संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| अष्टमः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - अष्टमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत अष्टमः सर्गः Translation - भाषांतर नायिकातिरोधानम्सापदेऽथ भुजगेन्द्रकन्यका खे पयोदपतलैस्तिरोहिते ।नर्मदापुलिनपल्लवस्थिता हंसपङ्क्तिरिव कम्पं आददे ॥८-१॥स्पर्धयेव निचयः पय्ॐउचां तारमन्द्रं अनदद्यथा यथा ।सा नरेन्द्रतिलकं तं ऐक्षत मुग्धलोलनयना तथा तथा ॥८-२॥उल्लसन्नवपयोधरालसां द्यां च तां च सुमुखीं विलोकयन् ।भूपतिः स नितरां अभूद्वशो विस्मयस्य च मनोभवस्य च ॥८-३॥वामनत्वं अलिनत्वं अत्यजन्व्यञ्जितक्रम इव त्रिविक्रमः ।क्रामति स्म सहसैव मेघभूरन्धकारनिकरोऽथ रोदसी ॥८-४॥नेत्ररोधिनि तयोर्न केवलं मूर्च्छिते तमसि वैशसं हृदि ।यावदास्यविगलद्बिसाङ्कुरे चक्रवाकमिथुनेऽप्यजृम्भत ॥८-५॥कर्णभूषणमणिप्रभालवैस्तोकलक्षितकपोलपत्रया ।कृष्यमाणनयनोऽथ पिप्रिये पन्नगेन्द्रसुतया तया नृपः ॥८-६॥तेजसि स्फुरति ताडिते मुहुर्बिभ्यती कनकभङ्गपिङ्गले ।तं हृदिस्थितं इवेशं ईक्षितुं सापि मीलितविलोचनाभवथ् ॥८-७॥_आकाशवाणीएष ते न घटते मनोरथः पार्थिवाहिपतिकन्यकां प्रति ।गच्छ विन्ध्यविपिनान्तदृष्टया वञ्चितोऽसि मृगतृष्णयैतया ॥८-८॥साहसोदधिविलोडने स्वयं योऽंसं अंसलतयार्पयिष्यति ।श्रीरिवोरसि मुरद्विषः पदं तस्य निश्चितं इयं विधास्यति ॥८-९॥पश्य पश्य चपलेयं अन्तिकात्नीयते तव यथोचितं कुरु ।एवं एव यदियं न लभ्यते जानकीव जनकप्रतिज्ञया ॥८-१०॥कन्यकासि किं इदं शशिप्रभे युक्तं एहि पितुरन्तिकं व्रज ।इत्यविग्रहवती नभस्तलातुल्ललास सहसा सरस्वती ॥८-११॥तां निशम्य स निकामविस्मितः साचिकार्मुकलतां अलोकत ।इन्दुमौलिगलकन्दलासितं तत्क्षणाच्च तिमिरं न्यवर्तत ॥८-१२॥साचिरांशुतपनीयमेखला शक्रचापमणिकुण्डला ततः ।क्वापि मुद्रितमयूरताण्डवा संहतिर्जलमुचां तिरोदधे ॥८-१३॥सा पुरातनपथेन पावनी स्ॐअसूतिरपि निम्नगा वहथ् ।स्वादुनिर्मलरसोर्मिनिर्भरा भारतीव मसृणं महाकवेः ॥८-१४॥अप्यपाकृतरयः स नर्मदा- वीचिलास्यरचनाकुतूहली ।आववौ शबरराजयोषितां नर्तितालकलतः समीरणः ॥८-१५॥इत्यकालजलदादिवैकृते केन चिद्विरचिते गते शमं ।भूपतेः शशिमुखी सखीयुता नेत्रनिर्विषयतां अवाप सा ॥८-१६॥क्वापि नूनं अपहृत्य तन्मनो नागराजदुहिता जगाम सा ।उत्पलस्य सरसं लसत्स्पृहा चक्रवाकवनितेव केसरं॥ ८-१७॥अग्रतः कृतपयोधरश्रिया धौततप्ततपनीयकान्तया ।विद्युतेव सदृशा तयाकुलः स अभवज्झटिति दृष्टनष्टया ॥८-१८॥सा पुरो मम हृतेति लज्जया चिन्तया किं इव सा चरेदिति ।सा पुनो न सुलभेत्यसौ शुचा तप्यते स्म तिसृभिः क्षितीश्वरः ॥८-१९॥तस्य तापजननेन मानसं तेन बालविरहेण विव्यथे ।केतकच्छदकदर्थने परं यत्कणोऽपि शिशिरः प्रगल्भते ॥८-२०॥जित्वरं जगति पुष्पकेतुना तद्विकृष्य तरसा शरासनं ।ताड्यते स्म हृदये पततृइणा सोऽथ मालवकुरङ्गलाञ्छनः ॥८-२१॥लज्जया वलितकण्ठकन्दलं लोचनाञ्चलमिलद्वतंसकं ।तस्य वर्तितं इवाभवत्तदा तत्प्रियावदनं उन्नसं हृदि ॥८-२२॥म्लानिं आप सस्तया विना नृपस्तत्र पन्नगपतेस्तनूजया ।स्वां रुचिं न हि कदा चिदश्नुते शर्वरीविरहधूसरः शशी ॥८-२३॥पाण्डुपक्ष्मलदृशः परिच्युतं सोऽथ माल्यशकलं व्यलोकत ।तादृशि व्यतिकरे विनिर्गतं हासलेशं इव पुष्पधन्वनः ॥८-२४॥शंसदुज्ज्वलकपोलसंगतं कुङ्कुमेन दलकोटिचुम्बिना ।सम्भ्रमेण गलितं नतभ्रुवः कर्णतामरसं आददेऽथ स ॥८-२५॥कार्मुके सति शरेषु सत्स्वपि प्रेयसी तव हृतान्तिकादिति ।तेन सौरभहृतालिनिःस्वनैर्वाच्यतेव नृपतेर्व्यधीयत ॥८-२६॥कोष्णनिःश्वसितवेपितच्छदं तन्निवेश्य वदने सः सादरः ।अर्धनिमीलितलोचनोत्पलः पुस्तकल्पित इवाभवत्क्षणं॥ ८-२७॥नर्मदोर्मिलुलिते तदंशुके पल्लवालिखितहंसहारिणि ।आहृतस्तनविलेपने दृशा सोऽकृतप्रणयं इन्दुपाण्डुनि ॥८-२८॥मा विषीद नवसाहसाङ्क, ते कान्तया गतं अनेन वर्त्मना ।पश्य तत्पदं इतीव रेवया तस्य सारसरुतैरसूच्यत ॥८-२९॥किं निमग्नं इह बालया तया भीतया भुजगराजकन्यया ।नैवं अत्र नियतं रसातले विद्यते विवरं इत्यतर्कयथ् ॥८-३०॥सोऽतिमात्रगहनेऽपि रंहसा पार्थिवः पतितुं ऐच्छदम्भसि ।जीवितं तृणं इवावजानते साहसव्यसनिनोऽपि तादृशाः ॥८-३१॥तत्समीहितं अवन्तिवासवस्तस्य नावददुपान्तवर्तिनः ।एष विघ्नं इह साहसोत्सवे कल्पयिष्यति ममेति शङ्कितः ॥८-३२॥उज्झति स्म सः शनैः समुच्छ्वसन्पल्लवासनं उपास्य शासनः ।अग्रहीच्च सशरं करेण तद्व्यक्तराजककुदेन कार्मुकं॥ ८-३३॥पन्नगेन्द्रदुहितुः करेण यः सख्यं आपदरविन्दबन्धुना ।अर्पितं प्रणयिना तं अप्यसौ सायकं कनकपुङ्खं आददे ॥८-३४॥सुभ्रुवः स्मरविलासदेशिकं तं शशंस सः शरं पतत्रिषु ।पीतशीतकरमूर्तितानवं भानुमानिव मयूखं अंशुषु ॥८-३५॥व्यक्ततच्चरणलक्ष्मणा ततः स्रस्तकेशकुसुमाकुलालिना ।मेघसिक्तसिकतेनवर्त्मना नर्मदाजलसमीपं आप स ॥८-३६॥एष जातु न विकत्थते क्व चिल्लक्ष्यतेऽस्य फलतः सदा क्रिया ।तत्करिष्यति किं अत्र साहसं चेतसीति विदधे रमाङ्गदः ॥८-३७॥_नर्मदाप्रवेशःअक्षिपत्तटशिलाविटङ्कतः पार्थिवः स्वं अथ नर्मदाम्भसि ।वारिधेः पयसि विश्वदीपकः सायमद्रिशिखरादिवार्यमा ॥८-३८॥तत्र मीनमकराकुले पतनाससाद स विलासं इश्वरः ।यामुनाम्भसि निपातिनः पुरा गोपतां उपागतस्य शार्ङ्गिणः ॥८-३९॥अम्भसस्तदवपातताडितादूर्ध्वं एत्य निपतत्सु बिन्दुषु ।साहसेन परितोषितैः सुरैर्मौक्तिकार्घ इव तस्य चिक्षिपे ॥८-४०॥किं चिदन्तरितमूर्तिभिः क्षणादन्वगच्छदथ तं रमाङ्गदः ।येन यात्यरुणसारथिः पथा वासरस्तं अवलम्बते न किं ? ॥८-४१॥कस्तुलाग्रं अधिरोप्य जीवितं स्वामिनं त्वं इव सेवतां इति ।तस्य हंसनिनादेन वल्गुना साधुवादं इव नर्मदा ददौ ॥८-४२॥_बिलप्रवेशःतौ मुहुर्जलचरैरदृश्यतां अग्रतश्चकितं उक्तवर्त्मभिः ।ध्वान्तसन्ततिभिदे रसातलं प्रस्तितौ रविनिशाकराविव ॥८-४३॥आश्रयत्यवनिमेघवाहने वारिगर्भं अभितो गरीयसि ।प्राप मेकलसुता समानतां अन्तराहितनिधानया भुवा ॥८-४४॥उज्झिता झटिति कार्यगौरवादीश्वरेण रुरुचे न मेदिनी ।सोद्यमेन पुनोऽप्यवैष्यता भानुनेव पदवी पय्ॐउचां॥ ८-४५॥आपपात सरमाङ्गदः क्षणात्सर्वतः सस्तमसाविले बिले ।गूढमत्सरविषे विशेषवान्दुर्जनस्य मनसीव सद्गुणः ॥८-४६॥यद्बभूव पुरतोऽस्य भूपतेरेककुण्डलपटासितं तमः ।तस्य तद्दिनकरांशुभासुरैर्मौलिरत्नकिरणैरभज्यत ॥८-४७॥सन्द्रहेमरजसा महौजसां अग्रणीरगरुधूपगन्धिना ।सोऽथ तेन बिलवर्त्मना शनैः क्रोशमात्रं अगमन्नरेश्वरः ॥८-४८॥_सिंहदर्शनम्लग्नसान्द्रगजशोणितच्छटैः शौर्यपावकशिखाङ्कुरैरिव ।केसरैरतिकरालकन्धरो मार्गं अस्य रुरुधेऽथ केसरी ॥८-४९॥मुक्तघर्घररवः स रंहसा तं विशामधिपं अभ्यधावत ।व्यात्तदीर्घदशनास्यकन्दरः पूर्णं इन्दुं इव सिंहिकासुतः ॥८-५०॥अर्धचन्द्रं अथ तज्जिघांसया संदधे धनुषि यावदीश्वरः ।तावदस्फुटितकोरकं पुरो बालकुन्दविटपं तं ऐक्षत ॥८-५१॥बिभ्रतो विकटदंष्ट्रं आननं कालमेघशकलासितत्विषः ।आयतोऽभिमुखं ईर्ष्यया जवात्तेन वर्त्म मुमुचे न पोत्रिणः ॥८-५२॥_गजदर्शनम्किं चिदस्य पुरतोऽथ गच्छतः कर्णतालविधुतालिपङ्क्तिना ।रुद्ध्यते स्म समदेन पद्धतिर्दीर्घदन्तमुसलेन दन्तिना ॥८-५३॥मन्द्रकण्ठनिनदोऽतिवेगवानूर्ध्ववालधिरुदग्रलोचनः ।कुण्डलीकृतकरस्तं अभ्यगात्सः क्रुधा निभृतकर्णपल्लवः ॥८-५४॥यावदङ्कुरितमत्सरोऽभवत्तस्य संमुखं अधिज्यकार्मुकः ।तावदैक्षत न सः क्व चिद्द्विपं राजगन्धमदगन्धकेसरी ॥८-५५॥उत्पतन्निपतदग्रतो मुहुर्मुञ्चदट्टहसितं सहार्चिषा ।केवलं कपिलकुन्तलं शिरः पश्यतोऽस्य न चमत्कृतं मनः ॥८-५६॥एवमादि यदभून्महीपतेरद्भुतं पथि बिभीषिकावहं ।तद्बिभेद निजसत्त्वसम्पदा तिग्मदीधितिरिव त्विषा तमः ॥८-५७॥_सरिदुत्तरणम्तां ददर्श सरितं सुदुस्तरां अग्रतोऽथ बिलकल्पविन्नृपः ।स्पर्शतः किल यदम्भसां झटित्यश्मभावं उपयान्त्यसूरयः ॥८-५८॥मारुतैरपरपारनुन्नया प्रांशु वंशलतया सः सानुगः ।तां अलङ्घयदथोपगूढया जन्मभीतिं इव योगविद्यया ॥८-५९॥_नगरदर्शनम्प्रस्थितस्तदनु सोद्यमं पुरः स अथ साहसवतां पुरःसरः ।निर्मितं मणिमयूखपल्लवैर्बालं आतपं इव व्यलोकत ॥८-६०॥इन्द्रनीलकपिशीर्षकं ततः स अभितः स्फटिकसालं ऐक्षत ।सावशेषजलनीलकोटिभिः शारदैर्घटितं अम्बुदैरिव ॥८-६१॥उत्पताकमणितोरणाङ्कितं मण्दितं कनकपल्लवस्रजा ।किं च काञ्चनकपाटसंपुटं तत्र गोपुरं अपश्यदीश्वरः ॥८-६२॥विस्मयेन विषयीकृतः पुरं तेन स अविशदवन्तिवासवः ।निर्वृतैः पदं इवोज्झितावनिः सूर्यमण्डलपथेन योगवान्॥ ८-६३॥तत्र वैद्रुमगवाक्षं उच्छ्रितं हेमहर्म्यं अवलोकते स्म स ।मेरुशृङ्गं इव धातुताम्रया सन्ध्यया कृतपदं क्व चित्क्व चिथ् ॥८-६४॥अग्रतः सश्च यशोभटोऽविशत्सोऽथ कौतुकहृतस्तदङ्गणं ।इन्द्रनीलमणिकान्तिमेचकं व्य्ॐअ सारुण इवोष्णदीधितिः ॥८-६५॥पद्मरागरचितालवालका वेदिकामणिविटङ्कविस्तृता ।तेन तत्र ददृशे कुतूहलादन्तिके कनकमाधवीलता ॥८-६६॥_स्त्रीदर्शनम्तत्तले स्थितिं उपेयुषा शमात्तेन का चिदबला व्यलोकत ।निर्गता झटिति हेमवेश्मतः श्रीः सुवर्णकमलोदरादिव ॥८-६७॥अंशुकेन शरदिन्दुबन्धुना त्यागितेव यशसावभासिता ।कान्तिमत्यधरनीलवाससा यामुनेन पयसेव जाह्नवी ॥८-६८॥बन्धुजीवकुमुदछवी मुखे बिभ्रतीव कुरुविन्दकुण्डले ।शर्वरीव सितपक्षपर्वणः शीतदीधितिपतङ्गमण्डले ॥८-६९॥शोभिता किं अपि हारलेखया भिन्नखेललोलयोरसि ।तत्क्षणस्फुटितकुन्दशुद्धया गन्धवाहपदवीव गङ्गया ॥८-७०॥आननेन ललिताक्षिपक्ष्मणा निर्यदुज्ज्वलकपोलकान्तिना ।कुर्वतीव फणिलोकं अङ्कितं यामिनीतिलकबिन्दुनेन्दुना ॥८-७१॥पुष्पदाम दधती सषट्पदं दक्षिणेन शशिपाण्डुपाणिना ।साक्षतं सदधिदूर्वयाञ्चितं हेमपात्रं इतरेण बिभ्रती ॥८-७२॥तन्निरीक्षणसविस्मयं ततः पार्थिवं जनितकौतुकः शुकः ।इत्युवाच मणिपञ्जरे स्थितो बालचूतविटपावलम्बिनि ॥८-७३॥_शुकवाक्यम्सत्क्रियां रचयितुं तवातिथेर्नर्मदा भगव्तीयं उद्यता ।श्लाघनीयचरितो जगत्त्रये कस्य नासि बहुमानभाजनं॥ ८-७४॥देव पन्नगवधूभिरुज्ज्वलं वल्लकीकलरवं प्रियैः सह ।मल्लिकाधवलं अत्र गीयते केलिरत्नभवनेषु ते यशः ॥८-७५॥दुर्मना नृप, पथामुना गता सा विलासवसतिः शशिप्रभा ।तत्सखीजनकथान्वयश्रुतेर्युष्मदागमनं ऊहितं मया ॥८-७६॥दुर्लभोऽयं अतिथिर्ममापि तद्गुह्यतां उचितया सपर्यया ।पार्थिवो हि नवसाहसाङ्क इत्येष सीयकनरेन्द्रनन्दनः ॥८-७७॥पेशलोक्तिनिपुणस्य पक्षिणस्तस्य गां इति निशम्य सस्मितः ।तां अथ प्रणमति स्म निम्नगां इन्दुसूतिं अवनीन्दुरादृतः ॥८-७८॥_नर्मदाकृतः सत्कारःकारितासनपरिग्रहे पुरो भूपतावपचितिं विधाय सा ।आस्त मौक्तिकशिलातले ततश्चेतसीव सुकवेः सरस्वती ॥८-७९॥स्थित्वाथ किं चित्तं अवन्तिनाथं अपृच्छदच्छन्नकुतूहला सा ।निवेद्यतां मानवदेव कस्मादलङ्कृता भूमिरियं त्वयेति ॥८-८०॥तस्यै शशंस निजं आ मृगयाविहाराद्वृत्तान्तं अन्तविरसं स विशुद्धवृत्तिः ।कान्तास्मृतिप्रसभकण्टकिताङ्गजात- लज्जावनम्रवदनो नवसाहसाङ्कः ॥८-८१॥इति परिमलापरनाम्नो मृगाङ्कदत्तसूनोः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते नागलोकावतारो नामाष्टमः सर्गः समाप्तः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP