संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| एकादशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - एकादशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत एकादशः सर्गः Translation - भाषांतर शत्रुजयार्थं प्रस्थानम्अथ बिभ्रत्सरागेण हृदयेन कृशोदरीं ।सः प्रतस्थे महीनाथः करेण च धनुर्लतां॥ ११-१॥इन्द्रनीलप्रतोलीतः स निर्गच्छन्पतिः श्रियः ।तत्कान्तिश्यामतां गत्वा क्षणं कृष्ण इवाबभौ ॥११-२॥आसन्नपद्मसरसा कुसुमानम्रशाखिना ।सो नर्मदोपदिष्टेन गन्तुं प्रववृते पथा ॥११-३॥यान्तं एकान्तशिशिराः समीरास्तं सिषेविरे ।एलालवङ्गकङ्कोल- जातीफलसुगन्धयः ॥११-४॥चक्रस्तस्यानिलस्पर्श- क्वणत्काञ्चनपल्लवाः ।मौक्तिकस्तबकस्मेरा विस्मयं रत्नवीरुधः ॥११-५॥अमन्दमारुताक्षेप- मुक्तमुक्ताफलच्छलाथ् ।चलद्वंशलता मूर्ध्नि तस्य लाजानिवाकिरन् ॥ ११-६॥अगलन्कुसुमव्याजात्तस्मिन्नभ्यर्णगामिनि ।पातालकल्पवृक्षाणां आनन्दाश्रुलवा इव ॥११-७॥अरविन्दमुखक्रोड- क्रीडन्मुखरषट्पदा ।अनामयं इवापृच्छत्तं अभ्यागतं अब्जिनी ॥११-८॥शशिप्रभाक्षिविस्तार- संवादिन्यः पदे पदे ।तं किं अप्यार्द्रतां निन्युररण्यहरिणीदृशः ॥११-९॥उपयुक्तामृतस्पर्धि- नारिकेलफलोदकान् ।आस्वादितलवाङ्गैला- पूगनागलतादलान् ॥ ११-१०॥शय्यीकृतातनुस्वर्ण- कदलीबालपल्लवान् ।विष्टरीकृतविस्तीर्ण- चन्द्रकान्तशिलातलान् ॥ ११-११॥तत्कालोचितकर्तव्य- व्यावृत्तैकरमाङ्गदान् ।आवृत्तिविहितप्रेयः- फणिराजसुताकथान् ॥ ११-१२॥हृदयन्यस्तकर्पूर- मृणालनलिनीदलान् ।पुंःकोकिलकुलोल्लाप- जनितस्मरसञ्ज्वरा ॥११-१३॥जाम्बूनदलतागुल्म- विहिताश्रयसौहृदान् ।गच्छन्सस्तत्र कति चिन्निवासान्व्यधिताध्वनि ॥११-१४॥_वङ्कुमुन्याश्रमप्राप्तिःसंप्राप पृथिवीपालः कालेन कियताप्यथ ।सः कूलोपान्तविचरन्- यङ्कु वङ्कुतपोवनं॥ ११-१५॥_आश्रमवर्णनम्हृतं कुतूहलेनालं तदालोकनजन्मना ।पतिं मध्यमलोकस्य तं जगाद रमाङ्गदः ॥११-१६॥सीमा सतीतिशब्दस्य सकुशाङ्काल्पपल्लवा ।मैथिलीव श्रियं धत्ते कां अप्याश्रमभूरियं॥ ११-१७॥इतो वान्ति हविर्धूम- लतालस्यप्रदा इमे ।मरुतः पावनाः पक्व- पुरोडाशसुगन्धयः ॥११-१८॥इतो हिरण्मयी भूमिस्तरवो हेमवल्कलाः ।उन्निद्रहेमपद्मानि पयांसीव पदे पदे ॥११-१९॥काकपक्षाङ्कमूर्धानः पश्यैते गुरुशिक्षया ।बटवः खण्डयन्त्यत्र समिधश्च पदानि च ॥११-२०॥अनया साम गायन्त्या स्वरसंशयवानयं ।इतः करोति कलहं शुकः सारिकया समं॥ ११-२१॥इदं अत्राद्भुतं पश्य मदक्लिन्नं गजस्य यथ् ।गण्डलेखां नखाग्रेण शनैः कण्डूयते हरिः ॥११-२२॥प्रभामण्डलपर्यस्त- तमसः शतशः पथि ।तवापतन्ति पाताल- रवयोऽमी महर्षयः ॥११-२३॥एषां द्वितयं एताभिः कपिलाभिरलङ्कृतं ।उटजप्राङ्गणं गोभिर्जटाभिरभितः शिरः ॥११-२४॥इतो गात्रपरावृत्ति- भग्नास्थि पुरुषेतरान् ।मुनेः शय्याकुशानत्ति बालः कस्तूरिकामृगः ॥११-२५॥इतोऽप्ययं ऋषिः पश्य जपापाटलयानया ।गवानुगम्यते सायं संध्येव दिवाकरः ॥११-२६॥सहसैवातिथिः प्राप्तः कोऽप्ययं भवतां इति ।एष प्रत्युटजं वक्ति ससंभ्रमं अयं शुकः ॥११-२७॥अतः संप्रति वीक्षन्ते कौतुकोत्तानितेक्षणाः ।त्वां इन्दुं इव पर्याप्त- मण्डलं मुनिकन्यकाः ॥११-२८॥भूदत्तस्मरसाम्राज्यं मुखश्रीतर्जितेन्दु च ।आसां इन्दीवराक्षीणां अलङ्कारो नवं वयः ॥११-२९॥मुक्तास्त्रः स्त्रीषु कन्दर्पो देवात्रानुशयादिव ।शङ्के संत्यज्य कोदण्डं आत्तदण्डस्तपस्यति ॥११-३०॥_वङ्कुमुनिदर्शनम्तस्मिन्नित्युक्तवत्येव तथा सविधवर्त्मनि ।ततः पृथ्वीशशाङ्केन वङ्कुमुनिरदृश्यत ॥११-३१॥अंसावलम्बिनीर्बिभ्रत्सन्ध्याभ्रकपिशा जटाः ।प्रसृता इव निर्गत्य परमज्योतिषः शिखाः ॥११-३२॥दधद्यज्ञोपवीतेन सीमन्तितं उरःस्थलं ।जाह्नवीनिर्झरेणेव नभः प्रालेयपाण्डुना ॥११-३३॥शुद्धैकगुणसंपृक्तां अक्षमालां दधत्करे ।मूर्तां तीव्रतपःसिद्धिं आत्मनः फलितां इव ॥११-३४॥योगक्षेमोपपत्त्यर्थं उपविष्टः कुशासने ।नप्तेव मैथिलीभर्तुरतिथिर्नाम पार्थिवः ॥११-३५॥प्रियस्ॐअः सदायुक्तः प्रियया चानसूयया ।पात्रं अत्रिरिवोग्राणां तपसां तेजसां इव ॥११-३६॥सो दृष्टिपथं आयाति ययातिप्रतिमे नृपे ।तुतोष कस्य वा न स्यादाकृतिस्तस्य सा मुदे ॥११-३७॥ततः कृतप्रणामस्य तस्य प्रणतभूभृतः ।विदधे स विशाम्पत्युरातिथ्यं अत्तिथिप्रियः ॥११-३८॥अथादूरे सुखासीनः सुखासीने महीभृति ।इति सूनृतया वाचा स वक्तुं उपचक्रमे ॥११-३९॥अद्य नः पुण्यबीजेन मुक्तो यत्सत्यं अङ्कुरः ।ललाम लोकत्रितये येन त्वं अवलोकितः ॥११-४०॥तव शंसति सौभाग्यं अभिजातेयं आकृतिः ।इन्दोः सुधानिधानत्वं ज्योत्स्नया यत्प्रतीयते ॥११-४१॥यथा प्रदेशं आयातैर्व्यक्तिं वज्राङ्कुशादिभिः ।चक्रवर्तीत्यनुक्तोऽपि चिह्नैस्त्वं अनुमीयसे ॥११-४२॥त्वदर्शनोत्सवेनैव कृतार्थं चक्षुरद्य नः ।विमुञ्चति शरच्चन्द्रे चिररूढं अपि स्पृहां॥ ११-४३॥हेतुद्वितयं एवात्र परमानन्दसम्पदः ।परब्रह्मोपलब्धिर्वा सङ्गतं वा भवादृशां॥ ११-४४॥अकृत्वा भवतः प्रश्नं न स्थातुं अहं उत्सहे ।धीरतां मम भिन्दन्ति यत्कौतुकरसोर्मयः ॥११-४५॥त्वया महीभृतां अत्र वंशः केषां अलङ्कृतः? ।श्रोत्रपीयूषगण्डूषः कानि नामाक्षराणि ते ? ॥११-४६॥अनेन गुणिना सार्धं धनुषानुचरेण च ।केन कार्यातिभारेण त्वं एतां आगतो भुवं ? ॥११-४७॥_रमाङ्गदवाक्यम्इत्युक्त्वा विरते तस्मिन्राज्ञा सस्मितं ईक्षितः ।स्थित्वा क्षणं उवाचेदं इङ्गितज्ञो रमाङ्गदः ॥११-४८॥_अर्बुदाचलवर्णनम्ब्रह्माण्डमण्डपस्तम्भः श्रीमानस्त्यबुदो गिरिः ।उपोढहंसिका यस्य सरितः सालभञ्जिका ॥११-४९॥यः सूर्यांशुशलाकस्य विश्वस्योपरि तिष्ठतः ।व्य्ॐअनीलातपत्रस्य दण्डत्वं अधिरोहथ् ॥११-५०॥आदातुं अवतंसाय स्वर्णदीहेमपुष्करं ।यः सेन्द्रनीलकटको भुवो भुज इवोद्धृतः ॥११-५१॥शिखरासन्ननक्षत्रो लक्ष्यते यः प्रतिक्षपं ।सशीकर इवोदस्तो हस्तः पातालदन्तिना ॥११-५२॥यस्य शृङ्गेन्द्रनीलांशु- श्यामं आदित्यमण्डलं ।क्षणं पुटकिनीपत्र- छत्राकृति विलोक्यते ॥११-५३॥नीलकण्ठप्रिया कामं कृतपञ्चाननस्थितिः ।यस्याग्रभूमिर्गौरीव गुहापीतपयोधरा ॥११-५४॥अधःसंनद्धमेधेषु स्थिता यस्याग्रसानुषु ।प्रावृड्विलासालास्यानां अनभिज्ञाः कलापिनः ॥११-५५॥इन्दुः कटकमाणिक्यं यस्य तुङ्गस्य भूभृतः ।भुवो यस्य च कान्ताया मेखलामणिरंशुमान्॥ ११-५६॥क्व चित्क्व चित्पतन्त्या यः कृष्णसारः शशित्विषा ।कण्डूयत इवासन्नं शृङ्गेण हि मृगीं निशि ॥११-५७॥पाण्डुः शरद्धनैरूर्ध्वं अधस्तालीवनासितः ।यः कैलास इवाश्लिष्टः पौलस्त्यभुजसम्प्रदा ॥११-५८॥हरयः शेरते यस्य मत्तेभवधनिःसहाः ।गुहासु नखनिर्मुक्त- मुक्तादन्तुरभूमिषु ॥११-५९॥अलकच्युतमन्दार- मकरन्दसुगन्धिभिः ।अमर्त्यमिथुनक्रीडा निकुञ्जैर्यस्य सूच्यते ॥११-६०॥उदञ्चदिन्द्रचापानि नानारत्नांशुपल्लवैः ।सानूनि यस्य सेवन्ते द्वये चित्रशीनः ॥११-६१॥पत्या सह वनान्तेषु विहरन्त्याद्रिकन्यया ।नीयन्ते शोणतां यस्य शिलाः सालक्तकैः पदैः ॥११-६२॥प्रतिभान्ति पुरस्तेऽपि यस्य वल्मीकवामनाः ।शैलाः सुवेलकैलास- महेन्द्रमलयादयः ॥११-६३॥_वसिष्ठाश्रमवर्णनम्अतिस्वाधीननीवार- फलमूलसमित्कुशं ।मुनिस्तपोवनं चक्रे तत्रेक्ष्वाकुपुरोहितः ॥११-६४॥हृता तस्यैकदा धेनुः कामसर्गाधिसूनुना ।कार्तवीर्यार्जुनेनेव जमदग्नेरनीयत ॥११-६५॥स्थूलाश्रुधारासंतान- स्नपितस्तनवल्कला ।अमर्षपावकस्याभूद्भर्तुः समिदरुन्धती ॥११-६६॥अथाथर्वविदां आद्यः समन्त्रां आहुतिं ददौ ।विकसद्विकटज्वाला- जटिले जातवेदसि ॥११-६७॥ततः क्षणत्सकोदण्डः किरीटी काञ्चनाङ्गदः ।उज्जगामाग्नितः कोऽपि सहेमकवचः पुमान्॥ ११-६८॥दूरं संतमसेनेव विश्वामित्रेण सा हृता ।तेनानिन्ये मुनेर्धेनुर्दिनश्रीरिव भानुना ॥११-६९॥ततस्तापसकन्याभिरानन्दाश्रुलवाङ्कितः ।कपोलः पाणिपर्यङ्कात्साश्रुलेखादपास्यत ॥११-७०॥_परमारवंशवर्णनम्परमार इति प्रपात्स मुनेर्नाम चार्थवथ् ।मीलितान्यनृपच्छत्रं आतपत्रं च भूतले ॥११-७१॥प्रवर्तितातिविस्तीर्ण- सप्ततन्तुपरम्परः ।पुराणकूर्मशेषं यश्चकाराम्भोनिधेः पयः ॥११-७२॥स्थापितैर्मणिपीठेषु मुक्ताप्रालम्बमालिभिः ।भूरियं यज्वना येन हेमयूपैरपूर्यत ॥११-७३॥प्रशान्तचिन्तासन्ताने चिरेण नमुचिद्विषि ।अमोच्यतास्तदैत्येन येनेर्ष्याकलहं शची ॥११-७४॥वंशः प्रवऋते तस्मादादिराजान्मनोरिव ।नीतः सुवृत्तैर्गुरुतां नृपैर्मुक्ताफलैरिव ॥११-७५॥तस्मिन्पृथुप्रतापोऽपि निर्वापितमहीतलः ।उपेन्द्र इति सञ्जज्ञे राजा सूर्येन्दुसंनिभः ॥११-७६॥सदागतिप्रवृत्तेन सीतोच्छ्वसितहेतुना ।हनुमतेव यशसा यस्यालङ्घ्यत सागरः ॥११-७७॥शङ्कितेन्द्रेण दधता पूतां अवभृतैस्तनुं ।अकारि यज्वना येन हेमयूपाङ्किता मही ॥११-७८॥अत्यच्छदशनोद्गच्छत्- अंशुलेखातरङ्गिभिः ।दीर्घैर्यस्यारिनारीणां निःश्वासैश्चामारयितं॥ ११-७९॥तस्मिन्गते नरेन्द्रेषु तदन्येषु गतेषु च ।तत्र वाक्पतिराजाख्यः पार्थिवेन्दुरजायत ॥११-८०॥दीर्घेण चक्षुषा लक्ष्मीं भेजे कुवलयस्य यः ।नारीणां दिशतानन्दं दोष्णा सत्तारकेण च ॥११-८१॥शिथिलीकृतजीवाशा यस्मिन्कोपोन्नतभ्रुवि ।निन्युः शिरांसि स्तब्धानि न धनूंषि नतिं नृपाः ॥११-८२॥वैरिसिंह इति प्रापज्जन्म तस्माज्जनाधिपः ।कीर्तिभिर्यस्य कुन्देन्दु- विशदाभिः सटायितं॥ ११-८३॥पौल्ॐईरमणस्येव यस्य चापे विलोकिते ।चकितैः सरसीव क्ष्मा राजहंसैरमुच्यत ॥११-८४॥श्रीसीयक इति क्षेत्रं यशसां उदभूत्ततः ।दिलीपप्रतिमः पृथ्वी- शुक्तिमुक्ताफलं नृपः ॥११-८५॥लक्ष्मीरधोक्षजस्येव शशिमौलेरिवाम्बिका ।वडजेत्यभवद्देवी कलत्रं यस्य भूरिव ॥११-८६॥अखण्डमण्डलेनाप्य प्रजापुण्यैर्महोदयं ।कलिसंतमसं येन व्यनीयत नृपेन्दुना ॥११-८७॥वशीकृताक्षमालो यः क्ष्मां अत्यायतां दधन् ।राज्याश्रमं अलंचक्रे राजार्षिः कुशचीवरः ॥११-८८ ]॥स्मितज्योत्स्नादरिद्रेण बाष्पस्राविमुखेन्दुना ।शशंसुर्विजयं यस्य रुद्रपाटीपतिस्त्रियः ॥११-८९॥अकङ्कणं अकेयूरं अनूपुरं अमेखलं ।हूणावरोधवैधव्य- दीक्षादानं व्यधत्त यः ॥११-९०॥_नायकवर्णनम्अयं नेत्रोत्सवस्तस्माज्जज्ञे देवः पितृप्रियः ।जगत्तमोऽपहो नेत्रादत्रेरिव निशाकरः ॥११-९१॥श्रीमद्वाकपतिराजोऽभूत्- अग्रजोऽस्याग्रणीः सतां ।सगरापत्यदत्ताब्धि- परिखायाः पतिर्भुवः ॥११-९२॥अतीते विक्रमादित्ये गतेऽस्तं सातवाहने ।कविमित्रे विशश्राम यस्मिन्देवी सरस्वती ॥११-९३॥चक्रिरे वेधसा नूनं निर्व्याजौदार्यशालिनः ।ते चिन्तामणयो यस्य निर्माणे परमाणवः ॥११-९४॥यशोभिसिन्दुशुचिभिर्यस्याच्छतरवारिजैः ।अपूर्यता इयं ब्रह्माण्ड- शुक्तिर्मुक्ताफलैरिव ॥११-९५॥श्रियं नीलाब्जकान्त्या यः प्रणयिभ्यो ददौ दृशा ।अरातिभ्यश्च सहसा जह्रे निस्त्रिंशलेखया ॥११-९६॥अंसः सवल्कलग्रन्थिः सजटापल्लवं शिरः ।चक्रे येनाहितस्त्रीणां अक्षसूत्राङ्कितः करः ॥११-९७॥पुरं कालक्रमात्तेन प्रस्थितेनाम्बिकापतेः ।मौर्वीकिणाङ्कवत्यस्य पृथ्वी दोष्णि निवेशिता ॥११-९८॥प्रशस्ति परितो विश्वं उज्जयिन्यां पुरि स्थितः ।अयं ययातिमन्धातृ- दुष्यन्तभरतोपमः ॥११-९९॥अनेनास्तः कपोलेषु पाण्डिमा रिपुयोषितां ।समाहृत्येव तद्भर्तृ- यशसो बाहुशलिना ॥११-१००॥सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च ।सिन्धुराज इति व्यक्तं नाम दुग्धोदधेरिव ॥११-१०१॥अनेन विहितान्यत्र यत्साहसशतान्यतः ।नवीनसाहसाङ्कोऽयं वीरगोष्ठीषु गीयते ॥११-१०२॥विन्ध्यान्तश्चरतानेन मृगयासक्तचेतसा ।कन्या शशिप्रभा नाम नागसूतिरदृश्यत ॥११-१०३॥अदृश्यैरथ सा नागैरस्य पार्श्वादनीयत ।तां अन्वेष्टुं प्रविष्टेन कुतूहलबलादिह ॥११-१०४॥समणिस्तम्भं अग्रेऽथ धाम हिरण्मयं ।तत्र मूर्ता ततः सिन्धुरिन्दुसूतिर्विलोकिता ॥११-१०५॥अकृतातिथ्यं एतस्य भक्तिनम्रस्य सा ततः ।नीता पृष्टेन चैतेन स्ववार्तायां अभिज्ञतां॥ ११-१०६॥ततो वज्राङ्कुशोद्यान- हेमाब्जाहृतिसाहसं ।हेतुः शशिप्रभावाप्तेर्विवृत्यावेदितस्तया ॥११-१०७॥असूचयत्प्रसङ्गेन त्रिविष्टपरिपोरथ ।उदग्रं असुरेन्द्रस्य वीर्यं वज्राङ्कुशस्य सा ॥११-१०८॥ततस्तं प्रत्यमर्षोऽस्य झटित्यङ्कुरितो हृदि ।अन्यत्र वीरवृत्तेर्यदयं एकान्तमत्सरी ॥११-१०९॥पन्थाः पुरोऽसुरस्यास्य प्राञ्जलेः शंसितस्तया ।असूच्यताग्रतश्चैतत्- अमोघं दर्शनं तव ॥११-११०॥अथेदं रत्नवलयं दत्त्वास्मै समं आशिषा ।कान्ता तिरोहिता सा च पुरुकुत्सस्य भूपतेः ॥११-१११॥अथैतेन गृहीतेयं यात्रा वज्राङ्कुशं प्रति ।एषा च सुकृतैर्दृष्टा पादपद्मद्वयी तव ॥११-११२॥_वङ्कुमुनिवाक्यम्इत्युक्त्वा सूक्तिचतुरो विरराम रमाङ्गदः ।आददे मुनिरप्युद्यत्- दन्तांशुशबलं वचः ॥११-११३॥अहो पुराणराजार्षि- सन्तानकथयैतया ।पुण्यया हृतं आत्मानं अधुना मन्महे वयं॥ ११-११४॥अवश्यम्भाविनी तत्र सिद्धिः साहसिकस्य ते ।शल्यं त्रिविष्टपस्यास्य हृदयादुद्धरिष्यसि ॥११-११५॥एष वज्राङ्कुशस्याजौ नाकृत्वान्तं निवर्तिता ।भुजो भुवनभर्तुस्ते दिङ्नागकरपीवरः ॥११-११६॥वधूस्तवाचिरेणात्र भविष्यति शशिप्रभा ।यथा कुवलयाश्वस्य दिवःकन्या मदालसा ॥११-११७॥स्थिरो भव मितं कालं स्थित्वास्मिन्नस्तपोवने ।त्वया विनीयतां एष दीर्घध्वजनितः श्रमः ॥११-११८॥_सिन्धुराजवाक्यम्इत्युक्ते मुनिना स अथ राजेन्दुरिदं अब्रवीथ् ।आज्ञा विलङ्घ्यते तात तव केन जगद्गुरोः ॥११-११९॥अथ क्रमोन्मीलितसौहृदासु कथास्वनेकासु मिथःकृतासु ।विश्रम्यतां इत्यवदन्महर्षिः पतिं पृथिव्याः प्रथितप्रभावः ॥११-१२०॥देवस्ततः स मुनिकल्पितं इन्द्रनील- पर्यङ्कवत्कनकवेदिसनाथमध्यं ।अध्यास्त रत्नसदनं परितो वितान- व्यालम्बितमौक्तिकलतं नवसाहसाङ्कः ॥११-१२१॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते Vअङ्कुमहर्षिदर्शनं नाम दशमः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP