नवसाहसाङ्कचरितम् - नवमः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
नर्मदावाक्यम्
अथ स्वरेणाङ्गणदीर्घिकाणां संवाहयन्ती कलहंसनादं ।
तं इत्यवन्तीश्वरं आ बभाषे सा मेकलक्ष्माधरराजकन्या ॥९-१॥
नास्य क्षितीशोपकृतं जनस्य कियत्तया पन्नगराजपुत्र्या ।
यस्याः कृते सम्प्रति भूषितेयं भूमिस्त्वया भूशशलाञ्छनेन ॥९-२॥
इदं नृप त्वां अवलोक्य जातं मनः प्रमोदेन ममास्वतन्त्रं ।
नो कस्य लोकत्रयसंमतानां भवेत्सतां सङ्गतं उत्सवाय ॥९-३॥
अद्यैष कस्यापि मया शुभस्य त्वद्दर्शनेनानुमितो विपाकः ।
आतिथ्यं अक्ष्णोः कथं अन्यथैवं आयान्ति रत्नानि भवद्विधानि ॥९-४॥
सो वत्स, जाते जनकः कृतात्मा सा पुण्यमूर्तिजननी जगत्सु ।
महीकलापोद्वहनादिपात्रः पुत्रो ययोस्त्वं नरलोकपालः ॥९-५॥
रूपेण तेजस्वितयार्जवेन प्रियंवदत्वेन तवामुना च ।
दिलीपदुष्यन्तभगीरथादीन्तानादिराजान्झटिति स्मरामि ॥९-६॥
समानभावैस्त्रिभिरेव मन्ये समुद्रनेमिवसुधा धृतेयं ।
भुजङ्गमेन्द्रेण च मेरुणा च दोष्णा च मौर्वीकिणशोभिना ते ॥९-७॥
त्वयि स्थिते सम्प्रति जागरूके जगद्विधेयेषु विधूतचिन्तः ।
करोति नेत्रे भगवानवैमि स योगनिद्रामुकुले मुकुन्दः ॥९-८॥
न किं चिदिक्ष्वाकुकुलावतीर्णाद्रथाङ्गपाणेः परिहीयते ते ।
अजायताम्भोजदृशा वियोगो वने यथा तस्य तथा तवापि ॥९-९॥
अकृत्रिमोऽयं गुणवत्सु जाने जात्यैव ते पार्थिव पक्षपातः ।
यत्प्रौढलावण्यसुधास्रवन्त्या तया विना चेतसि ताम्यसीव ॥९-१०॥
अलं विषादेन घनाधिरूढा ललामभूता जगतोऽखिलस्य ।
तवाङ्कं अभ्येष्यति साचिरेण शशिप्रभा पार्थिवकैरवस्य ॥९-११॥
इतोऽद्य यान्ती पुरतो मया सा दृष्टा भुजङ्गाधिपतेस्तनूजा ।
उदग्रभोगैरहिभिः परीता लतेव तन्वी हरिचन्दनस्य ॥९-१२॥
उद्दण्डहेमाम्बुरुहासु खेलदेतासु लीलागृहदीर्घिकासु ।
समुत्कयन्ती कलहंसयूथं आमञ्जुना नूपुरसिञ्जितेन ॥९-१३॥
व्यापारयन्ती वलिताननेन्दुः पश्चाद्दृशौ केतकपत्रदीर्घे ।
इतस्ततः शून्यतया स्खलन्ती समेऽपि मार्गे ददती पदानि ॥९-१४॥
विस्रस्तमाल्यः श्लथबन्धनत्वादंसावकीर्णां कबरीं वहन्ती ।
कलिन्दकन्यामसृणोर्मिनीलां निस्तृंशलेखां इव मन्मथस्य ॥९-१५॥
मुखं निशाघ्रातं इवारविन्दं विषदवीतप्रभं उद्वहन्ती ।
विलुम्पती निःश्वसितेन कान्तिं आपाटलस्याधरपल्लवस्य ॥९-१६॥
उन्मोचयन्तीं अलकाग्रं एत्य लग्नं चलत्कुण्डलरत्नकोटौ ।
किं अप्युदञ्चद्दशनांशुलेखा सखीं शनैः सस्मितं आलपन्ती ॥९-१७॥
सुधासितं क्ष्ॐअं इवास्तृतं तं नखांशुरेखावलयच्छलेन ।
कृतं दधानोपरि पाणिपद्मं उदग्रकम्पस्य कुचद्वयस्य ॥९-१८॥
गतानि सद्यः श्लथतां सखीभिर्विहस्य साकूतविलोकितानि ।
क्रमेण किं चित्प्रतिसारयन्ती विलज्जमाना मणिकङ्कणानि ॥९-१९॥
अशोकपुष्पग्रथितां दधाना प्रालम्बमालां अवलग्नमध्या ।
आरोपितज्येव जगज्जयाय स्वचापलेखा मकरध्वजेन ॥९-२०॥
आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता केलीमृगस्य स्वयं एव तस्य ।
आचुम्बती पाण्डुकपोललेखं वतंसदूर्ध्वाङ्कुरं अर्पयन्ती ॥९-२१॥
मार्गेषु रूढासु निरूढभावात्द्विरेफसम्पातसमाकुलापि ।
लतासु पुष्पावच्छयच्छलेन पदे पदे वत्स विलम्बमाना ॥९-२२॥
त्वदीयविश्लेषं अवाप्य बाला सा लक्ष्यते किं चिदनिर्वृतेव ।
भवादृशां एकपदे वियोगो न कस्य, राजेन्द्र, मनो दुनोति ॥९-२३॥
पृथुप्रतापः सविता यथैव यथा कलानां निधिरोषधीशः ।
यथा वसन्तः सुमनोऽनुकूलस्तथासि भूमिः स्पृहणीयतायाः ॥९-२४॥
_
नायकवाक्यम्
इति क्षितीशश्रुतिशुक्तिपेयां उदीर्य वाचं विरराम रेवा ।
स च स्मितद्योतितदन्तं एवं उवाच तां मध्यमलोकपालः ॥९-२५॥
स्थाने यदाह्लादयसि प्रपन्नं पीयूषधारामधुरैर्वचोभिस् ।
सुधैकसूतिः स यदाकरस्ते चण्डीशचूडाभरणं शशाङ्कः ॥९-२६॥
ऋजुः प्रकृत्यासि परं तदम्ब वीचीशु पर्याप्तं अनार्जवं ते ।
न केवलं सा पयसि प्रसक्तिरालक्ष्यते ते बत मानसेऽपि ॥९-२७॥
या जूटमध्ये च शशाङ्कमौलेरुन्निद्रकुन्दस्रगिवावभाति ।
तां अप्यतीव त्रिजगत्प्रतीक्ष्यां त्रिःस्रोतसं पुण्यतयातिशेषे ॥९-२८॥
या सास्य शक्तिः प्रसराम्बुपङ्के त्वया वृता धर्मविहारवीथिः ।
सलीलं उद्धूलकुलाचलेयं मही महासूकरदंष्ट्र एव ॥९-२९॥
भवादृशीनां महतां नदीनां अद्भिर्जगत्यस्तमितोपसर्गे ।
सुखं सदैवासुरजित्समुद्रे निद्राति पर्यङ्कितपन्नगेन्द्रः ॥९-३०॥
असन्तं अप्यम्ब मयि प्रसन्ना सम्भावनाभारमहो निधत्से ।
अस्त्येव भक्तेष्वतिवत्सलत्वात्बलाद्गुणारोपणकौतुकं ते ॥९-३१॥
अनेन मे कोऽपि हृदि प्रहर्षस्तव प्रसादातिशयेन जातः ।
अनार्द्रतां इन्दुमरीचिसख्ये कियच्चिरं चन्द्रमणिर्बिभर्ति ॥९-३२॥
विधाय तत्तादृशं इन्द्रजालं सा केन नीता फणिराजकन्या ।
अपश्यतो हेतुं इहोपपन्नं किं अप्यहो विस्मयते मनो मे ॥९-३३॥
अज्ञानं अस्मिन्विषये किं अन्यत्ममैतदर्हस्यपनेतुं अम्ब ।
दिनान्तसम्मूर्च्छितं अन्धकारं निशामुखस्येव शशाङ्कलेखा ॥९-३४॥
_
पुनो नर्मदावाक्यम्
उक्त्वेति तूष्णीं अभवन्नृस्ॐअः सा स्ॐअसूतिः सरिदित्युवाच ।
अत्रेतिवृत्तं कथयाम्यशेषं निशम्यतां मालवलोकपालः ॥९-३५॥
_
गृहदेवतावाचः
यदैव सा तर्जितचन्द्रकान्तिरजायतेन्दीवरपत्रनेत्रा ।
चित्रस्थितानां गृहदेवतानां इति स्फुरन्ति स्म तदैव वाचः ॥९-३६॥
रत्नाकरत्वं, भुजगेन्द्र जातं कन्या तव श्रीः शुभलक्षणेयं ।
वक्षःस्थलं मध्यमलोकभर्तुर्विभूषयित्री पुरुषोत्तमस्य ॥९-३७॥
भुजङ्गवंशार्णवक्ॐउदीयं इयं पताकास्य रसातलस्य ।
उपागतेयं निधनाग्रदूती वज्राङ्कुशस्यासुरपुङ्गवस्य ॥९-३८॥
स्ववीर्यपर्यस्तपुरन्दरेण तेनासुरेन्द्रेण कदर्थितस्य ।
तेजश्चिरादुच्छ्वसितं तदाभूदिति श्रुते भोगभृतां कुलस्य ॥९-३९॥
तद्देहकान्तिस्तिमिरं व्यनैषीत्यदत्र मोघीकृतरत्नदीपा ।
पित्रा तदस्याः कृतं अर्थयुक्तं आह्लादनं नाम शशिप्रभेति ॥९-४०॥
ततः सुधासूतिकराभिरामैर्गुणैः परीता सहजन्मभिः सा ।
शनैः शनैर्वृद्धिं अवापदत्र रसातले बालमृणालोकेव ॥९-४१॥
_
शशिप्राभापितुः प्रतिज्ञा
यदर्थिताभूदनुबद्धमानसैः सुरैश्च सिद्धैश्च महोरगैश्च ।
तेषां पुरस्तादकृतव्यवस्थां इत्येकदा संसदि पन्नगेन्द्रः ॥९-४२॥
गुप्ताभिहितो यत्त्रिदशारिवीरैर्वज्राङ्कुशाख्यस्य महासुरस्य ।
असूत लीलागृहदीर्घिकेह हैमं हरेर्नाभिरिवारविन्दं॥ ९-४३॥
आनीय तद्यो दुहितुर्ममास्याः कर्णावतंसप्रणयीकरोति ।
तस्येयं इष्वासभृतः कलत्रं पार्थस्य पाञ्चालनृपात्मजेव ॥९-४४॥
तेनैवं उक्ते च तदा परेषु तं अर्थं अङ्गीकृतवान्न कोऽपि ।
वन्यद्विपादुद्गतदानराजेः कः कुम्भमुक्ताफलं आददीत ॥९-४५॥
ततः प्रभृत्यद्भुतरूपरेखा सा बालिकाभूदवरा वरापि ।
चित्ते वचस्तत्कुलदेवतानां कृत्वापि तस्याः सश्च नान्वशेत ॥९-४६॥
सम्प्रत्यवैमि प्रथिता यदातः स्वर्गे च भूमौ च भुवस्तले च ।
नीतोऽसि नेत्रातिथितां त्वं अस्याः पुण्येन जन्मान्तरसम्भृतेन ॥९-४७॥
आनेतुकामेन भवन्तं अत्र निजं वचस्तन्नयता प्रतिष्ठां ।
आप्तप्रयत्नेन तथा स मन्ये फणीश्वरेणोपकृतः प्रपञ्चः ॥९-४८॥
एकः क्षितौ साहसिकस्त्वं एव नान्योऽस्ति राजन्नवसाहसाङ्कः ।
निसर्गदुर्गां अपि भूमिं एतां स्वोद्यानवीथीं इव यः प्रविष्टः ॥९-४९॥
तदस्य कार्यस्य पुरस्कृतस्य यतस्व सीमान्तविलोकनाय ।
विगाहमानोऽम्बरं अर्धमार्गं निवर्तते जातु किं उष्णराश्मिः ॥९-५०॥
इतोऽस्ति गव्यूतिशतार्धमात्रं गत्वा पुरी रत्नवतीति नाम्ना ।
विनिर्मिता शिल्पिकलामयेन मयेन या नाकजिगीषयेन ॥९-५१॥
तस्यासुरेन्द्रस्य नराधिपेन्द्र जगद्द्रुहः सा किल राजधानी ।
समेधितस्याब्जभुवा वरेण रणेष्ववध्यो मरुतां भवेति ॥९-५२॥
सो मौलिरत्नानि महोरगाणां उत्ख्याय चोत्खाय च कौतुकेन ।
करोति निर्वासितनायकेषु निजाङ्गनाहारलतान्तरेषु ॥९-५३॥
सो बाष्पपर्याकुललोचनानि निःश्वासभिन्नाधरपल्लवानि ।
करोति वक्त्राण्यमराङ्गनानां उत्सन्नलीलास्मितचन्द्रिकानि ॥९-५४॥
कृताङ्गदः कम्बलकालियाभ्यां यज्ञोपवीतीकृतशङ्खचूडः ।
सस्तक्षकापादितकण्ठभूषो बिभर्ति लीलां अशिवः शिवस्य ॥९-५५॥
आस्तां किं अन्यैः फणिभिः सश्चिन्त्यस्तस्यापि शेषस्य च वासुकेश्च ।
राहुर्यथा विश्वभयैकहेतुस्ताराधिपस्याहिमदीधितेश्च ॥९-५६॥
खगेन्द्रभङ्गेन तथा तथा च न सर्पयज्ञे जनमेजयस्य ।
निधानं आतङ्कपरम्पराणां जातो यथा सम्प्रति नागलोकः ॥९-५७॥
हरेस्त्वं अंशोऽत्र कृतावतारस्तस्यासुरेन्द्रस्य निबर्हणाय ।
अवैमि लोकत्रयकण्टकस्य लङ्काधिपस्येव स मैथिलीशः ॥९-५८॥
श्रीकण्ठवैकुण्ठपुरन्दराद्यैरुपेक्षितं यत्त्रिदशैरशक्त्या ।
कृतस्य तस्यास्य भरं विसोढुं सम्भाव्यसे मे नृपते त्वं एव ॥९-५९॥
किं अन्यदुत्तिष्ठ गृहाण यात्रां वज्राङ्कुशं प्रत्यमितप्रताप ।
तच्चावतंसीकुरु हेमपद्मं आनीय, भूशक्र, शशिप्रभायाः ॥९-६०॥
सा ते समाप्ताद्भुतसाहसस्य वत्साङ्कं अभ्येतु फणीन्द्रकन्या ।
सीता यथा दशरथेः सलीलं आरोपितत्र्यम्बककार्मुकस्य ॥९-६१॥
अगाधपातालतलोद्गतानि विनिद्रकुन्दच्छदसुन्दरानि ।
लोकद्वये सम्प्रति ते यशांसि आकल्पपल्लवीफलवच्चरन्तु ॥९-६२॥
प्रसादं आप्तेन चिराद्विलीने तस्मिन्सुरारातिघनोपरोधे ।
मुखेन्दुना पन्नगसुन्दरीणां पुनः समागच्छतु पत्रलेखा ॥९-६३॥
आसीत्पुरस्तात्त्रिपुरावभङ्गे यन्मण्डलं बालमृगाङ्कमौलेः ।
महासुरैर्भाविनि साम्पराये तवास्तु तत्संयुगजामदग्न्य ॥९-६४॥
पन्थाः शिवोऽयं पुरतोऽत्र गन्ता वङ्कुर्मुनिर्लोचनगोचरं ते ।
उपाचरेस्तं च तथाविधानां भक्तिं हि गां कामदुहां उशन्ति ॥९-६५॥
इत्युदीर्य मणिकान्तिकन्दलीः कल्पितं त्रिदशचापं अस्य सा ।
आ मुमोच निजकण्कणं भुजे ज्याकिणाङ्ककठिणीकृतत्वचि ॥९-६६॥
_
नर्मदोक्तिस्वीकारः
अवददथ सः साहसोन्मुखस्तां इह हि वयं वचसि स्थितास्तवेति ।
तडिदिव न चिरादुदीरिताशीः सरिदपि सास्य पुरस्तिरोबभूव ॥९-६७॥
इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नर्मदासंवादो नाम नवमः सर्गः
N/A
References : N/A
Last Updated : November 11, 2016
TOP