक्तदोषं स्वकुलप्रधानम् ॥४४॥
शुभग्रहालोकनवीर्ययुक्तः
शुक्रः प्रसूते शुभकर्यमग्न्यम् ।
रोगैर्विमुक्तं प्रणतारिप॥
प्रियातिथिं सर्वसुखैः समेतम् ॥४५॥
स्त्रीक्षेत्रवीर्यप्रबलस्तु शुक्रः
करोति मर्त्यं बहुयोषिताढ्यम् ।
सौभाग्यसौन्दर्ययुतं सुकान्तं
नानार्थलाभैः सहितं सदैव ॥४६॥
आशाबलाढ्यः प्रकरोति शुक्रो
नरं प्रसन्नं गतशत्रुपक्षम् ।
दिग्देशविख्यातियुतं सुताढ्यं
प्रभूतवित्तं च सदा प्रियं ॥४७॥
चेष्टाबलाढ्यः प्रकरोति शुक्रो
नरं प्रसन्नधुतिमल्पपापम् ।
॥श्चयुक्त गुरुव॥
भयैर्वियुक्तं सुतलाभयुक्तम् ॥४८॥
४९॥
वारबलेन युक्त
स्तदा प्रसूते महजस्वभाम् ।
विज्ञानशीलं बहुशास्त्ररक्तं
सुधर्मशीलं हतशत्रुपक्षम् ॥५०॥
करोति शुक्रोऽब्दबलेन युक्तः
प्रियातिथिं सौख्ययुतं मनुष्यम् ।
।व्यसनरुपेत
नृपप्रियं ब्रह्मणसंमतम् च ॥५१॥
शुक्रो यदा मासबलेन युक्त
स्तदा प्रसूते सुभगं जितारिम् ।
चतुष्पदाछादनभोजनाधैः
समन्वितं अर्वसमृधिमन्तम् ॥५२॥
होराबलाढ्यः प्रकरोति शुक्रो
नरं सुशीलं प्रियवाक्यदक्षम् ।
महाजनैः पूजितमेव नित्यं
प्रसन्नमूर्तिं प्रियदर्शनं च ॥५३॥
शुक्रो यदा पक्षबलेन युक्त
स्तदा प्रसूते विजितारिपक्षम् ।
स्वपक्षमान्यं बहुधर्मयुक्तं
प्रियागमं सङ्गमलब्धसौख्यम् ॥५४॥
शुक्रो यदा मित्रबलेन हीन
स्तदा प्रसूते विधनं मनुष्यम् ।
मित्रैर्विहीनं बहुदुःखशोकै
रूपद्रुत पार्थिवपीडितं च ॥५५॥
स्वक्षेत्रवीर्येण विवर्जितस्तु ॥।
शुक्रः प्रसूतेऽतिखलं विशीलम् ।
दुष्टाङ्गनासख्यरत कुरूप
विधर्मिणं पापरतं कृतघ्नम् ॥५६॥
तुङ्गवीर्येण विवर्जितस्तु
शुक्रः प्रसूते मलिनं सपापम् ।
नीचानुरक्तं पर्दारलुब्धं
हिंस्रं महाव्याधिभिरर्दितं च ॥५७॥
नवांशवीर्येण विवर्जितस्तु
शुक्रः प्रसूतेऽतिकठोरचिन्तम् ।
भयानुरं सत्यधनिर्विहीनं
विद्वेषशीलं गतसौहृदं च ॥५८॥
शुभग्रहालोकनवीर्यहीनः
शुक्रः प्रसूते परिभूतदेहम् ।
विकर्मरक्तं सततं
प्रपीडितं पार्थिवदस्युभिश्च ॥५९॥
स्त्रीक्षेत्रवीर्येण विवर्जितस्तु
करोति शुक्रः प्रखलं मनुष्यम् ।
नरापवादात्मकमल्पसौख्यं
स्त्रिया वियुक्तं बहुहानियुक्तम् ॥६०॥
आशाबलेनिव विवर्जित॥
शुक्रः प्रसूते परदेशरक्तम् ।
भाग्यैर्विहीनं जठरं कृतघ्नं
मायाविनं साधुजनैर्विहीनम् ॥६१॥
चेष्टाबलेनैव विवर्जितस्तु
शुक्रः प्रसूते वधबन्धुरक्तम् ।
क्रूरं कुकर्माश्रितमल्पसत्यं
प्रभूतशत्रुं धनदारहीनम् ॥६२॥
शुक्रो यदा वासरवीर्यहीनः
करोति मर्त्यं सतत कुचैलम् ।
चौरप्रदुष्टं बहुदुष्टसङ्गं
वीर्यप्रयुक्तं बहुविह्वलं च ॥६३॥
शुक्रो यदा वारबलेन हीन
प्रसूते हतशत्रुदारम् ।
सत्येन हीनं परिभूतमन्यैः
सदा सशोकं स्वजनैर्वियुक्तम् ॥६४॥
करोति शुक्रोऽब्दबलेन हीनो
नरं निकृष्टं कुटिलस्वभावम्
वित्तैर्विहीनं गतबन्धुवर्गं
प्रवासशिलं कलहप्रियं च ॥६५॥
शुक्रो यदा मासबलेन हीन
स्तदा प्रसूते वृजिनैः समेतम् ।
विवादशीलं व्यसनैः प्रतप्तं
॥बाह्यम् साधुजनस्य ॥६६॥
होराबलनैव विवर्जितस्तु
शुक्रः प्रसूते मतिसत्यहीनम् ।
लज्जावियुक्तं विधनं कुचैलं
पराङ्मुखं देवगुरुद्विजानाम् ॥६७॥
शुक्रो यदा पक्षबलेन हीन
स्तदा प्रसूते पुरुषं गतस्वम् ।
अनार्यशीलं गतमानलभं
भयातुरं कापुरुषं सजिह्मम् ॥६८॥
इति श्रिवृद्धयवने शुक्रचारः ॥
N/A
References : N/A
Last Updated : November 10, 2011
TOP