नवसाहसाङ्कचरितम्‌ - सप्तदशः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


युद्धवर्णनं

अथाहिविद्याधरराजसैन्यैर्निपीडितायां पुरि रत्नवत्यां  ।
भटाः सकोपं भुजदर्पभाजो निर्जग्मुराकृष्टकृपाणपट्टाः ॥१७-१॥

अन्योन्यसङ्घट्टवशेन तेषां उदञ्चिताः काञ्चनकङ्कटेभ्यः ।
युगान्तकालानलबीजशङ्कां न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः ॥१७-२॥

भालेषु भीमा भृकुटीर्वहन्तो भृङ्गत्विषश्चासिलताः करेषु ।
खुराग्ररुग्णावनिभिः सरोषं निरीयुरन्ये चतुरैस्तुरङ्गैः ॥१७-३॥

न्यभादनीकं करिणां च सान्द्र- सिन्दूरपूरारुणगण्डभित्ति ।
प्रत्यग्रदावानललीढकोटि- कुलाचलेन्द्रप्रचयोपमेयं॥ १७-४॥

पुरो रणोत्सेकभृतां निरुद्धं ओघेन विद्याधरवाहिनीनां  ।
तत्पुञ्जितं सैन्यं अमर्त्यशत्रोर्बभूव मूले मणितोरणस्य ॥१७-५॥

साटोपं आरोपितचापयाष्टिर्निबद्धतूणीरयुगो गजस्थः ।
सो निर्जगामाथ महासुरेन्द्रो वेगादहंकार इवात्तदेहः ॥१७-६॥

युगात्ययाम्भोधरनादधीरस्तस्योद्गतः सङ्गरतूर्यघोषः ।
बद्धप्रतिश्रुन्ति नितान्तभीमश्चकार पातालबिलोदराणि ॥१७-७॥

सत्पुष्करानञ्जनपुञ्जभासस्पथो जयस्याथ गजानसींश्च ।
व्यापारयन्ति स्म रयेण वीरास्तत्प्रेरिता वैरिवरूथिनीषु ॥१७-८॥

परस्परापातिकृपाणनिर्यत्- ज्वालावलीपल्लवितान्तरिक्षः ।
अभूत्प्रवृत्तः समरो महाहि- विद्याधरेन्द्रासुरपुङ्गवानां॥ १७-९॥

वीरेषु धावत्सु चरत्स्वमन्दं गजेषु वल्गत्सु तुरङ्गमेषु ।
अकालकल्पात्यययशाङ्कितानि चकम्पिरे सप्त रसातलान्॥ १७-१०॥

प्रकाशयन्तः करणप्रपन्न्चं सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः ।
अत्यद्भुतं नृत्तं इवारभन्त भटा रणप्राङ्गणरङ्गमध्ये ॥१७-११॥

उत्प्लुत्य वेगात्पवमानमार्गं विद्याधरैर्दानजलाविलानि ।
पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्णासिपत्रक्रकचैः शिरांसि ॥१७-१२॥

निपत्य कुम्भेषु महागजानां नीरन्ध्रमुक्तेषु पटु क्वणन्तः ।
भान्ति स्म विद्याधरपुङ्गवानां मुक्ताट्टहासा इव खड्गपट्टाः ॥१७-१३॥

आवर्ततां ऊर्मिलतायमान- निस्त्रिंशवल्लीवलयाकुलासु ।
प्रपेदिरे पूर्वसुरोज्झितानि चक्राणि विद्याधरवाहिनीषु ॥१७-१४॥

फणावलीष्वापतितोरगाणां अफल्गुरत्नोपलकर्कशासु ।
कृपाणधरा मसृणीबभूव महासुराणां न तु सङ्गरेच्छा ॥१७-१५॥

अमान्ति पातालतले प्रसस्रुः क्षितौ बिलद्वारविनिर्गतानि ।
ज्याशब्दहृष्टासुरसिंहनाद- तुरङ्गहेषागजबृंहितानि ॥१७-१६॥

प्रधावदश्वीयखुराहतानां अभ्युद्गतो रत्नभुवां परागः ।
गीर्वाणचापच्छविलाञ्छितानि कृत्स्नानि चक्रे ककुभां मुखानि ॥१७-१७॥

भटास्त्रपूर्णैः परितो गजानां स्वदानपङ्कोपचितैः पदाङ्कैः ।
भयङ्कराभूत्तरुणार्कबिम्ब- सहस्रकीर्णेव रणाङ्गणोर्वी ॥१७-१८॥

लूनाः समूलं सुभटासिपत्रैः सहस्रशः शोणितशीकरार्द्राः ।
उत्तालवैवस्वततालवृन्त- विच्छित्तिमूहुः करिकर्णतालाः ॥१७-१९॥

अन्योन्यकृत्तास्तरसा भटानां नवातपाताम्रनखत्विषोऽग्रे ।
भुजा निपेतुः समं ईक्षणेन समौलिरत्ना इव पन्नगेन्द्राः ॥१७-२०॥

अङ्गादसिप्रासपृषत्कभिन्नात्- असृक्प्रवाहेषु भृशं वहत्सु ।
लीलागलद्गैरिकनिर्झराणां गजैर्जगाहे कुलपर्वतानां॥ १७-२१॥

क्ष्मायां बभुःखड्गपृथक्कृतानि सहस्रशः शस्त्रभृतां शिरांसि ।
कालेन सङ्ग्रामसरोन्तरालादुत्खण्डितानीव सरोरुहाणि ॥१७-२२॥

कबन्धकण्ठोच्छलदस्रवन्तः समीपं एत्योपरि कङ्कयूथं  ।
मुहूर्तं इद्धारुणरत्नदण्डं अदृश्यत च्छत्रं इवान्तकस्य ॥१७-२३॥

मुक्तैः समूहेन नभश्चराणां कुम्भेषु चक्रैः करिणां पतद्भिः ।
अस्ताचलव्यायतवप्रपाति- पतङ्गबिम्बानुकृतिर्वितेने ॥१७-२४॥

पतद्भटं निर्दलिताश्ववारं निकृत्तमत्तेभकरं क्षणेन ।
व्यधायि विद्याधरसैनिकैस्तत्सनागवीरैरसुरेन्द्रसैन्यं॥ १७-२५॥

हंसैरिव स्मेरतटाःसमन्तात्परिच्युतैः कुञ्जरकर्णशङ्खैः ।
वोढुं प्रवृत्ता भवदुत्तरङ्गा झटित्यगाधा रुधिरस्रवन्ती ॥१७-२६॥
विद्याधरव्यालभटावलुप्त- धैर्येषु नश्यत्सु महासुरेषु ।
विश्वाङ्कुशो नाम सुरारिसूनुरथो रथेनाजिमहीं विवेश ॥१७-२७॥

आकर्णकृष्ताद्धनुषः पतद्भिर्बालेन्दुलेखाकृतिभिः पृषत्कैः ।
अरातिसैन्ये रणधीरवीरान्भीरूनिवैको विमुखीचकार ॥१७-२८॥

तद्वीर्यनिर्वासितसौष्ठवानां विद्याधराणां अपतन्करेभ्यः ।
धाराग्रलग्नद्विपकुम्भमुक्ताः सबाष्पलेशा इव खड्गलेखाः ॥१७-२९॥

क्षणाद्वलन्ति स्म तदा हतानि बलानि विद्याधरपन्नगानां  ।
सरित्पयांसीव निशकरांशु- पूरप्रवृद्धार्णवपीडितानि ॥१७-३०॥

न शेकतुस्तस्य गतिं निरोद्धुं विद्याधरेन्द्रोरगराजपुत्रौ ।
रत्नाकरस्येव महेन्द्रसह्या वसह्यवेगं प्रलयोत्थितस्य ॥१७-३१॥

दोर्दण्डकण्डूतिं अथास्य हर्तुं उद्भ्रूलतं भूपतिना नियुक्तः ।
जवाज्जगामाजिपथं रथेन रमाङ्गदःकुण्डलितोऽग्रचापः ॥१७-३२॥

तथोपलेभे समरोन्मुखस्य नादेन वृद्धिः शरजन्मनास्य ।
चक्रे पदं बाष्पकणोत्करेण यथा कपोलेष्वसुराङ्गनानां॥ १७-३३॥

दूरात्सुपर्वारिसुतं रथेन स रंहसा संमुखं आपतन्तं  ।
रुरोध तं बाणपरंपराभिर्यशोभटः कर्णं इवेन्द्रसूनुस्॥ १७-३४॥

विश्वाङ्कुशः सत्कवचे मुमोच वक्षःस्थले हैमं अथास्य बाणं  ।
तटेऽञ्जनश्यामतनौ महाद्रेः शातह्रदं ज्योतिरिवाम्बुवाहः ॥१७-३५॥

अलक्ष्यसंधानविमोक्षपातान्यशोभटस्यात्तरुषोऽपि रोपान्  ।
मूर्च्छालुठत्सारथिराहताश्वो रथः शशंसासुरनन्दनस्य ॥१७-३६॥

विलासकाञ्चीं अथ कालरात्रेरुद्यत्क्रुधः पद्धतिं अन्तकस्य ।
मौर्वीं पृषत्केण रमाङ्गदस्य चिच्छेद गीर्वाणरिपोस्तनूजः ॥१७-३७॥

सन्नाभिबिम्बेन महाजिलक्ष्म्या वीरश्रियो विभ्रमनूपुरेण ।
संरभ्य राहोरिव चक्रपाणिः स अप्यस्य चक्रेण शिरश्चकर्त ॥१७-३८॥

ननर्त विद्याधरसुन्दरीणां गणो नदन्नूपुरं अम्बरेऽथ ।
मौलौ शरक्षुण्णशिरस्त्ररत्ने चिक्षेप चास्यां अरपुष्पवृष्टिं॥ १७-३९॥

दृष्टे शिरस्युत्फलिते स्वसूनोर्दिङ्मुललीनासु पताकिनीषु ।
वज्राङ्कुशाः संमुखं आपपात पत्युर्विशां अस्तगिरेरिवार्कः ॥१७-४०॥

मदाम्बुवर्षी समरेऽभिधावन्रेजे गजस्तस्य सहेमकक्ष्यः ।
भिन्नेऽन्तराले पवमाननुन्नस्तमालनीलस्तडितेव मेघः ॥१७-४१॥

पत्युः प्रसादस्मितरज्जुकृष्टा भटा विवृत्यास्य पुरो बभूवुः ।
स्वजीवितान्याजिमुखे विहातुं अत्युत्सुका भङ्गमलीमसानि ॥१७-४२॥

आरुह्य चन्द्रः खं इवाभिरामं नक्षत्रमालाभरणं गजेन्द्रं  ।
देवोऽपि तद्वैरितमो नियन्तुं अथ प्रतस्थे नवसाहसाङ्कः ॥१७-४३॥

एकत्र पार्श्वे शशिखण्डनामा विद्याधरेन्द्रो नृपतेर्बभूव ।
अरातिसेनानलिनीवनैक- शीतांशुरन्यत्र यशोभटश्च ॥१७-४४॥

स्फुरत्फणछत्रमणिप्रतान- तेजश्छटाजर्जरितान्धकारः ।
अफल्गुर्वीर्यः फणभृत्कुमारोऽप्यग्रेऽभवत्तस्य स रत्नचूडः ॥१७-४५॥

विधूतनिस्त्रिंशतरङ्गितानि सबाणचक्रीकृतकार्मुकानि ।
हतावशेषाणि पुरोऽस्य चेलुर्बलानि विद्याधरपन्नगानां॥ १७-४६॥

रक्तासवक्षीबसहस्तताल- वेतालतालोच्छलिताट्टहासः ।
महाभटानां असुनिर्व्यपेक्षं अन्योन्यं आवर्तत संपरायः ॥१७-४७॥

चकाशिरे शस्त्रभृतां शिरःसु मिथः पतन्त्यः करवालवल्ल्यः ।
मुक्ताः सलीलां त्रिदशाङ्गनाभिर्माला इवेन्दीवरपत्रमय्यः ॥१७-४८॥

केषां चिदूहुः कवचानि शोभां क्व चित्क्व चिल्लोहितपाटलानि ।
खेलज्जयश्रीचरणारविन्द- लाक्षारसेनेव नवाङ्कितानि ॥१७-४९॥

हृदिप्रविष्टैरविशुद्धिमद्भिरभूद्व्यथा कापि शरैः परेषां  ।
दुरात्मनां साधुगुणैरिवाग्रे फलेन संयोगं उपेयिवद्भिः ॥१७-५०॥

परस्परापातजुषां असीनां धाराच्युतः संयतिचूर्णरेणुः ।
अवाप तापिच्छरुचिर्जयश्री- विलासकालाञ्जनधूलिलीलां॥ १७-५१॥

पर्यायजातोभयसैन्यभङ्ग- करालकोलाहलकातराणां  ।
सुरारिविद्याधरसुन्दरीणां दोलेव शोकप्रमादावभूतां॥ १७-५२॥

अथासुरेन्द्रद्विरदेन वेगादभ्युत्थितेनोद्गतदानधारं  ।
मध्येरणं मध्यमलोकभर्तुर्जवान्मदान्धो जघटे गजेन्द्रः ॥१७-५३॥

महेभयोस्तत्र शिखाछलेन प्रतिप्रहारं रदजः कृषानुः ।
कोशेषु विदुत्कपिशा मुहूर्तं व्यधादिवाष्टापदपत्रवल्लीः ॥१७-५४॥

मुहुः प्रजानां अधिपेन गाढं आकृष्यमाणस्य शरासनस्य ।
द्विषद्वधारम्भविधौ गभीरः क्रेङ्कारहुङ्कार इवोच्चचार ॥१७-५५॥

परिस्फुरत्कुण्डलघृष्टपुङ्खास्तेन प्रयुक्तास्पृथुविक्रमेण ।
प्रमृष्टकान्ताकुचपत्रलेखे लेखारिवक्षस्यपतन्पृषत्काः ॥१७-५६॥

अरातिमुक्तेषु ततस्तनुत्राद्वह्निस्फुलिङ्गेषु समुल्लसत्सु ।
मूर्तिर्बभासे वसुधाधिपस्य निर्यत्प्रतापाग्निकणछटेव ॥१७-५७॥

हिरण्मयी पार्थिवबाणपङ्क्तिरत्युन्नते मूर्ध्नि महासुरस्य ।
रेजे तरां अञ्जनपर्वतस्य लग्नेव तिग्मांशुमयूखमाला ॥१७-५८॥

अभ्युद्गता भर्तुररातिबाण- क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः ।
अदृश्यतोद्दामभुजास्पदस्य पराक्रमाग्नेरिव धूमलेखा ॥१७-५९॥

रमाङ्गदोऽप्युद्भ्रुकुटिः कृतास्त्रं वीरं द्विषः पार्श्वगतं निहत्य ।
शरैरलावीज्जयवैजयन्तीं ज्योत्स्नासितं कीर्तिं इवासुरस्य ॥१७-६०॥

अधःस्थितोड्डामरवैरिपत्ति- मुक्तेषु निर्लूनशरासनज्यः ।
चिक्षेप चक्राण्यतिदीर्घबाहुः सः कालरात्रेरिव कङ्कणानि ॥१७-६१॥

उत्प्लुत्य हेलाहतसंमुखारिर्विद्याधरेन्द्रोऽप्यसिना चकर्त ।
जगज्जयस्तम्भं इवोद्धुरस्य सुरद्विषः काञ्चनकेतुदण्डं॥ १७-६२॥

सो रत्नचूडोऽपि तथा भुशुण्ड्या पिपेष वैरिद्विषकुम्भपीठं  ।
सितातपत्रत्वं उदञ्चदाप यथास्य मुक्ताफलधूलिजालं॥ १७-६३॥

तुङ्गं दधत्कर्कशतां अभीकः श्रीसिन्धुराजद्विपकुम्भयुग्मं  ।
पयोधरद्वन्द्वं इवाजिलक्ष्म्याश्चक्रेऽर्धचन्द्राङ्कितं इन्द्रशत्रुः ॥१७-६४॥

परस्पराघट्टितदन्तकोटि- भ्रष्टाग्निवेशभ्रमं आदधन्ति ।
रणाजिरे लोहितरञ्जितानि विरेजिरे कुञ्जरमौक्तिकानि ॥१७-६५॥

चिक्षेप पृथीतिलके सुरारिर्यां यां इषुं कोपकषायिताक्षः ।
तां तां जयाशां इव बाहुशाली शरैः सस्तस्यार्धपथे लुलोव ॥१७-६६॥

तयोस्तथेष्वासप्रकर्ष- प्रत्युक्तकर्णार्जुनयोर्जयश्रीः ।
सुवेलरत्नाकरयोरुदग्रा चकार वेलेव गतागतानि ॥१७-६७॥

पत्युः प्रजानां असुरेश्वरोऽथ किरीटमाणिक्यचयं जहार ।
मणिप्रसूनस्तबकप्रतानं कल्पद्रुमस्येव युगान्तवातः ॥१७-६८॥

क्रोधादथार्धशशलाञ्छनसोदरेण बाणेन वासवरिपोर्नवसाहसाङ्कः ।
चिच्छेद राम इव विश्रवसः सुतस्य पीनांसलोलमणिकुण्डलं उत्तमाङ्गं॥ १७-६९॥

आसन्मुखानि ककुभां अभितोऽथ चित्र- वादित्रनादलहरीमुखरोदराणि ।
देवस्य च त्रिदिवपुष्पमयं पपात माल्यं शिरस्यसुरवैरिपुरन्ध्रिमुक्तं॥ १७-७०॥

लक्ष्मीपतेः पृथुभुजद्वयं आर्द्रसान्द्र- ज्याघातलाञ्छितं अलाञ्छितविक्रमस्य ।
अत्यादरागतजितोर्जितवैरिलक्ष्मी- पादाब्जयावकनिषक्तं इवाचकाशे ॥१७-७१॥

तस्याग्रतः कनककुण्डलताड्यमान- गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः ।
विद्याधरोरगकुरङ्गदृशः प्रमोद- सान्द्रोच्छलध्वनि जगुर्जयमङ्गलानि ॥१७-७२॥

स्मित्वा यशोभटकरार्पितचापयष्टिरुन्मुक्तरत्नकवचः खचरेश्वरेण ।
उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर्देवो ममार्ज मुखं अंशुकपल्लवेन ॥१७-७३॥

दत्ताभयोपनतपौरशतार्प्यमाण- रत्नोपधां अथ स रत्नवतीं प्रविश्य ।
तं संयुगस्फुटपरीक्षितशौर्यसारं राज्ये रिपोः फणिकुमारकं अभ्यषिञ्चथ् ॥१७-७४॥

मूर्तं मनोरथं इवोपवनात्सकन्दं आदाय तत्कनककोकनदं नरेन्द्रः ।
आदातुं ईप्सितमहीन्द्रसुतेति रत्नं अभ्युत्सुकस्तदनु भोगवतीं प्रतस्थे ॥१७-७५॥

देवः साहसिकोऽप्यमन्दमुरजध्वानानुमेयोत्सवां उन्नम्रैः परितो महीं मणिगृहैरुत्तम्भयन्तीं इव ।
तां अत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल- प्रालम्बोच्छलदच्छकान्तिनिकरस्मेरां अवापत्पुरीं॥ १७-७६॥    

इति  श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये हेमकमलहरणो नाम सप्तदशः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP