संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| षष्ठः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - षष्ठः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत षष्ठः सर्गः Translation - भाषांतर नायिकावस्थावर्णनम्तदा फणीन्द्रकन्यापि बाणनामाङ्कसूचिते ।नरेन्द्रतिलके तस्मिन्नभिलाषं बबन्ध सा ॥६-१॥सहसा हृदये तस्या निदधे मन्मथः पदं ।अशोकयष्टिस्तबके सराग इव षट्पदः ॥६-२॥अवशा साभवच्चित्रं नाम्नापि पृथिवीपतेः ।न तदस्त्यत्र यन्नास्त्रं सन्नद्धस्य मनोभुवः ॥६-३॥स्मराग्निकणमेणाक्ष्यास्तस्याः समुददीपयथ् ।मकरध्वजसाम्राज्य- सचिवो मलयानिलः ॥६-४॥सोल्लसत्स्मरलीलेन नवेन वयसा बभौ ।उन्मिषन्मधुलेखेन मुकुलेनेव मालती ॥६-५॥सातनुश्वसनस्पृष्ट- पाटलाधरपल्लवं ।उवाह मुखं उज्जृम्भं अम्भोजं इव पद्मिनी ॥६-६॥निकामसरले तस्मिन्सा मुहुस्तरलेदृशौ ।शरे नरेन्द्रचन्द्रस्य चिक्षेप न सखीजने ॥६-७॥नरेन्द्रनामाङ्कलिपिस्तां आनन्दयति स्म सा ।कुमुद्वतीं इवोदञ्चत्- बालेन्दुकिरणच्छटा ॥६-८॥हेमपुङ्खाङ्किते तस्मिन्शरे करं उपेयुषि ।बलाद्विवेश सा बाला दीक्षां वैवाहिकीं इव ॥६-९॥तेनावाप्ततदाताम्र- पाणिस्पर्शेण पत्रिणा ।स्फुरत्कान्तिचयव्याजादमुच्यन्तेव पल्लवाः ॥६-१०॥नवीनसाहसाङ्कस्य कामदेवाकृतेरयं ।मालवैकमृगाङ्कस्य सिन्धुराजस्य सायकः ॥६-११॥पुनःपुन इति स्वादु नृपतेर्नामलक्ष्म सा ।अपठच्चारुबिम्बौष्ठ- लुठद्दशनचन्द्रिका ॥६-१२॥अधीत्य कौतुकेनाथ कृतपञ्चममूर्च्छनाः ।तदग्रे नृपनामाङ्कं जगुः पातालकन्यकाः ॥६-१३॥अदृष्टेऽप्युत्सुका राज्ञि तद्गीतेन बभूव सा ।प्रबोधे यदनङ्गाग्नेः पञ्चमः प्रथामा समिथ् ॥६-१४॥अवेपत समुन्मीलत्- विलासकुसुमान्न्चिता ।मनोभवानिलस्पर्श- वशाद्वनलतेव सा ॥६-१५॥नवानुरागं अङ्गेन व्यक्ततच्चिह्नचुम्बिना ।विनावचनं आचख्यौ सखीषु चतुरासु सा ॥६-१६॥_शशिप्रभायाः प्रश्नःसावहित्थं अथेत्थं सा सखीजनं अभाषत ।सुधानिष्यन्दजडया शरदिन्दुमुखी गिरा ॥६-१७॥अभेदं इन्दुना नीतः साचिव्यं मेनकेतुना ।सख्यः कः सिन्धुराजोऽयं साहसाङ्कनिरूप्यते ॥६-१८॥किं एवं अवतिष्ठध्वै मौनं मुञ्चत शंसत ।उन्मीलति यदन्तर्मे बलात्कौतुककन्दली ॥६-१९॥_मल्यवत्या उत्तरम्अथ माल्यवती नाम तत्सखी सिद्धकन्यका ।इति स्मितसुधार्द्रेण वचसा तां अवोचत ॥६-२०॥सखि साहासिकः स अयं अवन्तितिलको नृपः ।गीयते केतकापाण्डु यस्योरगपुरे यशः ॥६-२१॥तं काश्यपीसहस्राक्षं अद्रक्षं अहं एकदा ।गता श्रीमन्महाकाल- पर्वण्युज्जयिनीं पुरीं॥ ६-२२॥तन्वि तिग्मांशुनेव द्यौर्निशेव शशलक्ष्मणा ।सा सनाथा पुरी तेन वज्रिणेवामरावती ॥६-२३॥रम्भा त्वयेव यत्सत्यं तेनालि नलकूबरः ।त्याजितो रूपजं गर्वं उर्वीमकरकेतुना ॥६-२४॥अकलङ्काकृतेस्तस्य चतुःषष्ठिकलावतः ।तुलाधिरोहहेवाके कः षोडशकलः शशी ॥६-२५॥तस्यावनिप्रदीपस्य ते ते नैसर्गिका गुणाः ।क्व नाम न प्रकाशन्ते रवेरिव मरीचयः ॥६-२६॥न नागेषु न सिद्धेषु न नरेष्वमरेष्वथ ।अवापि क्वापि संवादस्तद्रूपोल्लेखलेखया ॥६-२७॥सो हि केनापि कृत्येन गां गतः श्रूयते पुनः ।निह्नुतैकभुजद्वन्द्वो देवः श्रीवत्सलाञ्छनः ॥६-२८॥किं अन्यत्तव संतुष्ट्यै पश्य चित्रे लिखाम्यहं ।चिरस्य दीर्घनयने तवास्तु नयनोत्सवः ॥६-२९॥_आकृतिलेखनम्अथ सा सिद्धतनया तं लिलेख शिलातले ।हृदि तूरगराजेन्द्र- दुहितुर्मीनकेतनः ॥६-३०॥तदालिखितभूपालं तया चिन्तितकामदं ।चिन्तामणेरप्यधिकं शिलातलं अमांस्त सा ॥६-३१॥ततश्चित्रगते तस्मिन्महीपालो मदालसाः ।समं एवाहिकन्यानां पेतुर्नेत्रपरम्पराः ॥६-३२॥पपौ शशिप्रभाप्येनं चिरं उत्पक्ष्मलेखया ।पुनरुक्तीकृतोन्निद्र- कर्णेन्दीवरया दृशा ॥६-३३॥रूपं आस्वादयां आस तस्यालेख्यगतस्य सा ।भ्रमरीवारविन्दस्य सुधासहचरं मधु ॥६-३४॥आनीयताकुलत्वं सा त्रितीयेन तनूदरी ।विस्मयेनातिसान्द्रेण मदेन मदनेन च ॥६-३५॥विवेश हृदये तस्याः स चित्रलिखितो नृपः ।शरत्प्रसन्ने सरितः प्रतिमेन्दुरिव अम्भसि ॥६-३६॥स्तनपत्रलतां तस्या बिभेद पुलकोद्गमः ।सत्यं यदन्तरङ्गेण बहिरङ्गो निरस्यते ॥६-३७॥तस्याः कुचयुगे किंचिन्निश्वासः कम्पं आदधे ।रथाङ्गनाममिथुने सायन्तन इवानिलः ॥६-३८॥तस्याः स्वेदलवश्रेणि- च्छद्मना वदनश्रिया ।विशतोऽन्तरनङ्गस्य लाजाञ्जलिरिवोज्झितः ॥६-३९॥शङ्के शरं ऋजूकुर्वन्ददृशे मन्मथस्तया ।यत्सा मृदुक्वणत्काञ्चि- किङ्किणीकं अकम्पत ॥६-४०॥एष दृष्टस्त्वयेत्युक्ता सख्या सा साध्वसाकुला ।गद्गदाक्षरं अव्यक्तं कृच्छ्रात्प्रतिवचो ददौ ॥६-४१॥चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।व्रीडार्धवलितं चक्रे मुखेन्दुं अवशैव सा ॥६-४२॥दृष्टा सखीभिः साकूतं सा बालाधरपल्लवे ।दधौ वैलक्ष्यहसितं प्रसूनं इव माधवी ॥६-४३॥नवं प्रेम नवोत्कण्ठा नवास्ते ते मनोरथाः ।इति तस्यास्तथैवाभूदन्तरङ्गः परिच्छदः ॥६-४४॥किंचित्त्रपानुविद्धेन पुण्डरीकदलत्विषा ।तं आनर्चेव राजेन्दुं अनिमित्तस्मितेन सा ॥६-४५॥सा च दोःशयितभुवा नृपेणाद्ध्यासिता हृदि ।कृताङ्गभङ्गवलना झटित्यालस्यं आययौ ॥६-४६॥तत्क्षणेनैव सा चित्रं तन्वी तन्मयतां ययौ ।कं न प्रतारयत्येष कितवः कुसुमायुधः ॥६-४७॥स्तिमितेवावतस्थे सा सारङ्गायतलोचना ।अचेतनेव शून्येव सुप्तेवालिखितेव च ॥६-४८॥स्मरेण मर्मणि क्वापि साविध्यत सुमध्यमा ।अनिद्रितापि यत्साभूत्क्षणं मुकुलितेक्षणा ॥६-४९॥व्यञ्चितानङ्गलीलेन शृङ्गाररसबन्धुना ।तन्वी नवानुरागेण सान्यैव घटिताभवथ् ॥६-५०॥ऋजुना ऐक्षत यच्चित्रं यदभूच्च त्रपावती ।तेनातिगूढभावापि सा सखीभिरलक्ष्यत ॥६-५१॥अथानङ्गवती नाम सखी तां इत्यवोचत ।दशनज्योत्स्नयारण्यं सुधयेव निषिञ्चती ॥६-५२॥कच्चिदस्य प्रमोदाय कुमुदस्येव चक्षुषः ।अयं मध्यमलोकेन्दुः पातालेन्दुकले तव ॥६-५३॥वनानिलाहृतोन्निद्र- पद्मकेसरशालिना ।र्ॐओद्गम इवानेन धृतस्त्वदवलोकनाथ् ॥६-५४॥अद्य नः सफलं चक्षुश्चित्रे यदवलोकितः ।कन्दर्पाधिककान्तोऽयं अवन्तिमृगलाञ्छनः ॥६-५५॥त्वां अप्यवाञ्चितां मन्ये यत्त्वयैतस्य वक्षसि ।एते सविभ्रमं न्यस्ते दृशौ मुक्तालते इव ॥६-५६॥जितं एतेन कोऽप्येष सत्यं कामोऽस्य किङ्करः ।आरोहति परां कोटिं अत्र यत्तव सम्भ्रमः ॥६-५७॥त्वं अत्र बद्धभावेव किं इन्दुमुखि लज्जसे ।विलङ्घयत्यलङ्घ्यानि स्मरदुर्ललितानि कः ॥६-५८॥कोऽन्यः सखि नृशंसोऽस्ति कामं विषमबाणतः ।सुकुमारे तवाप्यङ्गे येन व्यापारितः शरः ॥६-५९॥बिम्बौष्ठे एव रागस्ते तन्वि पूर्वं अदृश्यत ।अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते ॥६-६०॥एकेन राजहंसेन हृतो हारस्तनूदरि ।अनेन तु द्वितीयेन लिखितेनापि ते मनः ॥६-६१॥कुतस्त्रपा तवालीषु किंचिदुन्नमयाननं ।अहो बत त्वं एतस्मिन्नत्यायतकुतूहला ॥६-६२॥एतत्कर्णोत्पलं लोलं अपाङ्गप्रतिवेशितं ।त्वदुदन्तं इवैतस्य कथयत्यलिकूजितैः ॥६-६३॥अहो दूरस्थितेनापि हृदि स्पृष्टा नृपेन्दुना ।इन्दुकान्तशिलेव त्वं आर्द्रतां अवगाहसे ॥६-६४॥निपुणे निःश्वसिष्येवं अतिगूढं यथा यथा ।तथा तथा तव व्यक्तं अयं उच्छ्वसति स्मरः ॥६-६५॥स्मितं एतदलोलाक्षि लज्जासंवलितं तव ।इदं निर्जितबाल्यस्य यौवनस्योदितं यशः ॥६-६६॥यथा तवेयं अरतिर्यथा सुतनु वेपसे ।तथा कवचितः शङ्के निःशङ्कं मदनस्त्वयि ॥६-६७॥किं अत्र करवै गाढं आकल्पकं इदं तव ।इयं च मन्मथस्यास्त्रं निर्गता चूतमञ्जरी ॥६-६८॥सुरतक्लान्तशबरी- कबरीमाल्यचुम्बिनः ।कथं एते त्वया तन्वि सह्या मलयवायवः ॥६-६९॥किं ताम्यसि तवोपान्तं आनयाम्यधुनैव तं ।इत्याश्वासयतीव त्वां कोकिलोऽयं कलस्वनः ॥६-७०॥कूजन्ती कोकिलवधूरियं आधिं धुनोति ते ।अनङ्गनृपसाम्राज्य- लीलामङ्गलगायिनी ॥६-७१॥वनान्तदेवतावाप्त- पादन्यासोत्सवः स्फुटं ।एष स्तबकितोऽशोकः सुहृत्कामस्य का गतिः ॥६-७२॥अत्रोर्वीतिलके दृष्टिं अस्यन्तीं तिलकः क्रुधा ।अयं तर्जयतीव त्वां वाताधूतलताङ्गुलिः ॥६-७३॥पथि स्मरस्य विषमे स्खलितायां इतस्त्वयि ।स्मितच्छटेव निर्याति सिन्दुवारस्य मञ्जरी ॥६-७४॥द्राघयत्यस्तबिम्बौष्ठ- रुचिनिःश्वसितानि ते ।अयं मुकुलितः किंचिद्बकुलो मुकुलस्तनि ॥६-७५॥लतया कर्णिकारस्य पुरः पुष्पितयानया ।अनङ्गस्यैकराज्येऽस्मिन्हेमवेत्रलतायितं॥ ६-७६॥अहो न कस्य भिन्दन्ति हृदयं वीक्षिता अपि ।निसर्गमृदवोऽप्येते सहकारनवाङ्कुराः ॥६-७७॥चतुरां कोकिलां एष कृत्वा कुरबको मुखे ।दुर्लभं याचतीव त्वां लीलालिङ्गनदोहदं॥ ६-७८॥अशोकस्कन्धलग्नेयं कुसुमैर्नवमाधवी ।प्रार्थनीयप्रियस्पर्शां हसति त्वां इवोत्सुकां॥ ६-७९॥भूपतावनुरक्तायास्तव सन्तापदीपनं ।स्थलारविन्दं सेर्ष्येव सूते सखि वसुन्धरा ॥६-८०॥अमीष्वङ्कस्थकन्दर्प- जगद्विजगयसिद्धिषु ।दृष्टिरुद्विजते तन्वि पाटलाकुड्मलेषु ते ॥६-८१॥सुन्दरि द्वितयस्यात्र क्रशिमा भूषणायते ।राजन्याबद्धभावायास्तव रात्रेश्च सम्प्रति ॥६-८२॥एष चैत्रोत्सवश्चित्रे नृपोऽयं नूतनं वयः ।प्राप्तावकाशः कामोऽपि पतितास्यतिसङ्कटे ॥६-८३॥किं आलिखितवत्येषा चित्रे माल्यवती नृपं ।द्वारीकृतेयं अथवा वामेन विधिना तव ॥६-८४॥बहुना किं चकोराक्षि छलितासि मनोभुवा ।सर्वथा ते करिष्यन्ति कुशलं कुलदेवताः ॥६-८५॥इत्यादि व्याहरन्ती सा कृतभ्रूभङ्गया तया ।नरेन्द्रबाणपुङ्खेन कुचे किं चिदतुद्यत ॥६-८६॥_कलावतीवचनम्अथ किन्नरराजेन्द्र- कन्या नाम्ना कलावती ।एवं वचः स्मितसुधा- निषिक्ताक्षरं आददे ॥६-८७॥कामं दुर्लभं एवैतच्चैत्रश्चन्द्राङ्किता निशाः ।प्रेयान्विपञ्चीरणितं पञ्चबाणाङ्कितं वयः ॥६-८८॥अयि त्वां म्लापयत्येष कालः कमललोचने ।जगदाह्लादजनकः सुधासूतिरिवाब्जिनीं॥ ६-८९॥स्थाने तवानुरागोऽयं अनङ्गस्यायं उत्सवः ।सखि स्निह्यति निर्व्याजं इन्दावेव कुमुद्वती ॥६-९०॥नृपस्यारण्यसञ्चारः शरेणानेन सूच्यते ।मरुता द्विरदस्येव मदनिष्यन्दगन्धिना ॥६-९१॥अवश्यं तन्वि चिन्वाना वने हंसं इतस्ततः ।क्वचिद्विलोकयिष्यन्ति तं त्वत्परिजनस्त्रियः ॥६-९२॥ज्ञातत्वदिङ्गितैवात्र तं चेद्द्रक्ष्यति पाटला ।ततोऽस्य षट्पदस्येव बलाच्चेतो हरिष्यति ॥६-९३॥स्थिरा भव नृपेन त्वं इह संयोगं आप्स्यसि ।यथा कण्वाश्रमे पूर्वं दुष्यन्तेन शकुन्तला ॥६-९४॥इति तद्वचसः सीम्नि मसृणोत्कम्पितस्तनी ।व्याजसाचीकृतमुखं निशश्वास शशिप्रभा ॥६-९५॥वनश्रीरत्नमञ्जीरो लताकुञ्जोदरे ततः ।चुकूज मञ्जुकण्ठस्तां दक्षिणेन कपिञ्जलः ॥६-९६॥हर्षाश्रुलवकीर्णेन सत्पत्रावलिचारुणा ।वामेन पस्फुरे तस्याश्चक्षुषा च स्तनेन च ॥६-९७॥अत्रान्तरे समायान्ती ददृशे दूरतस्तया ।नरेन्द्रसवितुस्तस्य पुरः सन्ध्येव पाटला ॥६-९८॥तस्यास्त्रये च त्रितयं अपश्यत्फणिकन्यका ।मुखे स्मितं करे हारं सितं अंसे च चामरं॥ ६-९९॥सा हारहस्ता रुरुचे धृतस्तिमितचामरा ।सरसी सुप्तहंसेव फेनाध्यासितपङ्कजा ॥६-१००॥दृष्टिः फनीन्द्रदुहितुरतिक्रम्यैव पाटलां ।भृङ्गश्रेणिरिवाशोके पपातावन्तिभर्तरि ॥६-१०१॥प्रियं नः स अयं आयाति पश्य पश्य शशिप्रभे ।परमारान्वयोदार- हारमध्यमणिर्नृपस्॥ ६-१०२॥इति प्रियसखीसूक्ति- सुधानिष्यन्दलेखया ।सिक्ते तदाभवत्तस्याः स्मरः पल्लवितो हृदि ॥६-१०३॥सुधारस इवोर्वीभृत्तया संमुखं आपतन् ।दृशा स्फटिकशुक्त्येव वारंवारं अपीयत ॥६-१०४॥वितेनेऽप्यहिकन्याभिः कौतुकेनातनीयसा ।तस्याग्रे राजहंसस्य नेत्रेन्दीवरवागुरा ॥६-१०५॥अवन्तितिलकोदन्तं उपसृत्याथ पाटला ।अनङ्गदीपनं तस्यै जगादेङ्गितवेदिनी ॥६-१०६॥देव पश्चात्स्थितोऽप्यग्रे प्राप्तः पर्युत्सुको भवान् ।इत्यभाष्यत भूपालः चित्रे चतुरया तया ॥६-१०७॥अभूत्पर्याकुला सा च मुहूर्तं असितेक्षणा ।पश्चादलज्जतालीभिस्तथा सस्मितं ईक्षिता ॥६-१०८॥तस्यै हारं महीभर्तुरर्पयां आस पाटला ।आकृष्य भर्तुं आनीतं अतिशुद्धं इव आशयं॥ ६-१०९॥सखीनां अनुरोधेन सा किलानङ्गमोहिता ।हृदि दीर्घगुणं दध्रे हारं प्रियं इवापरं॥ ६-११०॥तुषारपाण्डुना तेन ववृधेऽस्या मनोभवः ।दिगन्तवान्तज्योत्स्नेन महोदधिरिवेन्दुना ॥६-१११॥पुष्पोद्गमेनेव लता प्रसादेनेव भारती ।सा तेन रेजे हारेण यशसेव नरेन्द्रता ॥६-११२॥ततः शिथिलपर्यस्त- विलोलकबरीलता ।केतुयष्टिरिव श्याम- पताकाङ्गा हिरण्मयी ॥६-११३॥वसंतकमलोल्लासि- मत्तभ्रमरनिःस्वना ।दीपमानोपदेशेव स्वरहस्ये मनोभुवः ॥६-११४॥उल्लसत्कुटजाच्छाच्छ- विलासहसितच्छविः ।झटित्युअदधिवेलेव निर्गच्छदमृतच्छटा ॥६-११५॥सरोजिनीव हंसीभिर्भृङ्गीभिरिव मालती ।शशिलेखेव ताराभिः सखीभिरभितो वृता ॥६-११६॥दृष्ट्वा नरन्द्रं आयान्तं उदस्थादुत्सुकाथ सा ।दधती नूतनप्रेम- परिणीतां अधीरतां॥ ६-११७॥अथ सुतनुरलोलतारके सा सुचिरं उदञ्चितदीर्घपक्ष्ममाले ।शशिन इव नवोद्गतस्य दूरात्- अवनिपतेः पथि लोचने मुमोच ॥६-११८॥आसन्नानुचरधृतेन पङ्कजिन्याः पत्रेण स्फुटघटितातपत्रलीलः ।सश्च्छायां अथ महसा हसन्हिमांशोः क्ष्मापालः पुलिनं अवाप नर्मदायास्॥ ६-११९॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभादर्शनो नाम षष्ठः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP