संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| सप्तमः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - सप्तमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत सप्तमः सर्गः Translation - भाषांतर शशिप्रभादर्शनम्ततः स दूरादहिराजकन्यकां जवैकमित्रेणा युतां पतत्रिणा ।विशाम्पतिदीर्घगुणानुषङ्गिणीं अनङ्गकोदण्डलतां इवैक्षत ॥७-१॥उपोढलावण्यतरङ्गभङ्गया सरागबिम्बौष्ठगलत्प्रवालया ।अहारि लोलं नृपतेस्तया बलातनङ्गरत्नाकरवेलया मनः ॥७-२॥_रमाङ्गदकृतं शशिप्रभावर्णनम्सविस्मयो लोचनमार्गं आप्तया तया सः पातालतलेन्दुलेखया ।अथेत्थं अम्लानमनोरथोद्गमो रमाङ्गदेनाभिदधे नराधिपः ॥७-३॥अवैमि सैवेयं अमोघं आयुधं मनोभुवः पन्नगराजकन्यका ।उदंशुलेखेन मुखेन कुर्वती जगद्विलीनेन्दुविलोकनस्पृहं॥ ७-४॥नरेन्द्र सत्यं सः कुतूहली भवेदलौकिकं रूपं अवेक्षितुं रतेः ।इयं न यस्यातिथितां गता दृशोरगाधलावण्यसरित्सुमध्यमा ॥७-५॥इयं सुधा मुग्धविलासजन्मभूरियं भुजङ्गालयरत्नदीपिका ।इयं जगन्नेत्रचकोरचन्द्रिका पुरः पताकेयं अयुग्मपत्रिणः ॥७-६॥इयत्तया मुक्तं अवैमि नैपुणं प्रजापतेरद्भुतशिल्पकर्मणि ।नृपोपमानां उपमानतां गतं विनिर्मितं येन हि रत्नं ईदृशं॥ ७-७॥इयं तवानेन विराजतेतरां करस्थितेनावनिपालपत्रिणा ।उपेयुषा काञ्चनपद्मं अंशुना हिमेतरांशोरिव जह्नुकन्यका ॥७-८॥अरालकेशीयं अनेन भाति ते शरेण कार्तस्वरपुङ्खशोभिना ।निसर्गगौरेण नरेन्द्ररश्मिना सकज्जला दीपशिखेव शार्वरी ॥७-९॥इयं विलासोर्मिनिमग्नशैशवं स्विभाव्यमानस्तनकुड्मलोद्गमं ।मदैकविस्रम्भगृहं विगाहते वयो विभक्ताङ्गं अनङ्गदोहदं॥ ७-१०॥इयं नताङ्गी जगदेकसुन्दरे निदेशिते पाटलया नृप त्वयि ।दृशौ नवेन्दीवरपत्रपेशले विमुञ्चति श्रीरिव शार्ङ्गधन्वनि ॥७-११॥अनङ्गसाम्राज्यविलासचामरे वनानिलव्याकुलितेऽंसुचुम्बिनि ।परिश्लथे संयमनार्थं एतया सलीलं अस्तः कबरीभरे करः ॥७-१२॥विलोकयन्ती कुसुमं कचाग्रतश्च्युतं कुचस्पर्शधियेव वक्षसि ।इयं कृशाङ्गी कुसुमास्त्रशङ्कया कृतप्रणामेव तवावलोक्यते ॥७-१३॥विलोकयास्याः क्षितिपाल बिभ्रतीं प्रदीपशोभां कबरीं निशामुखे ।अमी मुहुः कुङ्कुमकेसरारुणा लसन्ति सीमन्तमणेर्मरीचयः ॥७-१४॥विराजतेऽस्यास्तिलकोऽयं अञ्चितो विकुञ्चितभ्रूलतिकान्तरे नृप ।विजित्य लोकद्वितयं दिवं प्रति स्मरेण बाणो धनुषीव संहितः ॥७-१५॥अपाङ्गसंवर्धितशोणकान्तिना सुकृष्णतारेण तुषारपाण्डुना ।इयं प्रवालासितरत्नमौक्तिकैर्विनिर्मितेनेव चकास्ति चक्षुषा ॥७-१६॥इयं पुरो निर्यतिदूरं आयते कपोलतः काञ्चनकुण्डलार्चिषि ।इषुं रुषेव प्रतिभोक्तुं उद्यता मनोभुवे मुक्तशिलीमुखे हृदि ॥७-१७॥इयं त्रियामापतिकान्तिपेशलं विबुद्धबन्धूकदलाधिकत्विषा ।बिभर्ति बिम्बाधरमुद्रया मुखं मनोभिरामं रजनीव सन्ध्यया ॥७-१८॥उपोढतारापतितारहारयोरियं युगेन स्तनयोर्विराजते ।द्वयेन देव उषसि चक्रवाकयोः सरिद्गृहीतैकमृणालयोरिव ॥७-१९॥सुरापगावीचिविपाण्डुरेष ते चिरेण हारश्चरितार्थतां गतः ।धृतः क्षितीश प्रणयार्द्रयानया सलीलं उत्कम्पिनि यत्कुचद्वये ॥७-२०॥इयं महीपाल विलोकितेन ते विगाहते कान्तं इदं दशान्तरं ।भवत्यनारूढविकासविभ्रमा किं उद्गमे चन्द्रमसः कुमुद्वती ॥७-२१॥किं अन्यदुक्तं सुधयेव सान्द्रया तदन्यथा नाथ न पाटलवचः ।स्फुटेयं अस्याः कुरुते यदङ्गके बलात्परिष्वङ्गं अनङ्गविक्रिया ॥७-२२॥_शशिप्रभासमीपगमनम्इतीङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितं उद्गतस्मितः ।अवाप पर्याप्तशशाङ्कदर्शनः फनीन्द्रकन्यासविधं नराधिपः ॥७-२३॥_नायिकाचेष्टाःउवाह लज्जानतं अञ्चितालकं ततो भुजङ्गाधिपतेः सुतामुखं ।अवाञ्चितं किं चन मातरिश्वना सषट्पदं पद्मं इवारविन्दिनी ॥७-२४॥पतत्यधः कुङ्कुमपङ्कपाटले मयूखलेखापटले शिखामणेः ।ह्रियेव रक्तांशुकपल्लवस्तया पिधातुं आलेख्यनृपे न्यधीयत ॥७-२५॥नृपस्य चित्रे मधुरेयं आकृतिर्न भिद्यते चन्द्रमसो यथाम्भसि ।सखीजनस्तां इति नर्मपेशलः शनैस्त्रपानम्रमुखीं अभाषत ॥७-२६॥यथास्मि वक्तासि तथास्य भूपतेर्यदा पुनः कर्णसमीपं आप्स्यसि ।इतीव निर्व्याजं उदीर्य तत्यजे तयायताक्ष्या स नरेन्द्रसायकः ॥७-२७॥अलं ह्रियैवं समुपेक्ष्य गृह्यतां अयं हि पाणिग्रहणोचितस्तव ।इतीरयन्त्याः कुटिलं वचः करादनङ्गवत्याः कमलं जहार सा ॥७-२८॥अथ स्वबिम्बाधरपाटलच्छदं करेण तत्तत्सदृशेन बिभ्रती ।निषेवितुं भूपतिं अभ्युपागता रमेव राजीवमुखी रराज सा ॥७-२९॥दृशस्ततस्तत्परिवारयोषितां नेत्राञ्जनश्यामलपक्ष्मराजयः ।शशिप्रभे भूमिपतौ सकौतुकाः समापतन्कुन्द इवालिपङ्क्तयः ॥७-३०॥_नृपार्हणम्निपीयमानस्य तया शनैःशनैरपाङ्गसञ्चारितदीर्घनेत्रया ।उपात्तपुष्पः क्षितिभर्तुरर्हणां चकार तस्याश्चतुरः सखीजनः ॥७-३१॥पुरः शिरस्याहितमन्मथाज्ञया तया कटाक्षैः कुटजैरिवार्चितः ।नृपः सपर्यां पुनरुक्तसंविदां सस्तद्वयस्यानिहितावमन्यत ॥७-३२॥सरागवत्युत्कलिकाभिराकुले मृदुन्यलं पाटलया समर्पिते ।अथ न्यषीदन्नवपल्लवासने फनीन्द्रकन्यामनसीव पार्थिवः ॥७-३३॥अनु क्षितीशं नलिनीदलासने कया चिदास्ते परिवारयोषिता ।रमाङ्गदोऽप्यासनबन्धं आददे वसुन्धरायां विनयैकबन्धुः ॥७-३४॥श्रमानुरोधादुपविश्यतां इतः क्षणं कृशाङ्गीति सखीभिरर्थिता ।उपाविशद्वेपितवामनस्तनी ततः समं ताभिरहीन्द्रकन्यका ॥७-३५॥_नायिकाविलसितानिविवर्तयन्ती वदनेन्दुमण्डलं विशालनेत्रान्तनिषक्ततारकं ।द्वयेन सा कृष्यत सुन्दरी समं ह्रिया नृपालोकनकौतुकेन च ॥७-३६॥अथावतंसीकृतलोचनोत्पलं कपोलदोलायितरत्नकुण्डलं ।चिरं पपौ सः स्तिमितेन चक्षुषा तदाननं मालवमीनकेतनः ॥७-३७॥कृती दृशास्याः सुदृशः पिबत्ययं कपोललावण्यसुधां नराधिपः ।मिथः सखीनां इति सस्मितं वचो निशम्य साभूदधिकाधिकत्रपा ॥७-३८॥मनागिवांसादपवर्तितानना निरीक्ष्य तं भूपतिं अर्पितेक्षणं ।विहस्य लज्जामुकुले चकर्ष सा बलादपाङ्गप्रसृते विलोचने ॥७-३९॥यशोभटे रूपं अवन्तिशसितुः कृतस्मिते चित्रगतं प्रशंसति ।करस्थितं सा झटिति न्यधात्ततः शिलातले तामरसं त्रपावती ॥७-४०॥निकामं उक्तं सुकुमारं अङ्गना विलासिनस्तस्य जहार सा मनः ।स्मरैकदूतीसहकारशाखिनो लसन्मधावन्यभृतेव पल्लवं॥ ७-४१॥तदीयं उद्दामरसोर्मिनिर्भरं स राजहंसोऽपि विवेश मानसं ।कृतप्रवेशश्च सलीलं अच्छिनन्मनाङ्मृणालीं इव धीरतां अतः ॥७-४२॥क्षणादपाङ्गस्तिमितायताक्षयोः सकम्पयोः कण्टकिताङ्गलेखयोः ।अवापदन्योन्यनिबद्धभावयोस्तयोः प्ररोहं हृदि बालमन्मथः ॥७-४३॥_नायकस्य नायिकां प्रत्युक्तिःअसूययेवाथ विमुञ्चती दृशं सखीषु सा सूत्रितनर्मसूक्तिषु ।इति स्मितक्षालितदन्तवाससा नृपेण नागेन्द्रसुताभ्यधीयत ॥७-४४॥वदानवद्याङ्गि सखीजनादृतः किं एष नाम व्यतिरिच्यते जनः ।विहाय विस्रम्भविशेषं एतया यदङ्गं अन्तो विशतीव लज्जया ॥७-४५॥सदा सदाचारपरेति वार्तया वयं हृताः पन्नगराजपुत्रि ते ।अतः किं एवं प्रतिपत्तिमूढतां विगाहसेऽस्मासु विमुच्यतां इयं॥ ७-४६॥अनेन ते सुन्दरि दर्शनेन वा कृतोपचारोऽस्मि कियत्कदर्थ्यसे ।न वीक्षते वल्गु न मञ्जु भाषते गता क्वचिल्लोचनवर्त्ममालती ॥७-४७॥अधःकृताः सत्यं अधीरलोचने रसातलेन त्रिदिवस्य भूमयः ।अनङ्गदुर्वारशराधिदैवतं भवद्विधं रत्नं अवाप्यतेऽत्र यथ् ॥७-४८॥कुतूहलाध्यासितमध्यलोकया त्वया मुहूर्तं फणिलोकक्ॐउदि ।अवैमि पातालं अवाप्तसन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति ॥७-४९॥इदं मृणालदपि क्ॐअलं वपुस्तवैष दूरादरविन्दिनीपतिः ।पुनः पुनः संस्पृशतीव कौतुकात्तमालगुल्मान्तरपातिभिः करैः ॥७-५०॥अनेन ते सश्रमवारिबिन्दुना नवीनपीयूषतुषारदन्तुरः ।शिरीषमृद्वङ्गि तुषारपाण्डुना कपोलबिम्बेन विडम्ब्यते शाशी ॥७-५१॥इदं वदाशिक्षत कैतवं कुतस्तवैष मुग्धे सरलाङ्गुलिः करः ।इहैतदालिख्य शिलातले शनैरनेन लीलाकमलं यदुज्झितं॥ ७-५२॥न चित्रं एवं क्व चिदस्ति भूतले ममात्र तेनास्ति कुतूहलं महथ् ।अतः किं एतत्पिहितं प्रकाश्यतां अहेतुकस्तन्वि क एष मत्सरः ॥७-५३॥अदृश्यं एतद्यदि मन्यसे ततः किं अर्थ्यसे किं त्वियदेव शंसो नः ।कृती त्वयायं भुजगाम्बरौकसां अलेखि चित्रे कतमः कृशोदरि ॥७-५४॥लतेव सम्मीलितषट्पदस्वना कियच्चिरं निर्वचनैव तिष्ठसि ।इतश्चकोराक्षि विचिन्त्य सूनृतं ममोत्तरं किं चन दातुं अर्हसि ॥७-५५॥यथातिजिह्रेषि यथातिवेपसे यथा कपोले पुलकं बिभर्षि च ।तथात्र मन्ये तव पक्षपातवन्नितान्तं अन्तःकरणं कृशोदरि ॥७-५६॥ह्रिये तवेयं यदि कल्पते कथा किं एतया नः प्रकृते यतामहे ।यदर्थं एते वयं आगताः स्वयं स नार्प्यते किं करभोरु सायकः ॥७-५७॥सलीलं एवं वदति स्मितानने नृपे नवप्रेमसार्द्रचेतसि ।विवर्तयन्ती मणिकङ्कणं करे मुमोच मौनं न फणीन्द्रकन्यका ॥७-५८॥_माल्यवतीवचनम्तया तथा दृष्टं अथान्तरान्तरा कटाक्षकान्तिः स्नपितावतंसया ।इति स्मिताप्यायितदन्तदीधितिर्जगाद तं माल्यवाती विशाम्पतिं॥ ७-५९॥तवैतया सत्कृतिपात्र सत्कृतं स्वयं न यत्कल्पितं अल्पमध्यया ।न स अवलेपो न च सा प्रमादिता न च त्रपा तत्र नृपोऽपराद्ध्यति ॥७-६०॥कृतीति वार्ता तव वेत्सि वाञ्छितं त्वं अन्तरात्मेव न कस्य वा भुवि ।अतः सखीभावगतस्य गोपनं न युज्यते नस्त्वयि तन्निशाम्यतां॥ ७-६१॥शिलीमुखेऽस्मिंस्तव नामलाञ्छिते मृगोपनीते मृगशावलोचना ।प्रमोदं आप्तेयं इतो विलोकिते करे चकोरीव तुषारदीधितेः ॥७-६२॥क एष राजेति मुहुः कुतूहलादियं यदा पृष्टवती सखीजनं ।अतस्तदास्यै कथितः सविस्तरं मया त्वं उर्वीतलमीनलाञ्छानः ॥७-६३॥करेण सासूयं अपास्य कर्णतः क्वणद्द्विरेफावलि नीलं उत्पलं ।तदैतयाभ्युद्गतपक्षपातया श्रुता गुणाढ्यस्य बृहत्कथा तव ॥७-६४॥इमां त्वदाकारनिरूपिणे सखीं अवेत्य पर्युत्सुकलोचनां इव ।ततो मया विश्वविलोचनोत्सवस्त्वं एव चित्रे लिखितोऽसि पार्थिव ! ॥७-६५॥उदञ्चितव्यायतपक्ष्मणा ततः सखीसमक्षं निभृतेन चक्षुषा ।चिरं निपीतसतृषेव मुग्धया त्वयैतया मध्यमलोकवाससः ॥७-६६॥अतो वरोऽयं युवयोः समागमः कुमुद्वतीचन्द्रमसोरिवोचितः ।इयं हि बालोच्छ्वसितो मनोभुवस्त्वं अत्र लोकत्रितयैकसुन्दरः ॥७-६७॥नृप गृहीतुं नयं अत्र कोऽप्यलं सुरेषु वा पन्नगपुङ्गवेषु वा ।स एष पङ्केरुहकर्णिकामृदुस्त्वया शयोऽस्याः क्रियते सकौतुकः ॥७-६८॥अयाचितोऽप्यर्पित एव ते शरः क्षितेरयं न्यायविदां वरैतया ।तदेनं अभ्यर्थयसे कथं पुनः कलत्रं एषा हि वसुन्धरा तव ॥७-६९॥इतीतिवृत्तं तदुपाश्रयं तथा प्रकाशयन्ती पृथिवीपतिं प्रति ।छलादलीकभृकुटिं विधाय सा तयालुलोके फणिराजकन्यया ॥७-७०॥अथ द्विरेफस्य मुखाब्जपातिनो निवारणयोरगराजकन्यका ।शिलातलात्संभ्रममीलितस्मृतिस्तदाशु लीलाशतपत्रं आददे ॥७-७१॥ततः स र्ॐअञ्चनिपीडिताङ्गदो रमाङ्गदं व्यक्तशशिप्रभेङ्गितः ।अपश्यदिन्दीवरदामदीर्घया प्रमोदविस्तरितया दृशा नृपः ॥७-७२॥_रमाङ्गदवचनम्समर्पिता पार्थिव पुष्पकेतुना तवेयं आर्द्रप्रणया मनस्विनी ।असीमसौन्दर्यसुधाविलासभूरुदन्वतेवेन्दुकला पिनाकिनः ॥७-७३॥किं अन्यदत्रोल्लसितं जगत्त्रये तवैव सौभाग्यपताकया नृप ।यदागता मन्मथपत्रिणां इयं शरव्यतां एवं अपि श्रुते त्वयि ॥७-७४॥वधूर्दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेः ।रघूद्वहस्यावनिकन्यका यथा तथा तवेयं विधिना उपपादिता ॥७-७५॥किं अन्यदस्याः कृतपाणिपीडनः पदं निधत्से गृहमेधिनां धुरि ।इति प्रसर्पत्स्मितचन्द्रिकः शनैरभाषतोर्वीतिलकं रमाङ्गदः ॥७-७६॥विलोकितं चित्रं अलीकभाषिणी भवत्सखीयं प्रतिभासते मम ।उदीरितैवं किल पार्थिवेन सा भृशं ललज्जे निभृतं जहास च ॥७-७७॥विलोकयन्ती तं अपाङ्गलोचना समुल्लसत्स्वेदलवाङ्कितस्तनी ।ततः सुजातस्तबकास्तमौक्तिका लतेव सा हेममयी व्यकम्पत ॥७-७८॥मुखे तवासक्तं इदं शशिप्रभे दृशावतंसागतयैतदीयया ।सखीजनः सस्मितं इत्युवाच तां अवन्तिनाथं च मिथो रमाङ्गदः ॥७-७९॥अत्रान्तरे झटिति चित्तं इवाच्छं अम्भः क्षोभं जगाम सरितस्तुहिनांशुसूतेः ।वाति स्म च प्रसभभग्नतमालताल- हिन्तालसालसरलः सहसा समीरः ॥७-८०॥_पयोदोदयःउदनमदथ तत्क्षणादुदञ्चत्- कनकपिशङ्गतडिल्लतः पयोदः ।अधरितमुरजध्वनीनि मुञ्चन्विधुरितकर्णतलानि गर्जितानि ॥७-८१॥अथ समुदितत्रासा मेघस्वनान्ननु भूपतेर्भुजपरिघयोरन्तो बाला प्रवेष्टुं इयेष सा ।किं असि चकिता मा त्वं भैषीरितो भव लज्जया कृतं इति च तां ऊचे देवः स साहसलाञ्चनः ॥७-८२॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभासंल्लापो नाम सप्तमः सर्गः समाप्तः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP