पूर्वखण्डः - अध्याय २५
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
सूर्यो द्वितीये यदि तुङ्गसंस्थो ॥
ते नृपमानजात्म् ।
उच्चांशके वा नृपसेवकं च
षड्वर्गशुद्धः शुभलोकदत्तम् ॥१॥
नीचाश्रितो बासरपो द्वितीये
पापार्जितं धर्मधनं प्रसूते ।
नीचांशकस्थः स्थलजं सदैव
पापस्य वर्गे त्वथ चौर्यजं च ॥२॥
मित्राश्रस्थो दिनपो द्वितीये
करोति जातं धनधान्यसम्भवम् ।
मित्रस्य भागे त्वथ लोहजातं
वर्गोत्तमस्थः परदारजातम् ॥३॥
शत्रोर्गृहे वा यदि तीक्ष्णरश्मि
र्द्वितीयगः स्वल्पधनं प्रसूते ।
कष्टान्तदेशेऽधमसवया च
मूलत्रिकोणे त्वथ भिक्षजं च ॥४॥
चन्द्रो द्वितीये यदि तुङ्गसंस्थे
मुक्तामणिप्रायभनं प्रसूते ।
तुङ्गांशके वा कनकं च रूप्यं
षड्वर्गशुद्धो विविधं हिरण्यम् ॥५॥
नीचाश्रितः शीतकरः प्रसूते
द्वितीयगो वित्तमसद्व्ययं च ।
नीचस्य भागे त्य् व्ययेन हीनं
पापोत्थवर्गे वसवां भयं च ॥६॥
मित्राश्रयस्थो यदि वा शशाङ्को
वित्तं प्रसूते सुतजं नराणाम् ।
मित्रस्य भागे कृषिकृत्प्रसूतं
वर्गोत्तमस्थः सुहृदर्जितं च ॥७॥
शत्रोर्गृहे वा यदि रात्रिनाथः
कोशाश्रितच्चौर्यधनं प्रसूते ।
तदांशके वाथ कुकर्मजातं
मूलत्रिकोणे त्वथ भार्यजोत्थम् ॥८॥
भौमः स्वतुङ्गे यदि कोशगः स्याद्
युद्धोद्भवं संजनयेद्धनं च ।
उच्चांशके वातिकृशं च कष्टात्
षड्वर्गशुद्धः स्वजनोद्भवम् च ॥९॥
नीचाश्रितो भूतनयस्तु नीचे
द्वीतीयगो निर्धनमेव सूते ।
नीचांशके बह्व्रणमेव नित्यं
पापोत्थवर्गे व्रणयुक्तदेहम् ॥१०॥
मित्रगृहे वा यदि भूमिसुते
कोशाश्रितो मित्रबलेन जातम् ।
धनं प्रसूते सुहृदंशके च
वर्गोत्तमे देवगुरुप्रसादात् ॥११॥
शत्रोर्गृहे भूतनयो द्वितीये
धनं प्रसूते न कदाचिदेव ।
शत्रोर्विभागे धृणपापसङ्गान्
मूलत्रिकोणे तु जनोपरोधात् ॥१२॥
सौम्यस्वतुङ्गे यदि कोशसंस्थः
ंअं भूरिधनस्य धत्ते ।
तुङ्गांशके सस्यचतुष्पदात्थ
षड्वर्गशुद्धो विविधैरूपयैः ॥१३॥
नीचाश्रितः सोमसुतो धनस्थो
निकृष्टवित्तं कुरुते नराणाम् ।
नीचांशकस्थो रिपुतोऽतिदैन्यात्
पापोत्थवर्गे बहुवंचनाश्च ॥१४॥
मित्राश्रितस्थे यदिसोमपुत्रो
द्वितीयगो वाजिजमेव वित्तम् ।
धत्ते नराणां चं सुहृद्विभागे
वर्गोत्तमे वा सुकृतं प्रसूते ॥१५॥
बुद्धो यदा शत्रुगृहं प्रयातो
द्वितीयगः शत्रुनीषेवणेन ।
धनं भवेच्छत्रुवि॥
त्वल्पं त्रिकोणे वरलोकजातम् ॥१६॥
जीवो द्वितीये यदि तुङ्ग
सदा धनं न्यायजितं प्रसूते ।
तुङ्गांशके च द्विजसाधुवृत्त
षड्वर्गशुद्धो नृपसंभवं च ॥१७॥
नीचाश्रितो देवगुरुर्द्वितीये
धनं प्रसूते परदारजातम् ।
नीचांशके चान्त्यजलोकजातं
पापस्य वर्गे बहुकष्टजातम् ॥१८॥
मित्राश्रयस्थो यदि देवमन्त्री
द्वितीयगो वस्त्रगजाश्चजं च ।
धत्ते तदंशे न कृषिप्रसूतं
वर्गोत्तमस्यः सुजनप्रदन्तम् ॥१९॥
यदा द्वितीयेऽरिगृहे सुरेज्यो
विधत्तेऽरिनिषेवणेन ।
शत्र्वंशके शत्रुजनेन दत्तं
मूलत्रिकोणे निधिजं सदैव ॥२०॥
शुक्रे द्वितीये यदि तुङ्गसंस्थः
सदाक्षयं भूरिधनं प्रसूते ।
तुङ्गांशके पूर्वजसंचितं च
षड्वर्गशुद्धो द्वितयं नितान्तम् ॥२१॥
नीचाशितो दैत्यगुरुर्द्वितीये
धनं सुवाते श्रुतिजं नितान्तम् ।
द्यूतर्जितं नीचनवांशसंस्थः
पापस्य वर्ग् परदेशस~गात् ॥२२॥
मित्राश्र्यस्थो यदि दानवेज्यो
द्वितीयसंस्थो नृपजं विधत्ते ।
॥ंनं तदशं नृपपुत्रजात
राज्ञीमुत्थं यदि शुभवर्गे ॥२३॥
शुक्रो द्वितीये यदि शत्रुसंस्थो
धनं प्रसूते वरकर्मजातम् ।
शत्रोर्विभागे त्वथ दैन्यजातं
मूलत्रिकोणे स्वसुतार्जितं च ॥२४॥
शानिर्द्वितीये यदि तुङ्गसंस्थो
धनं प्रसूते तु कुकर्मजातम् ।
तदंशके कष्टविनिर्जितं च
षड्वर्गशुधो व्यसनोद्भवं च ॥२५॥
नीचं गतो भास्करजः प्रसूते
निःकिचनं नित्यमनेकदुःखम् ।
नरं तदंशेऽन्त्यजवित्तभाजं
॥वर्गे तु सुपापजं च ॥२६॥
मित्राश्रयस्थो यदि सूर्यपुत्रो
द्वितीयगः स्वस्थधनं प्रसूते ।
मित्रस्य भागे त्वथ मृन्मयं च
वर्गोत्तमस्थो जलजं सदैव ॥२७॥
सौरो यदा शत्रुगृहाश्रयस्थो
द्वितीयगः पापधनं प्रसूते ।
शत्रोर्विभगे बहुदासतोत्थं
मूलत्रिकोणे परपोष च ॥२८॥
सहस्त्रनाथो दिनपः प्रदिष्टो
लक्षाधिपो रत्रिकरः सदैव ।
शताधिपो भूतनयः सदैव
कोटीश्चरः सोमसुतः सदैव ॥२९॥
स्वर्वाधिनाथः सुरराजमन्त्री
शुक्रो ह्यसंख्यः शनिर्भौमतुल्यः ।
स्वतुङ्गाः स्युर्यदि सर्व एव
अर्थान्तराले त्वनुपातजातम् ॥३०॥
स्ववर्गजं वित्तमहो दधत्ति
हित्वा हि शुक्रं बहुसङ्गजं च ।
स्वं स्वं धनं स्वासु दशासु सम्यक्
॥३१॥
इति श्रीवृद्धयवने धनस्थानचिन्ता ॥
N/A
References : N/A
Last Updated : November 10, 2011
TOP