नवसाहसाङ्कचरितम्‌ - द्वादशः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


अथ मानवमीनलक्ष्मणो मणिपर्यङ्कगतस्य तस्य सा ।
अपतत्फणिराजकन्यका जगदेकाभरणं स्मृतेः पथि ॥१२-१॥

व्यधित प्रणयं दृशां पुरः कमनीयेषु स येषु वस्तुषु ।
जनितोत्कलिकाशतैः सस्तैररतेरायतनं व्यधीयत ॥१२-२॥

मुहुरङ्गलताविवर्तनैः श्वसितैः शून्यविलोकनेन च ।
क्षितिभर्तुरुपान्तवर्तिना मदनाकल्पकं अन्वमीयत ॥१२-३॥

कदलीदलदत्तमारुतो हृदयन्यस्तमृणालकन्दलः ।
अथ तस्य बभूव यत्नवानुपचारे शिशिरे रमाङ्गदः ॥१२-४॥

अभवद्द्वयं एव भूपतेः स्मरतप्तस्य मनोविनोदनं  ।
सुदृशः सः करातिथिः शरः सश्च हारः स्तनचन्दनाङ्कितः ॥१२-५॥

मदनान्तरितोऽपि लङ्घितः पथि जातेन परिश्रमेण स ।
स्तिमितः क्षणं आस्त क्ॐउदी- विशदक्ष्ॐअतिरोहिताननः ॥१२-६॥

अथ पार्श्वचरेण सादरं मृदुसंवाहितपादपल्लवः ।
सः कुरङ्गदृशेव निद्रया चतुरं लोचनयोरचुम्ब्यत ॥१२-७॥

स्वपुरोपवने समुत्सुकः सुमुखीं स्वप्नप्रथेन पार्थिवः ।
अवतंसितहेमपङ्कजां अथ तां अङ्कगतां व्यलोकयथ् ॥१२-८॥

अभिकान्तं अपाङ्गपातिना जितनीलाब्जदलेन चक्षुषा ।
दधतीं अपवर्तितं ह्रिया मुखं आपाण्डुकपोलमण्डलं॥ १२-९॥

शरदिन्दुमरीचिनिर्मलं विगलद्वेपथुना स्तनांशुकं  ।
मुहुराक्षिपतीं अलक्षितं श्लथमुक्तावलयेन पाणिना ॥१२-१०॥

नवपल्लवकान्तिना किं अप्यचिरावासितपुष्पकेतुना ।
ललितां अधरेण बिभ्रतीं मुखचन्द्रांशुसटां स्मितच्छटां॥ १२-११॥

जगदेकविलोकनोत्सवे वपुषि स्वेदकणैरलङ्कृतां  ।
उदितां इव मन्दराहतातुदधेर्लग्नसुधालवां श्रियं॥ १२-१२॥

वलिताहितनिःसहाङ्गुलि- स्वकरश्लेषविशेषकम्पिनि ।
पुलकिन्यधिकं विमुञ्चतीं चकितं वामकुचे विलोचने ॥१२-१३॥

अतिभासुररत्नकुण्डलां अतिकान्तायतहारमण्डलां  ।
जघनश्लथहेममेखलां असमेषोरधिदेवतां इव ॥१२-१४॥


_

नायकोक्तिः

अथ सस्मितं आत्तवेपथुः पतितो मन्मथपत्रिणां पथि ।
इति तां प्रणयार्द्रगिरा सः किलाम्भोजमुखीं अवोचथ् ॥१२-१५॥

वलितं न विभाति पृष्ठतः कबरीकान्तं इदं तवाननं  ।
अयि नीलपयोधलेखया सः परिष्वङ्गं इवेन्दुमण्डलं॥ १२-१६॥

इदं अङ्गदवर्तिना करैर्मणिना रुद्धं इवेरितं ह्रिया ।
न समर्थमितोपवर्तितुं वदनं ते ललिताङ्गि का गतिः ॥१२-१७॥

इदं अर्धविलोकिताधरं मधुरापाङ्गतरङ्गितेक्षणं  ।
श्रियं आतनुते सितासितं सुतनु त्र्यश्रुविलोकितं तव ॥१२-१८॥

मिलितस्तव गण्डलेखया सुदति स्वेदलवार्द्रपत्रया ।
किं अपि स्पृहणीय एष मे मरुदासन्नदिवान्तशीतलः ॥१२-१९॥

अयं उत्पलःपत्रलोचने तव बिम्बाधरपाटलच्छविः ।
अवलोकय कर्तुं ईहते पदं अस्ताचलचूलके रविः ॥१२-२०॥

दुरितघ्नं इदं सुदर्शनं दधता बिम्बं अनूरुसारथेः ।
स्मरलक्ष्मि विहायसामुना तव कृष्णेन हृते विलोचने ॥१२-२१॥

अरविन्दकरेण लोहितं कमलिन्या धृतं आतपाशुकं  ।
इदं उष्णकरेण कृष्यते वलितेनापरदिग्वधूं प्रति ॥१२-२२॥

करुणार्पितलोचनं मिथः क्रमविश्लेषगलद्बिसाङ्कुरं  ।
इदं आर्द्रयतीव मे मनो मिथुनं मानिनि चक्रवाकयोः ॥१२-२३॥

अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते ।
द्युमणिः प्रभया, श्रियाम्बुजं प्रियया साश्रुरयं विहङ्गमः ॥१२-२४॥

इदं अम्बरपल्वलोदरादतिताम्रद्युति कालदन्तिना ।
रविवारिरुहं निरस्यते कनकस्निग्धमयूखकेसरं॥ १२-२५॥

परिचुम्बति वारुणीं दिशं पुरतो रागहृते विवस्वति ।
दिगियं शतमन्युलाञ्छिता भवति श्याममुखी मितोदरि ॥१२-२६॥

इह भान्त्यतिलोहितातप- स्तबकाः पश्य वनान्तभूमयः ।
तपनानुगमोत्सवाङ्किता दिनलक्ष्म्येव पदैः सयावकैः ॥१२-२७॥

मदिराक्षि पुरोऽवलोक्यतां अपरस्यामयमानतो दिशि ।
स्तिमितां अवगाहते गतिं गुरुगोत्रस्खलिताकुलो रविः ॥१२-२८॥

अमुना शतपत्रबन्धुना सहसा सुन्दरि यद्यदुज्झितं  ।
समं अद्रिगुहामुखस्थितैस्तिमिरैस्तत्तदितःकटाक्षितं॥ १२-२९॥

विरमन्नयि पल्लवाधरे सुरवीथीपथिको विरोचनः ।
अयं अस्तगिरेर्निषीदति स्वकरामृष्टशिलातले तले ॥१२-३०॥

इयं अश्रुतरङ्गितां दृशं द्वितये चक्रवधूर्विमुञ्चति ।
नवकुङ्कुमलोहिते रवौ दयिते चान्द्रवियोगविक्लवे ॥१२-३१॥

चलितोऽसि वद क्व मां विना विरहं सोढुं अहं न ते क्षमा ।
कृतपङ्कजकुड्मलाञ्जलिर्नलिनी कान्तं इतीव याचते ॥१२-३२॥

अनुपुञ्जितपिङ्गदीधिति- द्रुतलाक्षारुणदर्पणोपमं  ।
परतोऽस्तगिरेरिदं गलत्यनवद्याङ्गि पतङ्गमण्डलं॥ १२-३३॥

सरले सह वारिजश्रिया निभृतं क्वापि गतः स भास्करः ।
वद तेन विनाब्जिनी कथं क्षणदां अद्य नताङ्गि नेष्यति ॥१२-३४॥

स्फुटविद्रुमराजिनैकतः सदृशं जातं उदञ्चता नभः ।
सुदति त्वदपाङ्गपटले पटु सान्ध्ये महसि प्रसर्पति ॥१२-३५॥

परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः ।
अयि सायं इमाः पयोधरैर्धृतसन्ध्यातपकुङ्कुमैर्दिशः ॥१२-३६॥

क्षणदाभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी ।
कुपितेव निवर्तते जवाततिवाचालविहङ्गनूपुरं॥ १२-३७॥

तव चण्डि विडमयत्यदस्तनुसन्ध्यातपलिप्तं अम्बुजं  ।
मणिकुण्डलकान्तिसङ्करातिदं आताम्रकपोलं आननं॥ १२-३८॥

उदितानि तमांसि सा च ते दयिता दैन्यं उपैति पद्मिनी ।
दिनभर्तुरितीव शंसितुं सहसा सुन्दरि सन्ध्यया गतं॥ १२-३९॥

निहितं बलिदीपकेषु तत्तपनेनाशु महः कृशोदरि ।
स्वशरस्फुरितं मनोभुवा तव सवृईडविलोकितेष्विव ॥१२-४०॥

अतसीकुसुमोपमं मुखे तदनु त्वत्कुचचूचुकद्युति ।
अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः ॥१२-४१॥

तरुकोटरमूकशारिकं निजनीडाङ्कनिलीनकोकिलं  ।
करभोरु सनिद्रबर्हिणं प्रमोदोद्यानं इदं निमीलति ॥१२-४२॥

प्रसृतैर्गिरिकन्दरोदरातिदं इन्दीवरदामकान्तिभिः ।
अधुना तिमिरैर्विगाह्यते भुवनं पद्मसरश्च दन्तिभिः ॥१२-४३॥

तिमिराञ्जनभक्तिशोभिना धवलेनायतपक्ष्मपङ्क्तिना ।
अमुना भवतीव चक्षुषा कुमुदेनैति रुचं कुमुद्वती ॥१२-४४॥

उदरस्थितयोः कुतूहलातलिनोः श्रोतुं इवास्फुटं वचः ।
कमलस्य निलीय निश्चलं दलसन्धिष्ववतिष्ठते तमः ॥१२-४५॥

तरलेऽतिसितासितद्युताविह दोलायितं ईक्षणद्वये ।
लिखितागरुपत्रलेखयोस्तिमिरं मूर्च्छति ते कपोलयोः ॥१२-४६॥

उडुभिः खं इतस्ततः क्षणादुदितैर्भङ्गुरकेशि भात्यदः ।
अतिगाढदिनोष्णजन्मभिः परितः स्वेदलवैरिवाङ्कितं॥ १२-४७॥

शबलं शशलाञ्छनत्विषा सतमः पश्य महेन्द्रदिङ्मुखं  ।
अचलेन्द्रसुतास्मितच्छवि- छुरितं कण्ठं उमापतेरिव ॥१२-४८॥

अहिराजसुते विलोक्यतां इयं इन्दोः प्रथमोद्गता कला ।
अयि भाति यया इन्द्रदिङ्मुखे प्रमदेवार्द्रनखाङ्करेखया ॥१२-४९॥

यदि कौतुकं आयतेक्षने न चिरादेव सुधार्द्रयानया ।
अरविन्ददलद्युतौ करे मृदु लीलावलयं कर्ॐइ ते ॥१२-५०॥

अनवद्यं इतः पुरः स्थितं विदितं किं शशिना तवाननं  ।
नभसः सहसाङ्कं एष यन्न कलङ्कत्रपयाधिरोहति ॥१२-५१॥

इदं उद्गतं इन्दुमण्डलं दिगियं पश्य बिभर्ति लक्ष्मवथ् ।
त्वं इवाच्छकपोलमण्डल- स्फुटकालागरुपत्रं आननं॥ १२-५२॥

विगलत्तिमिरांशुके शनैः स्पृशति व्यक्तिं आधीरतारके ।
इह पश्य निशावधूमुखे स्फुरति श्वेतमरीचिकुण्डलं॥ १२-५३॥

अयं उल्लिखति ध्रुवं करैर्विधुरिन्दीवरलोचने तमः ।
कुमुदेषु तथा हि दृश्यतां निपतन्त्यस्य लवा इवालयः ॥१२-५४॥

इदं अञ्जननीलं आहतं पिहिताशं तुहिनांशुना करैः ।
अचलेन्द्रगुहासु लीयते शनकैः संकुचितं पुनस्तनः(?) ॥१२-५५॥

मसृणोल्लसदंशुमण्डल- छलतः पश्य दिवःकृतेऽनया ।
इयं इन्दुसमुद्गकादितो निशया हारलतेव कृष्यते ॥१२-५६॥

यदभूत्तमसा जगत्तथा पिहिते पुष्करपत्रलोचने ।
तदिदं परतः प्रकाशितं शशिना कुङ्कुमकन्दपाण्डुना ॥१२-५७॥

प्रसृतेव विलोचनोदरे तिलके सङ्कुचितेव चान्देन ।
कलितेव नताङ्गि लक्ष्यते तव मुक्तावलयेषु चन्द्रिका ॥१२-५८॥

कुचयोः प्रतिबिम्बितः समं विधुरेकोऽपि भवत्ययं द्विधा ।
विधिनेव विभिन्नसंपुटस्तव लावण्यसुधासमुद्गकः ॥१२-५९॥

हृतमुग्धमधूकशोभयोरनयोः पन्नगलोकक्ॐउदि ।
तव चन्द्रकलाः कपोलयोः पतिताः स्पर्शकुतूहलादिव ॥१२-६०॥

अयं इन्दुमुखि त्वया यथा समुपैति स्पृहणीयतां जनः ।
अनयैष समागतस्तथा निशया पश्य कुरङ्गलाञ्छनस्॥ १२-६१॥

धनुषि क्रियतेऽधिरोहणं स्मरमौर्वीलतया तनूदरि ।
शशिनेरितया समुच्छ्रिते पुलिनाद्रौ च पयोधवेलया ॥१२-६२॥
कृतचाटुशतैः परस्परं मकरन्दार्द्ररजःसुगन्धिषु ।
स्थितं अन्तरमीषु सांप्रतं भ्रमरैः पुष्करवासवेश्मसु ॥१२-६३॥

मरुता सुहृदेव वीजितं कुमुदामोदमुचा शनैरितः ।
स्वपिति प्रणयार्द्रयोरिदं मिथुनं मानिनि राजहंसयोः ॥१२-६४॥

अयि चक्रवधूरियं पुरः करुणं कूजति हा तपस्विनि ।
इह साक्षितयालं आवयोरुचितं गन्तुं अतः कृपावति ॥१२-६५॥

इति भूतलवासवः सस्तां अभिधाय प्रमदां प्रियंवदः ।
प्रविवेश तयासमं किल प्रमनाः केलिनगेन्द्रकन्दरं॥ १२-६६॥

झटिति स्फुटभावसङ्करां मधुरामङ्गलतां दधानया ।
शशिकान्तशिलातलं ततः सः किलाध्यास्त तया युवान्वितः ॥१२-६७॥

तदनु त्रपया पराङ्मुखीं पुलकालङ्कृतपीवरस्तनीं  ।
सः किलाञ्चितचाटुरानयत्सुमुखीं तां अनुकूलवृत्तितां॥ १२-६८॥

अथ मन्थरलोचनं ह्रिया विनमत्स्मेरमुखः स्मितान्न्चितं  ।
सो ददर्श किल प्रजेश्वरः सुदृशः स्विन्नकपोलं आननं॥ १२-६९॥

यदलं किल मानवत्यभूदृजुवन्नेन्दुमुखी किलैक्षथ् ।
लिखितेव किलास्त यत्परं नृपतेस्तेन मनः किलाहरथ् ॥१२-७०॥

परिमृज्य मुखं विलासिना श्रवणेन्दीवररेणुरूषितं  ।
सुदृशः शमवारिपङ्किलातलकान्तस्तिलकादपास्यत ॥१२-७१॥

अथ तां शिथिलीकृतत्रपां असमप्रेमहृतः किलेश्वरः ।
स्मरकेलिकलारसज्ञतां अनयद्यूथपतिर्वशां इव ॥१२-७२॥

शिथिलाकुलकेशपाशया परिमृष्टार्द्रकपोलपत्रया ।
विरलाधररत्नरागया सुलभस्वेदमुखेन्दुबिम्बया ॥१२-७३॥

त्रुटितोज्झितहारलेखया निबिडाश्लेषकृशाङ्गरागया ।
असमग्रनखाङ्गमण्डित- स्तनविन्यस्तसकम्पहस्तया ॥१२-७४॥

अधिकाधिकजातलज्जया मृदुमीलन्नयनत्रिभागया ।
अथ कां अपि निर्वृतिं तया सः किलापत्फणिराजकन्यया ॥१२-७५॥
[Sय़्ण्ठाXः कुलकम्]

ददता नलिनीदलानिलं विकसत्स्वेदकणे कुचद्वये ।
चतुरं किल दीर्घचक्षुषस्तदनु क्लान्तिरनेन चिच्छिदे ॥१२-७६॥

अथ सत्रपया धृतांशुकां जघनस्रस्तविसूत्रमेखलां  ।
अवतंसितलोचनोत्पलां निजं अङ्कं ललनां निनाय च ॥१२-७७॥

सुदृशः सः किलान्यतश्चुतं(?) स्वपदे मौलिमणिं न्यवेशयथ् ।
अकरोच्च किलारुणाङ्गुलिर्ललितावर्तनकुञ्चितान्कचान्॥ १२-७८॥

पश्यात्र दर्पणतले लिखिता मयेयं पत्रावली तरुणि ते वलिताननेति ।
स्वप्नान्तरप्रणयजल्पितं आत्मभर्तुरश्रूयत स्मितमुखेन रमाङ्गदेन ॥१२-७९॥

अथ शुचि पठता शुकेन साम स्फुटं उटजाङ्गणपादपस्थितेन ।
विरचितदयितासमागमस्य प्रसभं अभज्यत पार्थिवस्य निद्रा ॥१२-८०॥

झटिति विगते स्वप्नायातप्रियानवसङ्गमे पुनोऽपि तथा तत्प्रत्याशानिमीलितलोचनः ।
लिखित इव सः क्ष्मापालोऽभूत्क्षणं ननु तादृशां अपि मनसिजो धैर्यं लुम्पत्यहो बत साहसं॥ १२-८१॥    

इति  श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये फणिराजसुतास्वप्नसमागमो नाम द्वादशः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP