संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| नवमः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - नवमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत नवमः सर्गः Translation - भाषांतर नर्मदावाक्यम्अथ स्वरेणाङ्गणदीर्घिकाणां संवाहयन्ती कलहंसनादं ।तं इत्यवन्तीश्वरं आ बभाषे सा मेकलक्ष्माधरराजकन्या ॥९-१॥नास्य क्षितीशोपकृतं जनस्य कियत्तया पन्नगराजपुत्र्या ।यस्याः कृते सम्प्रति भूषितेयं भूमिस्त्वया भूशशलाञ्छनेन ॥९-२॥इदं नृप त्वां अवलोक्य जातं मनः प्रमोदेन ममास्वतन्त्रं ।नो कस्य लोकत्रयसंमतानां भवेत्सतां सङ्गतं उत्सवाय ॥९-३॥अद्यैष कस्यापि मया शुभस्य त्वद्दर्शनेनानुमितो विपाकः ।आतिथ्यं अक्ष्णोः कथं अन्यथैवं आयान्ति रत्नानि भवद्विधानि ॥९-४॥सो वत्स, जाते जनकः कृतात्मा सा पुण्यमूर्तिजननी जगत्सु ।महीकलापोद्वहनादिपात्रः पुत्रो ययोस्त्वं नरलोकपालः ॥९-५॥रूपेण तेजस्वितयार्जवेन प्रियंवदत्वेन तवामुना च ।दिलीपदुष्यन्तभगीरथादीन्तानादिराजान्झटिति स्मरामि ॥९-६॥समानभावैस्त्रिभिरेव मन्ये समुद्रनेमिवसुधा धृतेयं ।भुजङ्गमेन्द्रेण च मेरुणा च दोष्णा च मौर्वीकिणशोभिना ते ॥९-७॥त्वयि स्थिते सम्प्रति जागरूके जगद्विधेयेषु विधूतचिन्तः ।करोति नेत्रे भगवानवैमि स योगनिद्रामुकुले मुकुन्दः ॥९-८॥न किं चिदिक्ष्वाकुकुलावतीर्णाद्रथाङ्गपाणेः परिहीयते ते ।अजायताम्भोजदृशा वियोगो वने यथा तस्य तथा तवापि ॥९-९॥अकृत्रिमोऽयं गुणवत्सु जाने जात्यैव ते पार्थिव पक्षपातः ।यत्प्रौढलावण्यसुधास्रवन्त्या तया विना चेतसि ताम्यसीव ॥९-१०॥अलं विषादेन घनाधिरूढा ललामभूता जगतोऽखिलस्य ।तवाङ्कं अभ्येष्यति साचिरेण शशिप्रभा पार्थिवकैरवस्य ॥९-११॥इतोऽद्य यान्ती पुरतो मया सा दृष्टा भुजङ्गाधिपतेस्तनूजा ।उदग्रभोगैरहिभिः परीता लतेव तन्वी हरिचन्दनस्य ॥९-१२॥उद्दण्डहेमाम्बुरुहासु खेलदेतासु लीलागृहदीर्घिकासु ।समुत्कयन्ती कलहंसयूथं आमञ्जुना नूपुरसिञ्जितेन ॥९-१३॥व्यापारयन्ती वलिताननेन्दुः पश्चाद्दृशौ केतकपत्रदीर्घे ।इतस्ततः शून्यतया स्खलन्ती समेऽपि मार्गे ददती पदानि ॥९-१४॥विस्रस्तमाल्यः श्लथबन्धनत्वादंसावकीर्णां कबरीं वहन्ती ।कलिन्दकन्यामसृणोर्मिनीलां निस्तृंशलेखां इव मन्मथस्य ॥९-१५॥मुखं निशाघ्रातं इवारविन्दं विषदवीतप्रभं उद्वहन्ती ।विलुम्पती निःश्वसितेन कान्तिं आपाटलस्याधरपल्लवस्य ॥९-१६॥उन्मोचयन्तीं अलकाग्रं एत्य लग्नं चलत्कुण्डलरत्नकोटौ ।किं अप्युदञ्चद्दशनांशुलेखा सखीं शनैः सस्मितं आलपन्ती ॥९-१७॥सुधासितं क्ष्ॐअं इवास्तृतं तं नखांशुरेखावलयच्छलेन ।कृतं दधानोपरि पाणिपद्मं उदग्रकम्पस्य कुचद्वयस्य ॥९-१८॥गतानि सद्यः श्लथतां सखीभिर्विहस्य साकूतविलोकितानि ।क्रमेण किं चित्प्रतिसारयन्ती विलज्जमाना मणिकङ्कणानि ॥९-१९॥अशोकपुष्पग्रथितां दधाना प्रालम्बमालां अवलग्नमध्या ।आरोपितज्येव जगज्जयाय स्वचापलेखा मकरध्वजेन ॥९-२०॥आर्द्रव्रणाङ्कस्य कृपार्द्रचित्ता केलीमृगस्य स्वयं एव तस्य ।आचुम्बती पाण्डुकपोललेखं वतंसदूर्ध्वाङ्कुरं अर्पयन्ती ॥९-२१॥मार्गेषु रूढासु निरूढभावात्द्विरेफसम्पातसमाकुलापि ।लतासु पुष्पावच्छयच्छलेन पदे पदे वत्स विलम्बमाना ॥९-२२॥त्वदीयविश्लेषं अवाप्य बाला सा लक्ष्यते किं चिदनिर्वृतेव ।भवादृशां एकपदे वियोगो न कस्य, राजेन्द्र, मनो दुनोति ॥९-२३॥पृथुप्रतापः सविता यथैव यथा कलानां निधिरोषधीशः ।यथा वसन्तः सुमनोऽनुकूलस्तथासि भूमिः स्पृहणीयतायाः ॥९-२४॥_नायकवाक्यम्इति क्षितीशश्रुतिशुक्तिपेयां उदीर्य वाचं विरराम रेवा ।स च स्मितद्योतितदन्तं एवं उवाच तां मध्यमलोकपालः ॥९-२५॥स्थाने यदाह्लादयसि प्रपन्नं पीयूषधारामधुरैर्वचोभिस् ।सुधैकसूतिः स यदाकरस्ते चण्डीशचूडाभरणं शशाङ्कः ॥९-२६॥ऋजुः प्रकृत्यासि परं तदम्ब वीचीशु पर्याप्तं अनार्जवं ते ।न केवलं सा पयसि प्रसक्तिरालक्ष्यते ते बत मानसेऽपि ॥९-२७॥या जूटमध्ये च शशाङ्कमौलेरुन्निद्रकुन्दस्रगिवावभाति ।तां अप्यतीव त्रिजगत्प्रतीक्ष्यां त्रिःस्रोतसं पुण्यतयातिशेषे ॥९-२८॥या सास्य शक्तिः प्रसराम्बुपङ्के त्वया वृता धर्मविहारवीथिः ।सलीलं उद्धूलकुलाचलेयं मही महासूकरदंष्ट्र एव ॥९-२९॥भवादृशीनां महतां नदीनां अद्भिर्जगत्यस्तमितोपसर्गे ।सुखं सदैवासुरजित्समुद्रे निद्राति पर्यङ्कितपन्नगेन्द्रः ॥९-३०॥असन्तं अप्यम्ब मयि प्रसन्ना सम्भावनाभारमहो निधत्से ।अस्त्येव भक्तेष्वतिवत्सलत्वात्बलाद्गुणारोपणकौतुकं ते ॥९-३१॥अनेन मे कोऽपि हृदि प्रहर्षस्तव प्रसादातिशयेन जातः ।अनार्द्रतां इन्दुमरीचिसख्ये कियच्चिरं चन्द्रमणिर्बिभर्ति ॥९-३२॥विधाय तत्तादृशं इन्द्रजालं सा केन नीता फणिराजकन्या ।अपश्यतो हेतुं इहोपपन्नं किं अप्यहो विस्मयते मनो मे ॥९-३३॥अज्ञानं अस्मिन्विषये किं अन्यत्ममैतदर्हस्यपनेतुं अम्ब ।दिनान्तसम्मूर्च्छितं अन्धकारं निशामुखस्येव शशाङ्कलेखा ॥९-३४॥_पुनो नर्मदावाक्यम्उक्त्वेति तूष्णीं अभवन्नृस्ॐअः सा स्ॐअसूतिः सरिदित्युवाच ।अत्रेतिवृत्तं कथयाम्यशेषं निशम्यतां मालवलोकपालः ॥९-३५॥_गृहदेवतावाचःयदैव सा तर्जितचन्द्रकान्तिरजायतेन्दीवरपत्रनेत्रा ।चित्रस्थितानां गृहदेवतानां इति स्फुरन्ति स्म तदैव वाचः ॥९-३६॥रत्नाकरत्वं, भुजगेन्द्र जातं कन्या तव श्रीः शुभलक्षणेयं ।वक्षःस्थलं मध्यमलोकभर्तुर्विभूषयित्री पुरुषोत्तमस्य ॥९-३७॥भुजङ्गवंशार्णवक्ॐउदीयं इयं पताकास्य रसातलस्य ।उपागतेयं निधनाग्रदूती वज्राङ्कुशस्यासुरपुङ्गवस्य ॥९-३८॥स्ववीर्यपर्यस्तपुरन्दरेण तेनासुरेन्द्रेण कदर्थितस्य ।तेजश्चिरादुच्छ्वसितं तदाभूदिति श्रुते भोगभृतां कुलस्य ॥९-३९॥तद्देहकान्तिस्तिमिरं व्यनैषीत्यदत्र मोघीकृतरत्नदीपा ।पित्रा तदस्याः कृतं अर्थयुक्तं आह्लादनं नाम शशिप्रभेति ॥९-४०॥ततः सुधासूतिकराभिरामैर्गुणैः परीता सहजन्मभिः सा ।शनैः शनैर्वृद्धिं अवापदत्र रसातले बालमृणालोकेव ॥९-४१॥_शशिप्राभापितुः प्रतिज्ञायदर्थिताभूदनुबद्धमानसैः सुरैश्च सिद्धैश्च महोरगैश्च ।तेषां पुरस्तादकृतव्यवस्थां इत्येकदा संसदि पन्नगेन्द्रः ॥९-४२॥गुप्ताभिहितो यत्त्रिदशारिवीरैर्वज्राङ्कुशाख्यस्य महासुरस्य ।असूत लीलागृहदीर्घिकेह हैमं हरेर्नाभिरिवारविन्दं॥ ९-४३॥आनीय तद्यो दुहितुर्ममास्याः कर्णावतंसप्रणयीकरोति ।तस्येयं इष्वासभृतः कलत्रं पार्थस्य पाञ्चालनृपात्मजेव ॥९-४४॥तेनैवं उक्ते च तदा परेषु तं अर्थं अङ्गीकृतवान्न कोऽपि ।वन्यद्विपादुद्गतदानराजेः कः कुम्भमुक्ताफलं आददीत ॥९-४५॥ततः प्रभृत्यद्भुतरूपरेखा सा बालिकाभूदवरा वरापि ।चित्ते वचस्तत्कुलदेवतानां कृत्वापि तस्याः सश्च नान्वशेत ॥९-४६॥सम्प्रत्यवैमि प्रथिता यदातः स्वर्गे च भूमौ च भुवस्तले च ।नीतोऽसि नेत्रातिथितां त्वं अस्याः पुण्येन जन्मान्तरसम्भृतेन ॥९-४७॥आनेतुकामेन भवन्तं अत्र निजं वचस्तन्नयता प्रतिष्ठां ।आप्तप्रयत्नेन तथा स मन्ये फणीश्वरेणोपकृतः प्रपञ्चः ॥९-४८॥एकः क्षितौ साहसिकस्त्वं एव नान्योऽस्ति राजन्नवसाहसाङ्कः ।निसर्गदुर्गां अपि भूमिं एतां स्वोद्यानवीथीं इव यः प्रविष्टः ॥९-४९॥तदस्य कार्यस्य पुरस्कृतस्य यतस्व सीमान्तविलोकनाय ।विगाहमानोऽम्बरं अर्धमार्गं निवर्तते जातु किं उष्णराश्मिः ॥९-५०॥इतोऽस्ति गव्यूतिशतार्धमात्रं गत्वा पुरी रत्नवतीति नाम्ना ।विनिर्मिता शिल्पिकलामयेन मयेन या नाकजिगीषयेन ॥९-५१॥तस्यासुरेन्द्रस्य नराधिपेन्द्र जगद्द्रुहः सा किल राजधानी ।समेधितस्याब्जभुवा वरेण रणेष्ववध्यो मरुतां भवेति ॥९-५२॥सो मौलिरत्नानि महोरगाणां उत्ख्याय चोत्खाय च कौतुकेन ।करोति निर्वासितनायकेषु निजाङ्गनाहारलतान्तरेषु ॥९-५३॥सो बाष्पपर्याकुललोचनानि निःश्वासभिन्नाधरपल्लवानि ।करोति वक्त्राण्यमराङ्गनानां उत्सन्नलीलास्मितचन्द्रिकानि ॥९-५४॥कृताङ्गदः कम्बलकालियाभ्यां यज्ञोपवीतीकृतशङ्खचूडः ।सस्तक्षकापादितकण्ठभूषो बिभर्ति लीलां अशिवः शिवस्य ॥९-५५॥आस्तां किं अन्यैः फणिभिः सश्चिन्त्यस्तस्यापि शेषस्य च वासुकेश्च ।राहुर्यथा विश्वभयैकहेतुस्ताराधिपस्याहिमदीधितेश्च ॥९-५६॥खगेन्द्रभङ्गेन तथा तथा च न सर्पयज्ञे जनमेजयस्य ।निधानं आतङ्कपरम्पराणां जातो यथा सम्प्रति नागलोकः ॥९-५७॥हरेस्त्वं अंशोऽत्र कृतावतारस्तस्यासुरेन्द्रस्य निबर्हणाय ।अवैमि लोकत्रयकण्टकस्य लङ्काधिपस्येव स मैथिलीशः ॥९-५८॥श्रीकण्ठवैकुण्ठपुरन्दराद्यैरुपेक्षितं यत्त्रिदशैरशक्त्या ।कृतस्य तस्यास्य भरं विसोढुं सम्भाव्यसे मे नृपते त्वं एव ॥९-५९॥किं अन्यदुत्तिष्ठ गृहाण यात्रां वज्राङ्कुशं प्रत्यमितप्रताप ।तच्चावतंसीकुरु हेमपद्मं आनीय, भूशक्र, शशिप्रभायाः ॥९-६०॥सा ते समाप्ताद्भुतसाहसस्य वत्साङ्कं अभ्येतु फणीन्द्रकन्या ।सीता यथा दशरथेः सलीलं आरोपितत्र्यम्बककार्मुकस्य ॥९-६१॥अगाधपातालतलोद्गतानि विनिद्रकुन्दच्छदसुन्दरानि ।लोकद्वये सम्प्रति ते यशांसि आकल्पपल्लवीफलवच्चरन्तु ॥९-६२॥प्रसादं आप्तेन चिराद्विलीने तस्मिन्सुरारातिघनोपरोधे ।मुखेन्दुना पन्नगसुन्दरीणां पुनः समागच्छतु पत्रलेखा ॥९-६३॥आसीत्पुरस्तात्त्रिपुरावभङ्गे यन्मण्डलं बालमृगाङ्कमौलेः ।महासुरैर्भाविनि साम्पराये तवास्तु तत्संयुगजामदग्न्य ॥९-६४॥पन्थाः शिवोऽयं पुरतोऽत्र गन्ता वङ्कुर्मुनिर्लोचनगोचरं ते ।उपाचरेस्तं च तथाविधानां भक्तिं हि गां कामदुहां उशन्ति ॥९-६५॥इत्युदीर्य मणिकान्तिकन्दलीः कल्पितं त्रिदशचापं अस्य सा ।आ मुमोच निजकण्कणं भुजे ज्याकिणाङ्ककठिणीकृतत्वचि ॥९-६६॥_नर्मदोक्तिस्वीकारःअवददथ सः साहसोन्मुखस्तां इह हि वयं वचसि स्थितास्तवेति ।तडिदिव न चिरादुदीरिताशीः सरिदपि सास्य पुरस्तिरोबभूव ॥९-६७॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये नर्मदासंवादो नाम नवमः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP