संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| चतुर्दशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - चतुर्दशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत चतुर्दशः सर्गः Translation - भाषांतर आकाशारोहणम्अथाश्रमोपान्तमहीं विहाय नेमिस्वनोत्कण्ठितनीलकण्ठां ।रथोऽस्य विद्याधरमन्त्रशक्त्या रथाङ्गपणेः पदं आरुरोह ॥१४-१॥ससंभ्रमोत्तंभितकर्णतालं आकर्णितो दिक्करिभिः सकंपैः ।आध्मातशङ्खस्वनमांसलोऽग्रे तस्योदगान्मङ्गलतूर्यघोषः ॥१४-२॥उदस्य वक्त्राणि नभस्थलेन यान्तं तं ऐक्षन्त तपस्विकन्याः ।आकर्णविस्तारितमुग्धनेत्राः पत्रान्तरैराश्रमपादपानां॥ १४-३॥व्रजन्स विद्याधरवाहिनीनां मध्ये बभौ मध्यमलोकपालः ।अनल्पसौन्दर्यसुधैकसूतिः शशीव नक्षत्रपरम्पराणां॥ १४-४॥कुतूहलोल्लोलासितपक्षलेखान्याकृष्टकर्णोत्पलविभ्रमाणि ।तस्मिन्नमुञ्च्यन्त नितम्बिनीभिरपाङ्गवल्गीनि विलोचनानि ॥१४-५॥_रमाङ्गदकृतं वर्णनम्अथान्तिकस्थेन सश्चाभ्यधायि रमाङ्गदेनेत्थं अवन्तिनाथः ।सहस्रशः खे चलितानि पश्यन्विद्याधराणां पुरतो बलानि ॥१४-६॥हैमं नृप स्यन्दनं उत्पताकं आकम्पि रत्नाङ्कितकेतुं एते ।सहस्ररश्मेरिव वालखिल्या विध्याधरास्ते परिवारयन्ति ॥१४-७॥व्रजन्नमर्त्यप्रमदाविमुक्त- मन्दारमालाजटिलांसकुटः ।कुन्दच्छटापाण्डुसटाकलापः कात्यायनीसिंह इवावभासि ॥१४-८॥प्रयाणतूर्यध्वनिरेष किं ते पातालकुक्षिप्रतिनादसान्द्रः ।रवः प्रसर्पत्युत भैरवोऽयं अकालकल्पान्तपयोधराणां॥ १४-९॥मूले भुवः कज्जलधूलिकल्पं आलक्ष्यते पश्य निलीनं एतथ् ।नीरन्ध्रविद्याधरमौलिरत्न- प्रभाङ्कुरप्राशितं अन्धकारं॥ १४-१०॥आयामिमालामणिकान्तिदण्डैरुत्सारयन्तः परितस्तमांसि ।अमी मरुन्नर्तितचामरास्ते खं उल्लिखन्तीव खुरैस्तुरङ्गाः ॥१४-११॥विहस्य विद्याधरबालिकाभिः समं विमुक्ता नयनत्रिभागैः ।प्रस्थानलाजाञ्जलयस्तवैते रथे पताकास्खलिताः पतन्ति ॥१४-१२॥नरेन्द्र विद्याधरपुङ्गवानां एते पुरः पश्य कृपाणपट्टाः ।कालाञ्जनश्यामतयाश्रयन्ते तरङ्गतां व्य्ॐअमहार्णवस्य ॥१४-१३॥वाचालयन्त्यः ककुभां मुखानि नादेन जाम्बूनदकिङ्किणीनां ।इमा विमानावलयः कथं चिदन्योन्यरुद्धप्रसराः प्रयान्ति ॥१४-१४॥_वातवर्णनम्आधूतकार्तस्वरकेतुयष्तिरेनान्यशोकस्तबकारुणानि ।आनर्तयत्येष पताकिनीनां वातः पताकांशुकपल्लवानि ॥१४-१५॥नभश्चराणां व्रजतां अमीषां अन्योन्यपीनांसविघर्षणेन ।उल्लासितः कुङ्कुमपांसुपूरः पिशङ्गयत्येष दिशां मुखानि ॥१४-१६॥_प्रेक्षकस्त्रीवर्णनम्सरत्नकाञ्चीवलयैर्विलास- सिंहासनैर्मन्मथपार्थिवस्य ।इतो नितम्बैरसितेक्षणानां व्याप्तान्तरं व्य्ॐअ समाप्तिं एति ॥१४-१७॥अन्योन्यसङ्घट्टविसूत्रितानि कुमुद्वतीकान्तकरोपमानि ।एतानि पश्याम्बरतः पतन्ति विमानमुक्ताफलजालकानि ॥१४-१८॥एताः प्रयान्त्यः पुरतो विमानैर्विवर्त्य बाला मुखपङ्कजानि ।अपाङ्गविश्रान्तविलोलतारैस्त्वां नाथ नेत्राञ्जलिभिः पिबन्ति ॥१४-१९॥आसां इतः सत्वरगामिनीनां गतागताभ्यां मणिकुण्डलानि ।भिन्दन्ति विद्याधरकामिनीनां कपोलकालागुरुपत्त्रकानि ॥१४-२०॥इतो मिथः पार्श्वविघट्टितेषु जवाद्विमानेषु समापतत्सु ।आसां इतः प्रेङ्खितमध्यरत्न- विसूत्रिता हारलताः स्फुटन्ति ॥१४-२१॥एते गतिक्षोभवशाद्वधूनां पश्योन्मयूखा मणिकर्णपूराः ।इतस्तले सञ्चरतां अहीनां निपत्य चूडामणिषु स्वनन्ति ॥१४-२२॥पातालं एतन्नयनोत्सवेन विचिन्त्य शून्यं शशलाञ्छनेन ।इहाङ्गनाभिः स्वमुखछलेन कृतोऽम्बरे चन्द्रमयीव सृष्टिः ॥१४-२३॥इतो रसं पल्लवयन्ति वीरं विद्याधराणां करवालवल्ल्यः ।एताश्च शृङ्गारं इतोऽङ्गनानां दृशो नवेन्दीवरदामदीर्घास्॥ १४-२४॥झटित्यवाप्तप्रतिबिम्बं एतत्सैन्यं विलोक्य स्फटिकाङ्गणेषु ।सविस्मयं नागपुराङ्गनाभिरितः क्रियन्ते नयनोत्पलानि ॥१४-२५॥नरेन्द्र तस्माद्गगनावहगाहि- त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः ।दूरं हविर्धूमसुगन्धिसीम्नः स्थानाद्वयं वङ्कुमुनेः प्रवृत्ताः ॥१४-२६॥_वनवर्णनम्यथायं अभ्येति पुरो नभस्वानाकृष्टनानाविधपुष्पगन्धः ।अग्रे तथाभ्रंलिहभूरुहं नः शङ्के वनं दृक्पथं एष्यतीति ॥१४-२७॥एभिर्महीपाल विमानरत्नैरग्रेसरैः सम्भ्रममुक्तमार्गः ।निष्कम्पकेतुर्महतास्पदेन रथस्तवायं वियति प्रयाति ॥१४-२८॥सितप्रसूनस्तबकैस्तरूणां एषा पुरस्तारिकान्तरिक्षा ।झटित्यशेषैव निमेषमात्रादुन्मीलिता पश्य वनान्तलेखा ॥१४-२९॥यदीश विद्याधरवाहिनीयं आकाशतः किञ्चिदधः प्रवृत्ता ।अवैमि चित्ते निहितं तदस्याः पदं वनालोकनकौतुकेन ॥१४-३०॥एषा तमालावलिनीलकान्तेरुपोढरामामुखहेमपद्मा ।सेना वनस्याभिमुखं प्रयाति पश्याम्बुरासेरिव जह्नुकन्या ॥१४-३१॥अस्याः क्षमापाल वनान्तराजेर्विमानपङ्क्तिः पुरतःस्थितेयं ।आलम्बते रत्नकिरीटलक्ष्मीं मणिप्रभोद्गीर्णमहेन्द्रचापा ॥१४-३२॥एते खलीनक्षतशोणिताक्ताः पश्येन्द्रगोपश्रियं उद्वहन्तः ।तुरङ्गलालाजलबिन्दवस्ते लुठन्ति हेमद्रुमपल्लवेषु ॥१४-३३॥मन्दानिलान्दोलितपल्लवाग्राः समग्रपुष्पाहरणोद्यताभ्यः ।इतो लताः पार्थिव संरभन्ते लावण्यं आदातुं इवाङ्गनाभ्यः ॥१४-३४॥अमूनि पुष्पाणि महीरुहाणां आभान्ति लीनभ्रमरोदराणि ।विद्याधरीविभ्रमदर्शनार्थं उत्तानितानीव विलोचनानि ॥१४-३५॥पश्याग्रवातायनं एतदेत्य लताग्रपुष्पाण्यचिन्वतीनां ।नृपातिभारेण नितम्बिनीनां विमानरत्नानि पुरो नमन्ति ॥१४-३६॥शाखाग्रलग्नासु महातरूणां विटङ्करत्नद्युतिश्र्ङ्खलासु ।विलम्बमानैरिव चिम्बितेयं इतो विमानैर्मणिपञ्जरश्रीः ॥१४-३७॥इमाः समं प्राणसमैर्वनेऽस्मिन्सर्वऋतुर्लक्ष्मीनिबिडोपगूढे ।नभःस्थिता एव नरेन्द्र पश्य पुष्पोच्चये लोलदृशः प्रवृत्ताः ॥१४-३८॥एताः करैः काञ्चनपद्मगौरैर्विलासवत्यः सनिबन्धनानि ।हरन्ति पुष्पाणि महीरुहाणां मृदूनि यूनां इव मानसानि ॥१४-३९॥आसां लताग्रस्तबकोत्थितानि शिखण्डरत्नद्युतिचुम्बितानि ।पश्योपरिष्टादलिमण्डलानि नीलातपत्रभ्रमं आरभन्ते ॥१४-४०॥मुञ्चत्यलिः पुष्पलतां इतोऽयं आघ्रातरामामुखपद्मगन्धः ।गुणप्रकर्षे हि सदा मनांसि गुणान्तरज्ञावतां रमन्ते ॥१४-४१॥लतैतया चूततरोः सलीलं आनीयमाना नतिं आनताङ्ग्या ।पश्योत्पतत्पुष्पशिलीमुखेयं आभाति कन्दर्पधनुर्लतेव ॥१४-४२॥भ्रमद्द्विरेफावलिलोलदृष्टिर्लीलावतंसक्रिययोन्मुखानि ।विचेतुं एषा कुसुमानि नालं तरोस्तनालिङ्गनदोहदस्य ॥१४-४३॥प्रियार्पितः कान्तनिपीतमुक्त- पुरन्ध्रिबिम्बाधरकान्तिचोरः ।अस्याः सरत्नत्विषि कर्णपाशे किं अप्यशोकस्तबकश्चकास्ति ॥१४-४४॥अस्या लताक्षेपविसूत्रितस्य हारस्य लग्नस्तनकुङ्कुमस्य ।भ्रष्टाः क्षितौ दाडिमबीजमोहादाक्षिप्य मुक्ताः कपयः क्षिपन्ति ॥१४-४५॥निदाघलक्ष्मीहसितछटेयं पर्याप्तकृष्णागुरुधूमगन्धे ।बन्धे कचाना नवमल्लिकास्याः पश्यालिनीले परिभागं एति ॥१४-४६॥असावितः पार्थिव दन्तपत्रं आपास्य हंसछदपाण्डु बाला ।करोति कर्णे नवकर्णिकारं उत्तापिताष्टापदरत्नशोभि ॥१४-४७॥स्थितोऽयं अन्तो नवपल्लवानां प्रवालताम्राङ्गुलिरायताक्ष्याः ।व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर्नखांशुरेखाभिरितः प्रयाति ॥१४-४८॥धावत्करा कर्णशिरीषलोभादितस्ततः सम्पतति द्विरेफे ।क्रीडां इव व्याकुलदृष्टिपाता बालेयं अभ्यस्यति कन्दुकस्य ॥१४-४९॥प्रावृड्विलासस्मितं उद्वहन्ती कर्णे नवं केतकबर्हं एषा ।प्रियावतंसीकृतचन्द्रलेखा चकास्ति कन्येव हिमाचलस्य ॥१४-५०॥विलोकितालेख्यकपोलभागात्प्लवङ्गशावेऽधिगते विमानं ।इतः कदम्बादनिवृत्तहस्तं आस्ते भयादालिखितेव तन्वी ॥१४-५१॥पुष्पाणि चिन्वत्यतिमुक्तकस्य पश्य श्लथं केशकलापं एषा ।अंसे बिभर्तीव तमालनीलं विलासवालव्यजनं स्मरस्य ॥१४-५२॥विमुञ्चती चक्षुषि पुष्पधूलिं एषा गते तं प्रति वल्लभस्य ।चित्रं झटित्यश्रुलवावकीर्णे दृशौ सपत्न्याः कलुषीकरोति ॥१४-५३॥मध्यच्युते बिभ्रति किंशुकेऽस्मिन्नस्रारुणस्याकृतिं अङ्कुशस्य ।अस्याः स्तनाभ्यां अधुना धृतेयं अनङ्गमत्तद्विपकुम्भलक्ष्मीः ॥१४-५४॥अभ्यागतायाः सहसामुनास्याः कन्दर्पसाम्राज्यधुरोद्वहेन ।सुगन्धिभिः पाटलिपादपेन पुष्पैरितः कल्पितं आतिथेयं॥ १४-५५॥आर्द्रागसेयं गमिता प्रसादं कृतप्रणामाञ्जलिना प्रियेण ।प्रमृष्टबाष्पा सुमुखी नखाभ्यां चूताङ्कुरं मानं इवोच्छिनत्ति ॥१४-५६॥अध्यासते कां अपि कान्तिं आसां एते सकुन्दाः कबरीकलापाः ।कुमुद्वतीकान्तकरानुविद्धास्तमःप्रताना इव यामिनीनां॥ १४-५७॥पुष्पाणि नानाविधवर्णभाञ्जि विमानवातायनतो विचित्य ।युवायं इन्द्रायुधवर्णकान्तं उत्तंसं अस्याः सदृशः करोति ॥१४-५८॥पश्येयं उद्बाहुलताहितश्रीर्मध्येन नश्यत्त्रिवली लतेव ।विमानतः क्ॐअलं उच्चिनोति वधूर्मधूकं स्वकपोलकान्ति ॥१४-५९॥अदः सुगन्धीकुरु मत्प्रसूनं मुखाब्जसौगन्ध्यकणार्पणेन ।इत्यञ्चलासक्तलतो न याञ्चां अस्याः करोतीव सः कर्णिकारः ॥१४-६०॥तथा न चूते नवमञ्जरीयं अवाप्तवत्यात्मगुणप्रकर्षं ।अस्याः सकालागरुपत्रलेखे यथा कपोले कमलेक्षणायाः ॥१४-६१॥वहत्यशोकोऽयं अमर्त्यकान्ता- पदाहतः कान्तं अलक्तकाङ्गं ।कृत्वा जगत्यस्खलितां निजाज्ञां स्कन्धेऽर्पितं तूणां इव स्मरेण ॥१४-६२॥चिरेण मन्ये बकुलद्रुमोऽयं अवाप्तपारःस्पृहणीयतायाः ।अर्थी करोऽस्याः सुमनःसु यस्य जातो जितामर्त्यतरुप्रवालः ॥१४-६३॥फलं शिरीषेण चिरादवाप्तं अस्याः समग्रं सुकुमारतायाः ।निरस्य गीर्वाणतरुप्रसूनां यदेतदुत्तंसितं आयाताक्ष्या ॥१४-६४॥अस्याः श्रुतौ चम्पकं आदधत्याः करेण मुक्तावलयाङ्कितेन ।एष द्विजः स्वस्त्ययनं विरावैर्नास्याः करोतीति न मञ्जुकण्ठः ॥१४-६५॥विन्यस्तबन्धूकदली मुखेऽस्याः स्वेदार्द्रकालागरुपत्रवल्ली ।चकास्ति संध्यातपलेशशङ्कि कलङ्कलेखा शशलक्ष्मनीव ॥१४-६६॥एता मिथो रुद्धविमानमार्गा लताग्रजं पुष्पं अनाप्नुवन्त्यः ।भवन्ति भारानमिताङ्गकेषु बद्धाभ्यसूयाः स्तनमण्डलेषु ॥१४-६७॥एतानि कान्तैः प्रमदाजनस्य नवप्रवालान्यवतंसितानि ।पश्यन्ति पश्य स्वं इवाप्तकान्तिं कपोलपालीमणिदर्पणेषु ॥१४-६८॥यद्यद्वनेऽभूत्कुसुमं सुगन्धि वधूजनैस्तत्तदितो गृहीतं ।कृत्स्नत्रिलोकीविजयावतंसं निर्मातुं इष्वासं इव स्मरस्य ॥१४-६९॥कर्णावतंसीकृतपल्लवानां विचित्रपुष्पाभरणोज्ज्वलेषु ।पश्याभितः पल्लवितेयं आसां अङ्गेषु सारङ्गदृशां ऋतुश्रीः ॥१४-७०॥स्वेदोदबिन्दुछलतः कपोले वितीर्णमुक्तार्घ इव स्मरस्य ।एणीदृशां कान्त इव प्रवृत्तः श्रमोऽयं आलिङ्गितुं अङ्गलेखां॥ १४-७१॥आसां पृथुस्वेदकणाङ्कितानि वक्त्राणि नेत्रोत्सवं अर्पयन्ति ।प्रत्युप्तमुक्ताफलदन्तुराणि हिरण्यमयानीव सरोरुहाणि ॥१४-७२॥एतानि पश्य च्युतपुष्पधूलि- व्यालुप्तपक्ष्मावलिसौष्ठवानि ।श्रमेण किं चिन्मुकुलीभवन्ति सीमन्तिनीनां नयनोत्पलानि ॥१४-७३॥एतासु सीदन्मणिबन्धमूल- निलीनलीलामणिकङ्कणासु ।विलोक्यतां व्यक्तिं उपैति खेदो विद्याधरस्त्रीजनदोर्लतासु ॥१४-७४॥अनङ्गकल्पद्रुममञ्जरीणां अमोघमन्त्रं कुसुमायुधस्य ।भृशं यथा पुष्पमयी विभूषा नासां तथा रत्नमयी विभाति ॥१४-७५॥वनान्तं एता वनिता न मुक्तुं अनेकपुष्पं नृप शक्नुवन्ति ।विमुच्यते केन नाम स देशो यत्रास्ति सान्द्रः सुमनःप्रचारः ॥१४-७६॥इत्युज्ज्वले तस्य वचःप्रसूने नीतेऽपि कर्णातिथितां विहस्य ।नृपो बभूवास्तमनाः सचित्रं स्मृताहिराजेन्द्रसुताविलासः ॥१४-७७॥पुष्पप्रवालाङ्कुरमण्डलं तत्क्वणद्विमानावलिहेमघण्टं ।वनं विहायाथ समग्रं अग्रे चचाल विद्याधरराजसैन्यं॥ १४-७८॥_गङ्गावर्णनम्अथ प्रवालाधरबिम्बचुम्बि- परिस्फुरत्फेनविलासहासा ।वाचालहंसावलिकाञ्चिदाम- सनाथतीरोरुनितम्बबिम्बा ॥१४-७९॥समीरवेल्लत्तटहेमवल्लि- लोलप्रभापिञ्जरितोर्मिलेखा ।विलासमज्जत्फणिराजकन्या- सङ्क्रान्तकान्तस्तनकुङ्कुमेव ॥१४-८०॥निमग्नदिङ्नागकपोलभित्ति- सन्ताननिर्यन्मदवेणिकृष्णा ।तृतीयनेत्रानलधूमवल्लि- कलङ्कितेव त्रिपुरान्तकस्य ॥१४-८१॥भारानमद्भोगिफणास्थितायाः स्थलोच्छलद्वीचिचयच्छलेन ।उत्तम्भयन्तीव तले सतर्कं अर्कोपलस्तम्भशतानि भूमेः ॥१४-८२॥तटोद्गतप्रांशु तमालराजि- छायाघनश्यामलितार्धभागा ।मूर्तिस्तुषाराचलतुल्यकान्तिरुमापतिश्रीधरयोरिवैका ॥१४-८३॥कादम्बचञ्चूद्धृतचक्रवाकी- पारिप्लवव्यक्तमृणालकाण्डा ।चण्डीधवोन्नद्धजटाविटङ्क- कृष्टेन्दुलेखाङ्कुरदन्तुरेव ॥१४-८४॥तरङ्गभङ्गोज्ज्वलचामरश्रीरुद्दण्डहेमाम्बुरुहातपत्रा ।पुण्या पुरो दूरत एव तेन त्रिमार्गगादृश्यत पार्थिवेन ॥१४-८५॥तस्यास्तटेऽथ कुसुमावचयश्रमार्त- सीमन्तिनीनिवहसस्मितवीक्षितायाः ।विद्याधरेण विदधे धवलोर्मिधौत- पर्यन्तहेमसिकते पृतनानिवेशः ॥१४-८६॥तदनु पुलिने सद्यो विद्याधरैः परिकल्पितं न्र्पतिरविशल्लीलागारं सः साहसलाञ्छनः ।भ्रमं अजनयन्नेत्रोत्कीर्णा इति प्रतिबिम्बिताः सितमणिमये यस्मिन्नन्तो बहिश्च मृगीदृशः ॥१४-८७॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालावलोकनो नाम चतुर्दशः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP