नवसाहसाङ्कचरितम् - अष्टादशः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
फणिराजदर्शनम्
तं विष्टपत्रितयकण्टकदृष्टसारं अभ्यागतं नृपतिं उद्गतगाढहर्षः ।
प्रत्युद्ययावधिपतिः फणिनां अनर्घ- रत्नार्घपाणिरशनैरथ शङ्खपालः ॥१८-१॥
_
पुरप्रवेशः
आदाय सादरफणीश्वरदत्तं अर्घ्यं अर्घ्यः सतां स बहिरेव निवेश्य सैन्यं ।
देवोऽविशद्विनयवान्पुरं अग्रयायि- विद्याधराधिपरमाङ्गदरत्नचूडः ॥१८-२॥
उत्सृज्य गीतं असमाप्य विलासलास्यं अङ्कादपास्य सहसा मणिवल्लकीं च ।
अत्युन्मनास्तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः ॥१८-३॥
उत्क्षिप्य वेपथुमता करपल्लवेन वातायनाग्रमणिमौक्तिकलाजकानि ।
स्मित्वैकया स विलसन्मकरावचूल- लीलालवाञ्चितविलोचनं आलुलोके ॥१८-४॥
उद्यद्विवृत्तकरवेणिकया नृपेन्दौ तस्मिन्स्मरोल्लसितजृम्भिकया कया चिथ् ।
मुक्ता मुहुर्विबुधसिन्धुकलिन्दकन्या- किर्मीरवारिलहरीसुहृदः कटाक्षाः ॥१८-५॥
वाचालरत्नवलया सविलासं अस्मिन्निक्षिप्य कापि नवमौक्तिकलाजमुष्टिं ।
तत्ताडितांसतटपार्थिवदत्तदृष्टिर्दीर्घेक्षणा किं इव न त्रपया चकार ॥१८-६॥
वक्षो दधानं अमराद्रिशिलाविशालं आजानुबाहुं अवलोक्य नरेन्द्रचन्द्रं ।
चित्तोपनीतपरिरम्भसुखातिसान्द्रं अन्या पयोधरभरे पुलकं बभार ॥१८-७॥
आलोक्य दर्पणतले प्रतिमागतं तं मयैषऽ इति कापि कृतोत्सवाभूथ् ।
मुग्धा गतेऽथ पुरतोऽत्र तदीयबिम्बे शून्यात्मदर्शविधुरेन्दुमुखी बभूव ॥१८-८॥
इत्यापतन्मदनबाणपरम्पराणां उन्मीलिताङ्गवलनश्लथमेखलानां ।
एणीदृशां विचरति स्म स राजहंसः पारोल्लसन्नवरसोर्मिषु मानसेषु ॥१८-९॥
_
नायकवर्णनम्
सङ्गीतवेश्मनि फणीश्वरचारणानां गीतेष्वजस्रं इह शुश्रुम यद्यशांसि ।
यातः स एव नयनातिथितां अयं नः पुण्यैरहो बत नृपो नवसाहसाङ्कः ॥१८-१०॥
कान्तिछटाछुरितदिक्तट एष देवो जीयाज्जगन्ति परमारकुलप्रदीपः ।
उन्मूल्य संप्रति सुरारितमः समूलं येनाहिविष्टपतले विहितः प्रकाशः ॥१८-११॥
हन्तैष पन्नगपतेरतुलप्रतिज्ञा- प्राग्भारसागरसमुत्तरणैकपोतः ।
उत्पाकं एष च फलं फणिराजकन्या- चित्ते चिरं कृतपदस्य मनोरथस्य ॥१८-१२॥
एतद्यशोभटकरे कनकाम्बुजं तल्लीलावतंसं अचिराद्विरचय्य येन ।
प्रत्युप्तकल्पतरुपल्लवं एष पाणिं आदास्यते नृपतिरद्य शशिप्रभायाः ॥१८-१३॥
_
हाटकेश्वरदर्शनम्
सान्द्रानुरागपिशुनाः परशुः परेषां आकर्णयन्निति सः पौरजनस्य वाचः ।
श्रीहाटकेश्वर इति प्रथितस्य तुङ्गं अग्रे ददर्श मणिमन्दिरं इन्दुमौलेः ॥१८-१४॥
तत्र प्रविश्य सकृतानतिरादिदेवं आनर्च कल्पविटपिप्रभवैः प्रसूनैः ।
स्तोतुं कृताञ्जलिपुटः कुटजावदात- दन्तांशुपल्लवितवागुपचक्रमे च ॥१८-१५॥
_
हाटकेश्वरस्तुतिः
अन्तर्जतापिहितस्ॐअसुरापगाय प्रच्छन्नशरशासनलोचनाय ।
तीव्रव्रतग्लपितशैलसुतास्वरूप- विज्ञाननर्मपटवे बटवे नमस्ते ॥१८-१६॥
अत्यादरानतसुरासुरमौलिरत्न- नानामरीचिखचिताङ्घ्रिसरोरुहाय ।
देहार्धवर्तिगिरिजाविहिताभ्यसूय- सन्ध्याप्रणामविषमाञ्जलये नमस्ते ॥१८-१७॥
नीरन्ध्रसिन्धुजलसिक्तकपालमुक्त- रत्नाङ्कुरस्य करणीं विधुरातनोति ।
मौलौ सदैव भवतो भवभेदकर्तुर्निर्दग्धभास्करमहाय नमोऽस्तु तस्मै ॥१८-१८॥
कन्दर्पदर्पशमनाय कृतान्तहर्त्रे कर्त्रे शुभस्य भुजगाधिपवेष्टनाय ।
उर्वीमरुद्रविनिशाकरवह्नितोय- याज्याम्बरोच्चवपुषे सुपुषे नमस्ते ॥१८-१९॥
नीरन्ध्रभूतिधवलाय गजेन्द्रकृत्ति- संवीतदेहकवलीकृतपन्नगाय ।
निर्दग्धदानवकुलाय विपत्क्षयैक- कार्याय कारणनुताय नमोऽस्तु तुभ्यं॥ १८-२०॥
ते ते यं एव किल वाङ्मयसागरस्य पारं गताः प्रणवं आत्मविदो वदन्ति ।
तस्मै समाहितमहर्षिविनिद्रहृद्य- हृत्पुण्डरीकविहितस्थितये नमस्ते ॥१८-२१॥
उत्तंसितेन्दुशकलाय कपालजूट- सङ्घट्टितोर्मिमुखराम्बरनिर्झराय ।
भस्माङ्गरागशुचये विकचोपवीत- व्यालेन्दुमौलिमणिदीधितये नमस्ते ॥१८-२२॥
नास्त्रं न भस्म न जटा न कपालदाम नेन्दुः सिद्धतटिनी न फणीन्द्रहारः ।
नोक्षा विषं न दयितापि न यत्र रूपं अव्यक्तं ईश किल तद्दधते नमस्ते ॥१८-२३॥
_
नागराजगमनम्
स्तुत्वेत्यवन्तिपतिरिन्दुकुलावतंसं तन्मन्दिरात्सहचरैः सह निर्जगाम ।
अन्तर्निवेशितहरिन्मणिवेदि वल्गन्- नागाङ्गनं सः फणिराजगृहं जगाम ॥१८-२४॥
तत्रावतीर्य रथतः स रमाङ्गदात्त- पाणिः समुच्छलितमङ्गलतूर्यघोषे ।
उन्निद्रसान्द्रकुसुमप्रकरावकीर्ण- माणिक्यकुट्टिमतले मसृणं विवेश ॥१८-२५॥
अन्योन्यपल्लविततद्विजयप्रशंसः प्राप्तस्थितिर्विकटकाञ्चनविष्टरेषु ।
पद्मछदायतदृशा ददृशेऽथ तस्मिन्नेकत्र तेन मिलितः फणिराजलोकः ॥१८-२६॥
_
तत्कृतः सत्कारः
तस्मिन्गते नयनगोचरं उद्धृतारौ बद्धाञ्जलिर्झटिति पन्नगराजसंसथ् ।
मन्दाकिनीव परितो हरिणावचूड- व्यालोककुड्मलितकाञ्चनपङ्कजाभूथ् ॥१८-२७॥
न्यञ्चच्छिखाभरणभासुरपद्मराग- रोचिछटाघटिततत्फणरत्नकान्तिः ।
राजन्यमौलिमणिचुम्बितपादपीठस्तस्मै चकार स महाभिजनः प्रणामं॥ १८-२८॥
प्रत्युप्तरत्नं अभितः प्रमदावकीर्णं मुक्त्वा चतुष्कं उरगेन्द्रनिदेशितं स ।
अध्यास्त सादरजरत्फणिकल्पिताशीस्तन्मध्यवर्तिकनकासनं उन्नतांसः ॥१८-२९॥
वत्सां व्रजनाय ममेति शनैर्विसृज्य नेपथ्यनीलमणिवेश्मनि रत्नचूडं ।
तत्रासनद्वयं अदापयदस्य पार्श्वे विद्याधराधिपयशोभटयोः फणीन्द्रः ॥१८-३०॥
स्वर्णासने स्वयं अथाच्छफणातपत्र- रत्नप्रदीपशतजर्जरितान्धकारः ।
लोकत्रयैकतिलकस्य स नातिदूरे देवस्य दारितमहेन्द्ररिपोर्न्यषीदथ् ॥१८-३१॥
स्थित्वैकतो युवतिमङ्गलगीतिं अत्र शृण्वन्स विन्ध्यतटदृष्टचरः कुरङ्गः ।
चित्रे निवेशित इवाथ यशोभटेन स्मित्वा सविस्मयं असूच्यत पार्थिवाय ॥१८-३२॥
_
शशिप्रभादर्शनम्
अत्रान्तरे प्रमदलोलदृशा नृपेण दूराददर्शि फणिराजसुताभियान्ती ।
तन्वी शिरीशसुमनःसुकुमारमूर्तिर्देवस्य कार्मुकलतेव मनोभवस्य ॥१८-३३॥
ज्योत्स्नासिताम्बररुचिस्नपिताननेन्दुर्मात्राचिरोद्गतयवाङ्कुरकर्णपूरं ।
मुक्त्वोज्ज्वलं ललितकौतुककङ्कणं च वेषं विवाहसमयोचितं उद्वहन्ती ॥१८-३४॥
सख्या कयापि लिखितं मदनानलैक- धूमावलीवलयसंशयं अर्पयन्तं ।
एकान्तकान्तं असितागरुपत्रभङ्गं आबिभ्रती लवलिपाण्डुतले कपोले ॥१८-३५॥
आत्तप्रसाधनं अनङ्गविलासवेश्म लीलाविधानं अवधिर्नयनोत्सवस्य ।
लावण्यसंवलितं अङ्गकं उद्वहन्ती शृङ्गारदुग्धजलधेरधिदेवतेव ॥१८-३६॥
सा पाटलाविधुतचामरमारुतेषत्- व्यानर्तितालकलता सहिता सखीभिः ।
नातिस्फुटक्वणितनूपुरं आकुलानि किंचिद्विलम्ब्य दधती त्रपया पदानि ॥१८-३७॥
_
नायिकया नायकदर्शनम्
उत्पक्ष्मणा निरुपमोल्लसितप्रमोद- विस्तारलङ्घितविलाससरोरुहेण ।
सान्द्रस्मरज्वरपिपासितया तयापि दूरादपायि नयनाञ्जलिना नरेन्द्रः ॥१८-३८॥
_
माल्यवतीवाक्यम्
व्रीडावनम्रमुखपद्मं उपागतायां तस्यां पितुः कनकविष्टरभागभाजि ।
माल्यादिकल्पितयथोचितसत्क्रियान्ते तं मालवेन्द्रं इति माल्यवती जगाद ॥१८-३९॥
राजन्! महीतलमृगाङ्ग! विलम्बसे किम्? अद्यापि तूर्णं अमुना स्वभुजार्जितेन ।
हेमाम्बुजेन विरचय्य वतंसं अस्याः पूर्णप्रतिज्ञं उरगाधिपतिं विधेहि ॥१८-४०॥
_
कमलावतंसः
उक्ते तयेत्यकृत काञ्चनपुष्करं तद्यावत्सः कर्णशिखरे फणिराजपुत्र्याः ।
तावद्विहाय मृगरूपं उदारमूर्तिरग्रे बभूव पुरुषोऽस्य सहेमवेत्रः ॥१८-४१॥
_
पुरुषं प्रति प्रश्नः
कस्त्वं मृगः कथं अभूरिति पार्थिवेन पृष्टः स विस्मयसमुत्सुकमानसेन ।
इत्यब्रवीदुरगनेत्रपरम्पराभिरापीयमानवपुरुक्तिं अवन्तिनाथं॥ १८-४२॥
_
प्रतीहारस्य वृत्तान्तः
कैलासशैलवसतेर्गिरिशोपरोधाद्द्वारप्रवेशविनिषेधकषायितेन ।
शप्तोऽस्मि कण्वमुनिनायं अहं पितुस्ते श्रीहर्षदेवनृपतेः प्रतिहारपालस्॥ १८-४३॥
राजा फणीन्द्रदुहितुः कनकारविन्दं कर्णे करिष्यति यदा नवसाहसाङ्कः ।
स्वं रूपं आप्स्यसि तदेति समादिदेश शापान्तं एष विहितानुनयो महर्षिः ॥१८-४४॥
तद्वासवारिविजयोत्थं इदं यशस्ते गत्वैकपिङ्गलगिरेरवतंसयामि ।
उक्त्वेति दिव्यकुसुमैरवकीर्य मौलौ पातालमल्लं अनिलस्य पथा जगाम ॥१८-४५॥
_
विवाहविधिः
तूर्यस्वनेषु विलसत्सु पठत्स्वमन्दं बन्दिष्वनीयत फणीन्द्रपुरोधसा च ।
कोणावसक्तजलपूरितरत्नकुम्भां वेदिं तया सह स मध्यमलोकपालः ॥१८-४६॥
अभ्युद्गतार्चिरनलोज्झितधूमराजि- श्यामीभवत्कनकतामरसावतंसां ।
तस्यां यथाविधि स मालवपुष्पकेतुः कन्यां अहेः कुवलयाश्व इव उपयेमे ॥१८-४७॥
आनीतया झटिति रूपं अदृष्टपूर्वं अङ्गेन पुष्पशरभङ्गितरङ्गितेन ।
भाति स्म शन्तनुरिव त्रिदिवस्रवन्त्या पातालचन्द्रकलया सस्तया समेत्य ॥१८-४८॥
_
फणिपतिवाक्यम्
निर्गच्छदच्छरुचिनिर्भरं अंशुकेन संछादितं किं अपि पाणितले दधानः ।
ऊचे तं इत्यधिपतिः फणिनां उदञ्चत्- दन्तांशुशारितरदछदरत्नकान्तिः ॥१८-४९॥
यद्दीयते तव न तादृशं अस्ति किंचिद्गेहे ममात्र नृपते नवसाहसाङ्क ! ।
कोशप्रतिष्ठितनिधानशतं यतस्त्वां ऐश्वर्यनिर्जितपुरन्दरं आमनन्ति ॥१८-५०॥
तत्स्फाटिकं स्वं इव शुद्धं इदं गृहाण त्वष्टृप्रयत्नघटितं शिवलिङ्गं एकं ।
आकारं अर्धवनितावपुषः पुरारेर्यस्यान्तरे सुकृतिनो हि विलोकयन्ति ॥१८-५१॥
व्यासः पुरा किल पुराणमुनेः प्रपेदे तस्मात्किलादिकविपाणितलं जगाम ।
लेभे ततोऽपि भगवान्कपिलो महर्षिः सानुग्रहेण मम चेदं अदायि तेन ॥१८-५२॥
_
शिवलिङ्गार्पणम्
उक्त्वेत्यनर्घं अतिपावनं अर्पितं तदन्तःस्फुटैकशिवरूपं अहीश्वरेण ।
पूर्णेन्दुकान्ति सहसा निगृहीतशत्रुर्जग्राह पिण्डितं इव स्वयशो नरेन्द्रः ॥१८-५३॥
तत्राथ दिक्तटपरिस्खलितप्रवृत्त- सीमन्तिनीचटुलनूपुरकाञ्चिनादः ।
कोऽप्युच्छलत्पटहवंशहुड्डुक्कशङ्ख- वीणामृदङ्गमुरजध्वनिरुत्सवोऽभूथ् ॥१८-५४॥
_
स्वनगरीं प्रति प्रस्थापनम्
वृत्ते वधूं अथ विवाहमहोत्सवे तां आदाय निष्प्रतिमपौरुषवैजयन्तीं ।
अन्वागतादरनिवर्तितपन्नगेन्द्रः पर्युत्सुकः स्वनगरीं स नृपः प्रतस्थे ॥१८-५५॥
गत्वाथ दूरं अहिविष्टपतः सहेलं अंशः पुराणपुरुषस्य स निर्जगाम ।
शिप्रार्पितेन सहसा पुरतः प्रभाव- सीमन्तिताम्बुपटलेन पथा ससैन्यः ॥१८-५६॥
तस्याः स्वहस्तमुनिसंहतिकल्पितार्घः सिन्धोस्तटे सः पदं एकपदे चकार ।
शृङ्गे तदा च भगवानरविन्दबन्धुर्बन्धूकपाटलरुचिः कनकाचलस्य ॥१८-५७॥
_
उज्जयिनीप्रवेशः
बालातपछुरितहर्म्यविटङ्कवर्ति- पारावतातिमधुरध्वनितछलेन ।
सम्भाषणं विदधतीं इव पौरमुक्त- पुष्पाञ्जलिः सः पुरं उज्जयिनीं विवेश ॥१८-५८॥
कान्तायशोभटयुतं कृशतां अवाप्तास्तच्चिन्तयैव सचिवास्तं अथ प्रणेमुः ।
काकुत्स्थं आहतसुरारिं इवानुयान्तं स्ॐइत्रिणा जनकराजतनूजया च ॥१८-५९॥
_
महाकालेश्वरदर्शनम्
आनन्दबाष्पसलिलार्द्रदृशोऽर्धमार्गे सम्भाष्य तान्स्मितमुखः सह तैर्जगाम ।
विद्याधरोरगकराहतहेमघण्टा- टाङ्कारहारि भवनं त्रिपुरान्तकस्य ॥१८-६०॥
तस्मिंश्चराचरगुरोर्हरिणावचूल- चूडामणेरपचितिं विधिवद्विधाय ।
साकं फणीन्द्रसुतयाम्बररोधिकम्बु- तूर्यस्वनोर्मि सश्च राजकुलं विवेश ॥१८-६१॥
_
धारागमनम्
तत्रार्णवध्वनिघनोत्सवतूर्यघोषे स्थित्वा दिनानि कतिचित्स नरेन्द्रचन्द्रः ।
याति स्म भूषितकुलः कुलराजधानीं धारां अमात्यकथितामृगयेतिवृत्तः ॥१८-६२॥
उद्घाटितेष्वथ विलोकनकौतुकेन वातायनेषु परितः पुरसुन्दरीभिः ।
तस्मिंश्चिराद्विशति जीव इवेश्वरे सा प्रोन्मीलितोरुनयनेव पुरी बभूव ॥१८-६३॥
_
शिवलिङ्गप्रतिष्ठा
तत्साध्वकारयदथाधिगतप्रतिष्ठं तत्राच्छरत्नशिवलिङ्गं अनर्घशीलः ।
तस्य प्रभावघटितैर्व्यधुरर्हणां च विद्याधरा विकचकल्पतरुप्रसूनैः ॥१८-६४॥
_
अनुयायिप्रस्थानम्
कृत्वा यथोचितं अकृत्रिमं उत्सवान्ते सत्कारं आयतननिश्लथमौलिरत्नौ ।
दत्ताङ्कपाणिरुभयोः प्रजिघाय स अथ विद्याधराधिपफणीन्द्रसूतौ स्वदेशं॥ १८-६५॥
एकस्तयोरगमदम्बरगामिसैन्य- सीमन्तिताभ्रपटलः शशिकान्तशैलं ।
अन्योऽप्यगाधजलमालवजह्नुकन्या- विश्राणितोरुसरणिर्निजराजधानीं॥ १८-६६॥
_
शशिप्रभासखीगमनम्
माभूः कदापि विमुखी रमेण यदस्य छन्दानुवृत्तिरतिसंवननं मदस्य ।
उक्त्वेति तां अहिसुतां अगमन्गृहाणि गन्धर्वकिन्नरमहोरगसिद्धकन्याः ॥१८-६७॥
_
साम्राज्यलक्ष्मीस्वीकारः
नीलछत्रावतंसा भुजगपतिसुतापाण्डुगण्डस्थलान्तः- कस्तूरीपङ्कपत्रव्यतिकरशबलव्यायतांसे सलीलं ।
देवेनाथ स्वमन्त्रिप्रवरचिरधृता साहसाङ्केन दीर्घे रोहज्ज्याघातरेखे पुनोऽपि निदधे दोष्णि साम्राज्यलक्ष्मीः ॥१८-६८॥ ८-
_
अथ ग्रन्थप्रशस्तिः
श्रीमत्कविप्रियसुहृच्छलदङ्कराम- राजेन्दुभक्त्यधिगतप्रतिभाविशेषः ।
एतद्विनिद्रकुसुमदद्युति पद्मगुप्तः श्रीसिन्धुराजनृपतेश्चरितं बबन्ध ॥१॥
लक्ष्मीलतानववसन्त महीतलेन्द्र विद्याविलासमणिदर्पण सिन्धुराज ।
एतन्मया घटितं उज्ज्वलकान्ति काव्य- माणिक्यकुण्डलं इह श्रवणे विदेहि ॥२॥
न्यस्तानि यानि मयि सूक्तिसुधापृषन्ति देवेन तेन कति चित्कविबान्धवेन ।
चन्द्रातपस्नपितमौक्तिकसोदराणां तेषां इदं विलसितं नवसाहसाङ्क ॥३॥
यच्चापलं किं अपि मन्धधिया मयैवं आसूत्रितं नरपते नवसाहसाङ्क ।
आज्ञैव हेतुरिह ते शयनीकृतोग्र- राजन्यमौलिकुसुमा न कवित्वदर्पः ॥४॥
इति नवसाहसाङ्कचरितं संपूर्णम्
N/A
References : N/A
Last Updated : November 11, 2016
TOP