पूर्वखण्डः - अध्याय ३१

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


सूर्ये यध मृत्युतश्च तुङ्गे
मृत्युं विधत्तेऽग्निनिवेशनेन ।
भक्त्या तदंशे जनलज्जमेव
षड्वर्गशुद्धस्त्वथवा प्रमादात् ॥१॥
नीचाश्रितो वासरपोऽष्टमस्थो
मृत्युं विधत्ते वनपावकेन ।
नीचांशके दम्भनकर्मतश्च
पापस्य वर्गे तु प्रदीपनेन ॥२॥
मित्राश्रयस्थो दिनपोऽष्टमस्थो
मृत्युं विधत्ते विषभक्षणेन ।
मित्रांशकस्थश्च निबन्धनेन
वर्गोत्तमस्थो निशि तापसेन ॥३॥
शत्र्वाश्रयस्थो दिनपोऽष्टमस्थः
करोति मृत्युं रुधिरप्रकोपात् ।
तदम्शके वा बहुकासशोषान्
मूलत्रिकोणे वनितापराधात् ॥४॥
चन्द्रोऽष्टमस्थो यदि तुङ्गसंस्थः
करोति मृत्युं सलिलप्रवेशात् ।
तुङ्गांशकस्थः करकाभिघातात्
षड्वर्गशुद्धस्त्वशनिप्रपातात् ॥५॥
नीचाश्रितो रत्रिपतिः करोति
छिद्रे विनाशं वनिताकरेण ।
नीचांशकस्थः कफपित्तदोषात्
पापस्य वर्गे त्वथ सन्निपातात् ॥६॥
मित्राश्रयस्थो रजनीपतिश्च
करोति मृत्युं जठरप्रकोपात् ।
तस्यैव भागे गुदरोगतश्च
वर्गोत्तमस्थः पशुपादघातात् ॥७॥
शत्र्वाश्रयस्थो विधुरेव धत्ते
मृत्युं नराणां बहुभृत्यरोगात् ।
तदंशकस्थः पशुशृङ्गसङ्गान्
मूलत्रिकोणे क्षयरोगतश्च ॥८॥
भौमोऽष्टमस्थो यदि तुङ्गसंस्थः
सङ्गाममृत्युं कुरुते नराणाम् ।
तुङ्गांशकस्थस्त्वथ शस्त्रकर्मं
षड्वर्गसुद्धस्त्वथ गोग्रहेण ॥९॥
नीचाश्रयस्थो धरणिज छिद्रे
स्वहस्तमृत्युं कुरुते नराणाम्
नीचांशकस्थश्च निजायुधेन
पापस्य वर्गे द्विजपर्श्चतश्च ॥१०॥
॥ऽः क्षितिजोऽष्टमस्थः
करोति मृत्युं दृषदाश्रयेण ।
मित्रस्य भागे त्वथ गोष्ठसङ्गाद्
वर्गोत्तमस्थस्त्वथ कूपपातात् ॥११॥
शत्र्वाश्रय्स्थः क्षितिजोऽष्टमस्थो
भूकूपपाताश्च करोति मृत्युम् ।
तस्यांशकस्थस्त्वथ गुप्तिरोधान्
मूलत्रिकोणे विषभक्षणेन ॥१२॥
सौम्योऽष्टमस्थो यदि तुङ्गसंस्थो
करेण मृत्युं प्रकरोति पुंसाम् ।
तुङ्गांशकस्य कफजैर्विकारैः
षड्वर्गशुद्धोऽनिलसम्भवैश्च ॥१३॥
नीचारयस्थोऽष्टमगस्तु सौम्यः
करोति मृत्युं व्रणवैकृतेन ।
नीचांशकस्थश्च महाभयेन
पापस्य वर्गे प्रियविप्रयेण ॥१४॥
मित्राश्रयस्थो यदि सोमपुत्रो
मृत्युं विधत्ते हृदयप्रकोपात् ।
मित्रस्य भागेऽक्षिरुजा नराणां
वर्गोत्तमस्थस्त्वथ गुह्यरोगात् ॥१५॥
शत्र्वाश्रय्स्थः शशिजः प्रसूते
मृत्युं नराणां दृढबन्धनेन ।
तस्थैव भागे जठरोत्थरोगान्
मूलत्रिकोणेऽग्निव्रणेन पुंसाम् ॥१६॥
जीवोऽष्टमस्थो यदि तुङ्गसंस्थो
मृत्युं विधत्ते विविधैश्च रोगैः ।
तुङ्गंशकस्थस्त्वथ मूलरोगात्
षड्वर्गशुधः श्रवणप्रकोपात् ॥१७॥
गुरुः स्वनीचे यदि चाष्टमस्थो
मृत्युंविधत्ते स्वजनस्य हस्तात् ।
तस्यैव भागेऽथ विषाग्निसङ्गात्
पापस्य वर्गे त्वतिसारतश्च ॥१८॥
मित्राश्रयस्थो यदि देवमन्त्री
रन्ध्रे विनशं कुरुते स्वभृत्यात् ।
तस्थैव भागे रुधिरप्रकोपाद्
वर्गोत्तमस्थः सुरतानुसङ्गात् ॥१९॥
शत्र्वाश्रयस्थो यदि देवमन्त्री
रन्ध्रे विनाशं कुरुते सकोपात् ।
तस्यैव भागे शिरसः प्रकोपान्
मूलत्रिकोणे बहुभक्षणेन ॥२०॥
शुक्रोऽष्टमस्थो यदि तुङ्गसंस्थः
पिपासयान्तं कुरुते नराणाम् ।
तुङ्गांशकस्थश्च मुखस्य शोषात्
षड्वर्गशुद्धो वरदुःखतश्च ॥२१॥
नीचाश्रितो दैत्यगुरुश्च रन्ध्रे
मृत्युं विधत्ते गुरुसन्निपातात् ।
नीचांशकस्थस्त्वथ ववश्ररोगात्
पापस्य वर्गे वनसत्त्वतश्च ॥२२॥
मित्राश्रयस्थो भृगुजः प्रसूते
स्थानेऽष्टमे नाशमदेप्रसङ्गात् ।
मित्रांशकस्थो विषकण्टकेन
वर्गोत्तमस्थत्वथ लूतया च ॥२३॥
शत्र्वाश्रयस्थो भृगुजोऽष्टमस्थः
करोति मृत्युं विषकण्टकेन ।
तदंशकस्यः सुरतप्रकोपान्
मूलत्रिकोणे प्रचुरप्रकोपात् ॥२४॥
शनैश्चरस्तुङ्गतोऽष्टमस्थो
मृत्युम् विधत्तेऽतिबुभुक्षया च ।
तुङ्गस्य भागे गुरुलंघनेन
प्रायोपवेशाद्रसवर्गौद्धः ॥२५॥
नीचाश्रितः सूर्यसुतोऽष्टमस्थो
मृत्युं विधत्ते निजबन्धुवर्गात् ।
तस्थैव भागे रिपुहस्ततश्च
पापस्य वर्गेऽत्र परीक्षयेण ॥२६॥
मित्राश्रयथो रविजः प्रसूते
मृत्युं महादद्रुकृतैर्विकारैः ।
तस्यैव भागे पिटकैश्च मृत्युं
वर्गोत्तमस्थो व्रणवैकृतेन ॥२८॥
शत्र्वाश्र्यस्थो रविजोऽष्टमस्थो
मृत्युं विधत्ते हयपादघातात् ।
तस्यैवभागे करिणः प्रसङ्गान्
मूलत्रिकोणे खरतः सकाशात् ॥२९॥
इति श्रीवृद्धयवने मृत्युस्थानचिन्ता ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP