संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| प्रथमः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - प्रथमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत प्रथमः सर्गः Translation - भाषांतर अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलां ।जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः ॥१-१॥जटाहिरत्नद्युतिपाटलोऽव्यात्स वः शशी शङ्करमौलिरत्नं ।श्रुतावशोकाङ्कुरकौतुकेन यं कर्तुं इच्छत्यचलेन्द्रकन्या ॥१-२॥कुम्भस्थली रक्षतु वो विकीर्ण- सिन्दूररेणुर्द्विरदाननस्य ।प्रशान्तये विघ्नतमश्छटानां निष्ठ्यूतबालातपपल्लवेव ॥१-३॥चक्षुस्तदुन्मेषि सदा मुखे वः सारस्वतं शाश्वतं आविरस्तु ।पश्यन्ति येनावहिताः कवीन्द्रास्त्रिविष्टपाभ्यन्तरवर्ति वस्तु ॥१-४॥_प्राचीनकविवर्णनम्तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति ।निस्तृंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ॥१-५॥पूर्णेन्दुबिम्बादपि सुन्दराणि तेषां अदूरे पुरतो यशांसि ।ये भर्तृमेण्ठादिकवीन्द्रसूक्ति- व्यक्तोपदिष्टेन पथा प्रयान्ति ॥१-६॥सरस्वतीकल्पलतैककन्दं वन्दामहे वाक्पतिराजदेवं ।यस्य प्रसादाद्वयं अप्यनन्य- कवीन्द्रचीर्णे पथि सञ्चरामः ॥१-७॥दिवं यियासुर्मम वाचि मुद्रां अदत्त यां वाक्पतिराजदेवः ।तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां संप्रति सिन्धुराजः ॥१-८॥_कवेः शालीनतादिनैते कवीन्द्राः कति काव्यबन्धे तदेष राज्ञा किं अहं नियुक्तः ।किं वालुकापवर्तके धरेयं आरोप्यते सत्सु कुलाचलेषु ॥१-९॥अहो महत्साहसं एतदेव यद्वर्णणीयो नवसाहसाङ्कः ।दूरे परिच्छेदकथा हि सत्यं एतद्गुणानां उदधेरपां च ॥१-१०॥भक्त्याथवास्यैव मम प्रबन्धे सूक्ष्मोऽयं उन्मीलति शक्तिलेशः ।उल्लङ्घितो यत्कपिना पयोधिः सेवानुभवः स रघूद्वहस्य ॥१-११॥समत्सरे चेतसि दुर्जनानां न जातुचित्सूक्तिगुणो गुणाय ।निसर्गकृष्णेन्द्रवधूकपोले निरर्थकः कुङ्कुमपत्त्रभङ्गः ॥१-१२॥किं अन्यदस्याश्चरितैर्नृपस्य मुक्तावदातैः कृतमण्डनायाः ।मदीयसूक्तेर्मुकुलीभवन्तु स्वभावशुद्धानि सतां मनांसि ॥१-१३॥नमोऽस्तु साहित्यरसाय तस्मै निषिक्तं अन्तः पृषतापि यस्य ।सुवर्णतां वक्त्रं उपैति सधोर्दुर्वर्णतां याति च दुर्जनस्य ॥१-१४॥श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा ममाथवा कं न हरन्ति वाचः ।कस्यात्र लोभाय न शुक्तयस्ता मुक्ता हि यासां उदरे स्फुरन्ति ॥१-१५॥_प्रतिज्ञाएतान्यवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि ।सम्प्रत्यहं पश्यत! दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥१-१६॥_अथ उज्जयिनीवर्णनम्अस्ति क्षितऊज्जयिनीति नाम्ना पुरी विहायस्यमरावतीव ।बबन्ध यस्यां पदं इन्द्रकल्पः श्रीविक्रमादित्य इति क्षितीशः ॥१-१७॥आमञ्जुगुञ्जत्कलहंसपङ्क्ति- विकस्वराम्भोजरजःपिशङ्गा ।आभाति यस्याः परिखा नितम्बे सशब्दजम्बूनदमेखलेव ॥१-१८॥प्राकारवप्रच्छलतः शरीरं आवर्त्य लीलाशयनं मुरारेः ।यत्रान्तरस्थायिनिधानरक्षां विधातुं उन्मग्न इवोरगेन्द्रः ॥१-१९॥पदे पदे सान्द्रसुधोज्ज्वलानि गृहाणि या नाकसदां बिभर्ति ।अभ्युद्गतानीव फणीन्द्रलोकं आपूर्य तद्भूमिभृतां यशांसि ॥१-२०॥हिमच्छटाहारिभिरंशुजालैः प्रालम्बिमुक्ताफलजालकानि ।विलासिनीविभ्रममन्दिराणि यस्यां हसन्तीव परस्परस्य ॥१-२१॥गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः ।रूपं समुन्मीलितसद्विलासं अस्त्रं विलासाः कुसुमायुधस्य ॥१-२२॥यत्राननैरेणादृशां अभिख्यां सिताश्मवातायनपङ्क्तिरेति ।अम्भोरुहैरुज्ज्वलहेमक्ëप्तैराकाशगङ्गाजलवेणिकेव ॥१-२३॥विधूयमानाः पवनेन यस्यां नीलाश्मवेश्मारुणवैजयन्त्यः ।भिन्नाञ्जनश्यामघनोद्गतानां तडिल्लतानां द्युतिं आवहन्ति ॥१-२४॥उदेति कान्तामणिमेखलानां गृहे गृहे यत्र मुहुर्निनादः ।आयाति योऽनङ्गजयद्विपस्य मदावतारोत्सवडिण्डिमत्वं॥ १-२५॥मुखेन्दुभिः पौरविलासिनीनां कपोलकान्त्या कृतसंविभागः ।न याति कार्श्यं बहुलेऽपि यत्र वातायनासन्नतरः शशाङ्कः ॥१-२६॥न पक्षपातेन वदामि सत्यं उषस्सु यस्यां भवनाङ्गनेभ्यः ।सम्मर्जनीभिः परतः क्रियन्ते विसूत्रितैकावलिमौक्तिकानि ॥१-२७॥यस्यां असङ्क्षिप्तदृशां स्तनाङ्के कस्तूरिकापत्त्रलता चकास्ति ।शरासनाभ्यासविधौ समाप्ते मुक्तेव गोधा मकरध्वजेन ॥१-२८॥विलासिनीसद्मलसत्पताका- पटाञ्चले काञ्चनकिङ्किणीनां ।निरन्तरैर्या रणितैरजस्रं आज्ञां इवोद्घोषयति स्मरस्य ॥१-२९॥प्रतिक्षणं या गलितांशुकानां अनङ्गलीलाकलहोत्सवेषु ।अनल्पकृष्णागुरुधूमभङ्ग्या वामभ्रुवां अर्पयतीव वासः ॥१-३०॥यत्राष्टमीचन्द्रं उपेयिवांसं आलम्ब्य सौधेष्वसमग्रकान्तिं ।केशाहृतैः केतकगर्भबर्हैरापूरयन्त्यर्धं अरालकेश्यः ॥१-३१॥लीलाकटाक्षे मदिरेक्षणानां सम्मोहनास्त्रस्फुरितं निवेश्य ।रत्या सह कृईडति पुष्पधन्वा यस्यां अशोकद्रुमवीथिकासु ॥१-३२॥जाने जगन्मोहनकौतुकेन विधाय कूजामिषं अन्यपुष्टैः ।अहर्निशं चूतवनेषु यस्यां अधीयते मान्मथं अस्त्रवेदं॥ १-३३॥दिक्चक्रसंचारिमरीचिदण्ड= च्छलेन चामीकरतोरणानां ।अवैमि दिक्पालपुरीर्विजित्य या हेमवेत्रग्रहणे नियुङ्क्ते ॥१-३४॥उल्लासिषु स्वर्णगवाक्षपङ्क्तेर्या रश्मिदण्डेषु विघूर्णमानैः ।भात्यग्रवेदिस्फटिकांशुजालैर्दोधूयमानोज्ज्वलचामरेव ॥१-३५॥यस्यां गृहप्राङ्गनपद्मराग- रश्मिच्छटापाटलं अन्तरिक्षं ।आलिङ्गितं किंशुकशोणभासा सन्ध्यातपेनेव सदा विभाति ॥१-३६॥अवाप्य यस्यां गृहदीर्घिकाच्छ- वैडूर्यसोपानमयूखसख्यं ।हारीतशङ्कां कलहंसशावा वामभ्रुवां प्रत्यहं अर्पयन्ति ॥१-३७॥निकामं अच्छैः प्रमदाकपोलैर्यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते ।स्ववक्त्रसौन्दर्यविलोकनेषु विलासिनो दर्पणनिर्व्यपेक्षाः ॥१-३८॥पराङ्मुखीनां अपि रत्नभित्तौ प्रसादवत्तद्वदनं विलोक्य ।यस्यां युवानो हरिणेक्षणानां अलीककोपं सहसा विदन्ति ॥१-३९॥कुर्वन्ति यस्यां कुसुमेषुकेलि- श्रमोन्मिषत्स्वेदलवास्तरुण्यः ।कपोलकालागुरुपत्त्रवल्ली- कल्माषं अम्भो गृहदीर्घिकासु ॥१-४०॥यस्यां समुन्मीलति सुन्दरीणां सा कापि सौभाग्यविशेषलक्ष्मीः ।विलासमुक्तागुणवद्यदासां सदा प्रियस्तिष्ठति कण्ठलग्नः ॥१-४१॥अवैमि गीतेन हृते कुरङ्गे पुरन्ध्रिभिः सौधतलस्थिताभिः ।श्यामासु यस्यां लभते तदच्छ= कपोलबिम्बानुकृतिं मृगाङ्कः ॥१-४२॥दुर्गेति सर्वत्र गता प्रसिद्धिं नगेन्द्रकन्येव सनीलकण्ठा ।या लग्नकाञ्चीविषयेण कान्तिं सिंहासनेनातितरां बिभर्ति ॥१-४३॥वृन्तादपास्तैर्मरुता विकीर्णैः सुगन्धिभिस्तीरतरुप्रसूनैः ।शिप्रासरित्कूलतमालनीला विभाति यस्याः कबरीलतेव ॥१-४४॥धूमेन या नैकमुखोगतेन संवेष्ट्यमाणा परितश्चकास्ति ।मदात्तरत्नेति समत्सरेण कृतोपरोधेव महार्णवेण ॥१-४५॥विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि ।बिभर्ति यस्यां अपि वक्रिमाणं एको महाकालजटार्धचन्द्रः ॥१-४६॥ध्वजाग्रलग्नेन विलम्बता खं अनेकरत्नांशुकदम्बकेन ।यस्यां स चण्डीपतिमण्डपोऽपि बिभर्ति मायूरं इवातपत्त्रं॥ १-४७॥पुरा किल ब्रह्मकमण्डलोर्यतापूरितं पुण्यतमाभिरद्भिः ।धत्तेऽत्र या तत्त्रिपुरान्तकस्य तडागं आदर्शं इवाङ्कदेशे ॥१-४८॥यस्यां अनेकामरवेश्मराजिर्मणिध्वजाग्रोच्छलितैर्मयूखैः ।लिखत्यमर्त्यप्रमदाकुचेषु विचित्रवर्णा इव पत्रलेखाः ॥१-४९॥यस्यां विसूत्रोज्झितमेखलानि तथा शुकावर्तितसीत्कृतानि ।शंसन्ति संकेतं उषस्सु यूनां शिप्रातटोद्यानलतागृहाणि ॥१-५०॥मनोहरैः कामिजनस्य यस्यां नीरन्ध्रनिर्यन्मृगनाभिगन्धैः ।सचन्दनैः काञ्चनकेलिशैलैः कुचैरिवोद्यानभुवो विभान्ति ॥१-५१॥गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।यत्रोल्लसत्फेनततिच्छलेन मुक्तार्द्रहासेव विभाति शिप्रा ॥१-५२॥संसर्गं आसाद्य विलासिनीनां विलासवेश्मागुरुधूपधूमैः ।बद्धास्पदाः सौधशिखासु यस्यां सुगन्धि तोयं जलदा वमन्ति ॥१-५३॥सत्पुष्करोद्द्योतितरङ्गशोभि- न्यमन्दं आरब्धमृदङ्गवाद्ये ।उद्यानवापीपयसीव यस्यां एणीदृशो लास्यगृहे रमन्ते ॥१-५४॥माणिक्यवातायनकान्तिजाल- विलुप्तरथ्यातिमिरोत्करासु ।श्यामासु यस्यां प्रमदाः कथं चित्सङ्केतं उत्कम्पिकुचाः प्रयान्ति ॥१-५५॥नवाम्बुवाहप्रतिबिम्बवत्यां यत्रोच्चहर्म्यारुणरत्नभूमौ ।व्यक्तिं लभन्ते सुरसुन्दरीणां सालक्तकाः प्रावृषि पादमुद्राः ॥१-५६॥कृतावधानातिशयेन मन्ये या वेधसा मध्यमलोकरत्नं ।स्वशिल्पविज्ञानपरप्रकर्ष- प्रकाशनायात्र विनिर्मितेव ॥१-५७॥_अथ नायकवर्णनम्राजास्ति तस्यां स कुलाचलेन्द्र- निकुञ्जविश्रान्तयशस्तरङ्गः ।भास्वान्ग्रहाणां इव भूपतीनां अवाप्तसंख्यो धुरि सिन्धुराजः ॥१-५८॥निर्व्यूढनानाद्भुतसाहसं च रणे वृतं च स्वयं एव लक्ष्म्या ।नाम्ना यं एके नवसाहसाङ्कं कुमारनारायणं आहुरन्ये ॥१-५९॥सहेलं अभ्युद्धरता धरित्रीं मग्नां द्विषद्वारिनिधावगाधे ।येनात्र नीता पृथुविक्रमेण व्यक्तिं जगत्यादिवराहलीला ॥१-६०॥उद्दामदुग्धाब्धितरङ्गहासे यस्यारिकान्ताकुचमण्डलानि ।हाराः पतत्साञ्जनबाष्पपङ्क- कलङ्कभीत्येव परित्यजन्ति ॥१-६१॥सद्यः करस्पर्शं अवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥१-६२॥पराङ्मुखेनापि सदा परस्वे पत्या भुवः सागरमेखलायाः ।अहो यशः पूर्वमहीपतीनां अनाविलं येन बलाद्विलुप्तं॥ १-६३॥चित्तं प्रसादश्च मनस्विता च भुजं प्रतापश्च वसुन्धरा च ।अध्यासते यस्य मुखारविन्दं द्वे एव सत्यं च सरस्वती च ॥१-६४॥यस्याप्सरोभिः परिगीयमानं आकर्ण्य बाह्वोर्विजयप्रपञ्चं ।शचीकुचस्पर्शं इवाप्य धत्ते र्ॐओद्गमाध्यासितं अङ्गं इन्द्रः ॥१-६५॥प्रसाधिता येन च बाल्य एव चतुर्भिरुत्साहवता चतस्रः ।श्रुतेन बुद्धिः प्रभुता नयेन त्यागेन लक्ष्मीर्वसुधा बलेन ॥१-६६॥रणे रणे मुक्तकृपः कृपाणं यः शातधारं कृतवान्कृतास्त्रः ।अनेकराजन्यघटाकिरीट- माणिक्यशाणोपलपट्टिकासु ॥१-६७॥भरेण भूमेः स्फुटं आ नमन्त्याः पांसुच्छटाः शेषफणामणीनां ।न्यमीलयन्यद्विजयप्रयाणे नागाङ्गनानां नयनोत्पलानि ॥१-६८॥अन्योन्यसंश्लेषविशीर्णहार- च्युतेन सेवावसरे नृपाणां ।कीर्णासु मुक्तानिकरेण यस्य कक्ष्यासु वारप्रमदाः स्खलन्ति ॥१-६९॥आक्षिप्य हारान्निजविक्रमाग्नि- स्फुलिङ्गशङ्कां अनुसन्दधन्ति ।येनारिकान्ताकुचमण्डलेषु गुञ्जाफलान्याभरणीकृतानि ॥१-७०॥कृपाणपातैर्दलतां अराति- करीन्द्रकुम्भस्थलमौक्तिकानां ।धूलिच्छटा मांसलयन्ति यस्य समुद्गतान्याजिमुखे यशांसि ॥१-७१॥इन्दुद्युतिः कुन्दसितान्दधाना गुणाननङ्गोत्सववैजयन्ती ।येन द्विषां दूरं अनायि कण्ठादेकावली वामविलोचना च ॥१-७२॥यस्मिन्वहत्यम्बुधिनेमिं उर्वीं मौर्वीकिणश्यामलदीर्घदोष्णि ।विभाव्यते पौरवराङ्गनानां मध्यं परं धाम दरिद्रतायाः ॥१-७३॥आक्रान्तदिङ्मण्डलकुन्तलेन्द्र- सान्द्रान्धकारान्तरितं रणे यः ।स्वराज्यं अस्त्रारुणमण्डलाग्रो गृहीतवान्दीधितिमानिवाहः ॥१-७४॥आकम्पितानां मरुतेव यस्य दोष्णाजिभूमावतिदक्षिणेन ।अजायतारिप्रमदालतानां बाष्पोदबिन्दूत्करपुष्पमोक्षः ॥१-७५॥विपक्षहृद्भङ्गकृता नितान्तं भ्रूलेखयाकुञ्चितयोल्लसन्त्या ।नाकारमात्रेण परन्तपस्य यस्यान्वकारि क्रिययापि चापं॥ १-७६॥दोश्चन्दनानोकहं आप्य यस्य समुल्लसत्सान्द्रयशःप्रसूना ।गतातिवृद्धिं लवलीलतेव निबद्धमूला परमारलक्ष्मीः ॥१-७७॥कृतानतिभ्यः सहसा ददाति यः साम्परायेष्वभयं रिपुभ्यः ।यशश्च गृह्णाति तुषारहार- मृणालकर्पूरपरागपाण्डु ॥१-७८॥प्रकाशिताशं परितः प्रजानां यस्योदयं धामनिधेर्वदन्ति ।मुक्ताञ्जनध्वान्तपरिग्रहाणि नेत्राणि शत्रुप्रमदाजनस्य ॥१-७९॥यस्य प्रयाणे पृतनाभरेण परिस्खलत्सप्तसमुद्रमुद्रा ।परस्परक्षोदसमाकुलासु दोलायते भूः फणभृत्फणासु ॥१-८०॥विभिन्नमानं कमलेक्षणानां व्यक्तानुभावं भुवनत्रयेऽपि ।आहुर्जना दीर्घगुणाभिरामं यं एकचापं कुसुमायुधस्य ॥१-८१॥असंशयं प्रागसृजद्विधाता यं एकं एव त्रिजगद्वदान्यं ।कल्पद्रुमादीनथ तैस्तदीय- निर्माणशेषैः परमाणुलेशैः ॥१-८२॥अकृत्रिमत्यागसमुद्गतानि विपक्वतालीदलपाण्डुराणि ।आशालतानां वलयेषु भर्तुर्यशांसि यस्य स्तबकीभवन्ति ॥१-८३॥यत्र प्रतापोर्जितराजचक्र- किरीटरत्नद्युतिचुम्बिताङ्घ्रौ ।यथार्थतां याति ययातिपाण्डु- दिलीपतुल्यौजसि राजशब्दः ॥१-८४॥उच्छिन्दतः क्ष्मासरसीं विगाह्य धर्मक्रियापङ्कजिनीवनानि ।स्वैरप्रचारः कलिकुञ्जरस्य येनाङ्कुशेनेव बलान्निरुद्धः ॥१-८५॥चिरं विभिन्नाः कुमुदेन्दुकुन्द- भासः समग्रा अपि यत्र ते ते ।अन्योन्यं एकत्र निवाससौख्य- कुतूहलेनेव गुणा घटन्ते ॥१-८६॥कान्त्यानुलिप्तानि विलोचनानां आ पाटलानां अतिरोदनेन ।सकुङ्कुमानीव पुनो भवन्ति यस्यारिनारीकुचमण्डलानि ॥१-८७॥श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि ।किं अन्यदारोहति यस्य साम्यं न रन्तिदेवो न पृथुर्न पार्थः ॥१-८८॥_सचिववर्णनम्साम्राज्यभारोद्वहनप्रगल्भो यशोभटाख्यः सचिवोऽस्ति यस्य ।स्वसूक्तिचर्यास्वपरेण नाम्ना रमाङ्गदं यं कवयो वदन्ति ॥१-८९॥_कुलराजधानीवर्णनम्विजित्य लङ्कां अपि वर्तते या यस्याश्च नायात्यलकापि साम्यं ।जेतुः पुरी साप्यपरास्ति तस्य धारेति नाम्ना कुलराजधानी ॥१-९०॥तस्यां स साहसजितावनिपालमौलि- रत्नांशुपल्लवितकाञ्चनपादपीठः ।देवः क्षमावलयं एतदुदञ्चितैक- लीलातपत्रसुलभाभरणं भुनक्ति ॥१-९१॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नगरीनरेन्द्रवर्णनो नाम प्रथमः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP