संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| पञ्चमः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - पञ्चमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत पञ्चमः सर्गः Translation - भाषांतर अथ सा वदने नवेन्दुकान्ति- स्मितं अङ्के विनिवेश्य चामरं च ।जगतीपतिं एवं आ बभाषे मसृणं मूर्तिमती विदग्धतेव ॥५-१॥त्वयि पुण्यवशेन दृष्तिं आप्ते लभते शर्म गतश्रमो ममात्मा ।उदिते हि विरोचने नलिन्या वितमस्तामरसं विकासं एति ॥५-२॥अतिमात्रं उपोढसौकुमार्ये वचसि श्रोत्रं उपेयुषि त्वदीये ।झटिति प्रतिभासते ममायं कठिनश्चन्दनपल्लवावतंसः ॥५-३॥किं अयं मयि संभ्रमोऽयं आस्तां किं अयं न एव जनः परिच्छदस्ते ।उपचारविशेषसंविधाने प्रतिपच्चन्द्र इव उदितस्त्वं एव ॥५-४॥भवदिङ्गितवेदिनैव पृष्टा यदनेनाहं उपान्तवर्तिना ते ।किं उ तत्कथयामि सम्मतं चेत्क्रियतां मे स्वयं आज्ञया प्रसादः ॥५-५॥_नायकनिदेशःअभिधेहि लवः कुतूहलस्य त्वदुदन्तश्रवणे ममापि जातः ।इति सा वसुधापतेर्निदेशादथ पातालविलासिनी जगाद ॥५-६॥_भुजङ्गलोकवर्णनम्स तव श्रुतिं आप्त एव तावत्स्मरलीलाभवनं भुजङ्गलोकः ।उपयाति यदेकदेशसाम्यं न मही नापि पुरी पुरन्दरस्य ॥५-७॥अतिदुर्लभसूर्यभासि यस्मिंस्तमसां उल्लसतां तिरस्क्रियायै ।फणिनोऽरुणकान्तिभिः शिरस्थैर्मणिभिर्बालं इवातपं वहन्ति ॥५-८॥अनुलिम्पति रोदसी यथेन्दुः प्रभया मां न तथेत्यसूययेव ।पटु यः प्रमादाविलासहास- स्तबकैरिन्दुपरम्पराः प्रसूते ॥५-९॥सविलासं उदस्तहस्तमुक्तैर्निकरैर्दिग्द्विरदेन्द्रशीकराणां ।परितो निचिताः सदैव यस्मिन्ककुभस्तारिका इवावभान्ति ॥५-१०॥प्रतिभाति दधन्फणाकलापे पृथिवीं यत्र सः शेषनागराजः ।नभसो निपतञ्जवेन भित्त्वा जगतीं गाङ्ग इव च्युतः प्रवाहः ॥५-११॥_भोगवतीवर्णनम्विदिता खलु वासुकेस्त्रिलोक्यां हरकण्ठाभरणस्य भोगिभर्तुः ।ललिताद्भुतभूमिरस्ति तस्मिन्नगरी भोगवतीति राजधानी ॥५-१२॥मणिहर्म्यतलानि रत्नदीपाः फणिकान्तार्धविलोकितानि वीणाः ।ऋतवोऽप्यखिलाः समेत्य यत्र स्मरसाम्राज्यमहाधुरं वहन्ति ॥५-१३॥अनुपाधिरुपाहृतो विकासः कमलैर्यत्र विलासदीर्घिकासु ।अपि यत्र कुमुद्वतीभिरस्तः सहजश्चन्द्रमरीचिपक्षपातः ॥५-१४॥अभिकानभिसर्तुं उद्यतः सन्सपदि व्यालविलासिनीसमूहः ।भवति स्वफणामणिप्रदीपे तिमिरोत्सारिणि यत्र साभ्यसूयः ॥५-१५॥अधिरोहति यत्र वंशमुक्ता- पटलस्मेरतटा सुरस्रवन्ती ।सरितः श्रियं ईर्ष्ययेव तस्याः सुवते मौक्तिकं एव यत्पयांसि ॥५-१६॥अतिकान्तगुणाभिराममूर्तिर्मधुरेण ध्वनिना मनोहरन्ती ।विदधाति सदैव यत्र यूनां पदं अङ्के वनिता च वल्लकी च ॥५-१७॥शतशो विलसन्त्युदंशुरत्न- स्तबकाः कल्पलता यदङ्गणेषु ।प्रतिमन्द्रिरं एवं एव यस्यां अपि चिन्तामणयः पदे लुठन्ति ॥५-१८॥अपि दत्तकुतूहलाः सुराणां अपि वाञ्च्छापदं एकपिङ्गलस्य ।अपि निर्विषया मनोरथानां उरगान्यत्र विभूतयः श्रयन्ते ॥५-१९॥वसति स्वयं एव यत्र देवः सदा कल्पितहाटकेश्वराख्यः ।स्मरं ऊर्ध्वविलोचनार्चिषीव त्रिपुरं यः शरपावके जुहाव ॥५-२०॥_शङ्खपालवर्णनम्निजवंशविशेषकोऽस्ति तस्यां उरगाणां अधिपः सः शङ्खपालः ।स्रगसाविति यत्फणासु धत्ते वसुधां वासुकिना समानसारः ॥५-२१॥_शशिप्रभावर्णनम्जगदेकललाम तस्य कन्या गुणवत्यस्ति शशिप्रभा नाम्ना ।सहसैव फणभृतां प्रविष्टा भुवने राहुभयादिवेन्दुलेखा ॥५-२२॥न कयाप्यतिशय्यतेऽतिशीघ्रं यदियं कन्दुककेलिषु भ्रमन्ती ।अपरं कृतं अर्थवत्तदस्याः सुतरां नाम सखीभिराशुगेति ॥५-२३॥स्फुरदद्भुतरूपसम्पदां तां अनुकर्तुं कलयापि धार्ष्ट्यं एति ।न रतिर्न शची न चित्रलेखा न घृताची न तिलोत्तमा न रम्भा ॥५-२४॥सुरकिन्नरसिद्धकन्यकाभिः स्वकलाभ्यासवतीभिराप्तसख्या ।निखिलासु गता परं प्रकर्षं शितधीः शैशवसेव या कलासु ॥५-२५॥अनिवारितकेलिकौतुका सा सुतनुः स्नेहवंशवदेन पित्रा ।विहरत्यपचीयमानबाल्या हरशैले मलये हिमालये च ॥५-२६॥अधुना पुनोऽत्र विन्ध्यपदे विहरन्त्याः कुसुमावचूडनाम्नि ।क्वचिदप्यगमत्पलाय्य तस्याश्चपलः केलिमृगो मृगायताक्ष्याः ॥५-२७॥अतिवत्सलया समं सखीभिर्विपिने तं परितस्तया विचित्य ।पुलिने सरितः शशाङ्कसूतेः श्रमवत्येयं अनीयत त्रियामा ॥५-२८॥कलहंसकलस्वनैर्विबुद्धा परिवारप्रमदानिदेशितं सा ।निकषा निचुलप्रवालशय्यां तं अथ प्रेक्षितवत्याप्तनिद्रं॥ ५-२९॥तपनीयशिलीमुखस्तदङ्गे चकितं चित्ररुचौ तया च दृष्टः ।जलदे ललितेन्द्रचापभक्तौ अहिमांशोरिव भासुरो मयूखः ॥५-३०॥अरविन्ददलत्विषा करेण स्वयं उत्पाट्य सकौतुकं गृहीते ।अवलोकितं एतयाथ तस्मिन्विजयाङ्के नवसाहसाङ्कनाम ॥५-३१॥अविशन्नरनाथ नाम पूर्वं हृदयेऽस्याः सहसाथ पुष्पकेतुः ।अमृतांशुमरीचिलुप्तनिद्रे लभते यत्कुमुदेऽन्तरं द्विरेफः ॥५-३२॥नवमेघमलीमसाद्युगान्ते वसुधां उद्धरतो रथाङ्गपाणेः ।परितः श्रमवारिबिन्दवो ये निरपीयन्त पयोधशुक्तियूथैः ॥५-३३॥प्रकृतिः किल यस्य ते परीता परिणामेन तदन्तरेऽत्र हंसः ।शयनान्तगतं मृणालशङ्कि शृतवान्हारं अधीरलोचनायाः ॥५-३४॥उदडीयत खे मुखेन बिभ्रद्भुजगेन्द्रप्रतिमं तं अञ्जसा स ।अपदार्पितवैतनेयशङ्कः फणिकन्यासु मुहूर्तविक्लवासु ॥५-३५॥स च विन्ध्यवनान्तराजिं एतां अविशन्मारुतपीतपद्मगन्धां ।अतिदूरविकृष्टनागकन्या- चकितोदञ्चितदीर्घनेत्रमालः ॥५-३६॥अहिराजसुतानिदेशतोऽस्मिनसमाप्तेषुविलोकनोत्सवोऽपि ।अथ हंसं इतस्ततो विचेतुं विजने नागवधूजनः प्रवृत्तः ॥५-३७॥शबलास्विह कृष्णसारयूथैः समदक्रोडसनाथपल्वलासु ।गहनास्वपि तद्गवेषणायै वनलेखासु मम त्वयं प्रयत्नः ॥५-३८॥स मया न तटेषु निर्झराणां सरसां नाप्सु न पुण्डरीकषण्डे ।सरसीष्वपि नायतोर्मिलेखा न्तरपारिप्लवसारसासु दृष्टः ॥५-३९॥सितचामरधारणे नियुक्तां दुहितस्तेन भुजङ्गमाधिपेन ।अवधारय पाटलेति नाम्ना तनयां मां उरगस्य हेमनाम्नः ॥५-४०॥अचले विचयः पतत्रिणोऽयं फलितः साधु ममाहितश्रमोऽपि ।यदितः पुरुषोत्तमोऽसि दृष्टो वनमध्ये निबिडश्रियोपगूढः ॥५-४१॥उपरोधं इमं न मन्यसे चेद्यदि वास्मासु तवास्ति पक्षपातः ।वद तच्चरता क्वचिद्वनेऽस्मिन्सः सहारो विहगस्त्वया नु दृष्टः ॥५-४२॥न स दृष्टिं इतस्तवापि मन्ये तदहं तद्विचयादितो निवर्ते ।ननु ताम्यति कामं आत्तचिन्ता चिरयन्त्यां मयि साहिराजकन्या ॥५-४३॥अथ वा मृगभङ्गिनोपनीते विधिना सा नवसाहसाङ्कबाणे ।प्रणयार्पितलोचना सनामन्यधुनाप्यालिखितेव नूनं आस्ते ॥५-४४॥_पुनोऽपि पाटलोक्तिःइति सा समुदीर्य तत्पृषत्कानवलोक्यैव पुनश्चमत्कृता इव ।स्फुटकेलिमृगोपनीतबाण- स्मरणस्मेरमुखी पुनो जगाद ॥५-४५॥सो नृलोकशशी त्वं एव मन्ये मृगयाबद्धरुचिः स यत्पृषत्कः ।भुवनाभयदायिनां अमीषां भवतः संवदतीव सायकानां॥ ५-४६॥स्थितं एतदय्ॐउखेष्वमीषु स्फुतवर्णं तव नामधेयलक्ष्म ।अवनीतिलक त्वयि प्ररूढं मम सन्देहलवं बलात्प्रमार्ष्टि ॥५-४७॥समुपैति सनाथतां किं अन्यत्त्रितयेन त्रितयं नरेन्द्रचन्द्र ।त्रिदिवं नमुचिद्विषा त्वयेयं वसुधा वासुकिना रसातलं च ॥५-४८॥सनये नृपतावखण्डिताज्ञे त्वयि शासत्यवनीं दिलीपकल्पे ।विदधीत पदं सुदुर्नये कस्तं ऋते हारमलिम्लुचं विहङ्गं॥ ५-४९॥असतां असुहृन्न लज्जतेऽयं किं इति ज्याकिणलाञ्छितो भुजस्ते ।अवनौ यदनेन रक्षितायां वयं अस्यां मूषिताः पतत्रिणापि ॥५-५०॥अपयातु खगः सस्तेन कृत्यं न हि मे हारं इह त्वं एव याच्यः ।न दिशन्ति किं अत्र चोरलुप्तं बत षष्टांशभुजो वसुन्धरायाः ॥५-५१॥पथि चेदवतिष्ठसे प्रणीते मनुना नाथ तदर्प्यतां स हारः ।न नरेन्द्र भवादृशाः कदाचित्पदवीं न्यायविदां विलङ्घयन्ति ॥५-५२॥निजं अर्थयसे शिलीमुखं चेद्भवता यत्नवतापि किं न लभ्यः? ।त्वं अनागसि यच्छशिप्रभायाः प्रहरन्केलिमृगे कृतव्यालीकः ॥५-५३॥अथ वा मृगयिष्यते न हारं विशिखं दास्यति चोरगेन्द्रकन्या ।त्वयि नेत्रपथातिथित्वं आप्ते सुलभोऽस्या हि महाजनोपरोधः ॥५-५४॥अतिदूरतो दृश्यतेऽयं त्वं इवाभ्युन्नतिमानिनो नगेन्द्रः ।वहति प्रणयोपरुद्धकूला कलहंसैरमुं अन्तरेण रेवा ॥५-५५॥अमृतेन्दुकलासहोदरास्याः सुतनुस्तीरतलेऽवतिष्ठते सा ।उरसीव पयोधिराजकन्या वनमालाभरणे रथाङ्गपाणेः ॥५-५६॥तदितः स्वयं एव देव गत्वा पुलिनं स्ॐअभुवस्तरङ्गवत्याः ।खगलुप्तविभूषणं क्षितौ ते फणिराजेन्द्रसुतां विबोधयेहि ॥५-५७॥इति तद्वचसा स्मरैकदूत- प्रसवोल्लासवसन्तवासरेण ।सो नृपः कं अपि प्रमोदं आपत्घनराजिध्वनिनेव नीलकण्ठः ॥५-५८॥अवदच्च विहस्य पार्थिवेन्द्रः फणिराजेन्द्रसुताविलासिनीं तां ।वचसोत्कयता मयूरशावान्नवजीमूतनिनादसोदरेण ॥५-५९॥अपि नाम मृदूनि वेत्सि वक्तुं निपुनं न्यायं अनुज्झती वचांसि ।प्रसभं विहितास्त्वया यदेते वयं आत्मस्खलितेऽपि सापराधाः ॥५-६०॥इदं ॐ इति गृह्यते वचस्ते सह मेधाविनि कस्त्वया विवादः ।यदिमा विशदोद्गमा गिरस्ते पथि सिद्धान्तसमीक्षिते चरन्ति ॥५-६१॥तदनेन विनोदयाशु तावन्मम हारेण मनः शशिप्रभायाः ।इह पल्वलसैकतेषु यावत्तदलङ्कारं अवेक्षितुं यतिष्यते ॥५-६२॥_हारप्रदानम्अथ हारं अनादरेण कण्ठात्स्वयं आकृष्य सः कृष्टचन्द्रशोभं ।विहसन्नरविन्दकोशताम्रे निददे पाणितले विलासवत्याः ॥५-६३॥अपि कोशगृहोदरे दुरापं फणिनां भर्तुरुपोढविस्मया सा ।तं उदञ्चितपक्ष्मणा मृगाक्षी लिखितेनैव ददर्श लोचनेन ॥५-६४॥_शशिप्रभाहारप्रदानम्अवकृष्य सलीलं उत्तरीयात्सितमेघादिव तारकावितानं ।उरसा स बभार हारं ईशः स्तनपर्यङ्कशयं शशिप्रभायाः ॥५-६५॥वदति स्म हसन्रमाङ्गदस्तां उरगस्त्रीं अतह्भर्तुरिङ्गितज्ञः ।यदि कौतुकवत्यमत्सरस्ते तदितः किं चिदितोऽवलोकयेति ॥५-६६॥अथ हारलताविकृष्टदृष्टिः सहसा वारिविहङ्गमावलुप्तं ।उरगेन्द्रसुताविभूषणं तन्नृपतेर्वक्षसि पाटला ददर्शः ॥५-६७॥_पुनः पाटलावाक्यम्दशनच्छदं आत्तबिम्बशोभं स्नपयन्ती सुधयेव हासकान्त्या ।अवदच्च वाचांसि पार्थिवं सा चतुरैवं परिहासपेशलानि ॥५-६८॥अपहर्तुं अगास्त्वं एव हारं किं इतः कल्पितराजहंसरूपः ।विदितोऽसि घना तवोरगाणां नगरेऽस्त्येव हि कामरूपवार्ता ॥५-६९॥परवञ्चनपण्डिता मतिस्ते यदि नैवं कथं अन्यथा नरेन्द्र ।इदं आभरणं हरस्यरण्ये हरहासैकसितं शशिप्रभायाः ॥५-७०॥अवनीवलये त्वं आत्तदण्डः सहसे नाविनयांशं इत्यवैमि ।अथ च स्थितिं आत्मना विधत्से विषये दस्युनिषेविते किं एतथ् ॥५-७१॥क्षितिप स्मयसे किं एष केलिर्न भवत्यर्पय हारं अस्मदीयं ।नयवर्त्मजुषो भवादृशाः किं न परस्वग्रहणादिह त्रपन्ते ॥५-७२॥अथवा परतोऽस्तु नर्म नास्यां भुवि देवेन समोऽस्ति पार्थिवोऽन्यः ।अपविद्धनया न यस्य दृष्टेरपसर्पन्त्यथ खेचराः किं अन्ये ॥५-७३॥अनयोः किं अपि त्वया विलासिन्परिवर्तोऽयं अकारि हारयोर्यः ।वचसां अवकाशं ईश दत्ते स न कस्यानृजुचेतसो जनः? ॥५-७४॥विहितो न हि वक्षसि त्वयायं नृप हारः फणिराजकन्यकायाः ।किं अपीप्सितं आत्मनो विधातुर्विहितं सूत्रं इदं मनोभवेन ॥५-७५॥ननु याम्यमुना शशिप्रभायास्तव हारेण मनो विनोदयामि ।त्वयि साप्यलं एव सान्द्रचेतः सुतनुः स्नेहरसार्द्रतां उपैतु ॥५-७६॥उचितं निजसायकानुरोधादहिराजेन्द्रसुतोपसर्पणं ते ।परतोऽस्तु शरस्त्वदर्थिता सा किं उ न त्यागवशंवदा ददाति ॥५-७७॥सरसोऽस्य विमुञ्च तीरलेखां अनुरेवा पुलिनं गृहाण यात्रां ।उरगाधिपरूपपक्षपातं शमय व्यालवधूविलोचनानां॥ ५-७८॥_शशिप्रभादर्शनार्थं गमनम्इति वल्गु वचो निशम्य तस्याः स नृपः पन्नगवामलोचनायाः ।स्थितं अत्र वचस्यलङ्घनीये तव कल्याणि मयेति तां उवाच ॥५-७९॥अथ सानृजुवादिनी विधाय क्षितिपालं पुरतश्चचाल बाला ।हृदयेन पराममर्श चैवं विलसन्मांसलविस्मयो नरेन्द्रः ॥५-८०॥अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च सः पतगः क्वेयं अबला ।क्व तत्कन्यारत्नं ललितं अहिभर्तुः क्व च वयं स्वं आकूतं धाता किं अपि निभृतं पल्लवयति ॥५-८१॥अथ मदगजलीलाखेलगामी सः कृत्वा कनकविशिखयाच्ञाव्याजं अव्याजकान्तः ।अवनिहरिणलक्ष्मा साहसोपार्जितश्रीरहिपरिवृढकन्यालोकनाय प्रतस्थे ॥५-८२॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभावलोकनार्थप्रस्थानं नाम पञ्चमः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP