नवसाहसाङ्कचरितम् - षोडशः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.
अत्रान्तरे नभःसिन्धु- पुलिनं प्राप पाटला ।
दधत्यनङ्गलेखेन लाञ्छितं पाणिपल्लवं॥ १६-१॥
मणिप्रग्रीवकोद्गीर्ण- शुनासीरशरासनं ।
अपश्यद्गगनोल्लेखि तत्र स्फटिकवेश्म सा ॥१६-२॥
तदिन्द्रनीलद्वारे सा हेमवेत्राकुले बभौ ।
श्लिष्यन्ती सतडिल्लेखे लेखेवेन्दोः पय्ॐउचि ॥१६-३॥
रत्नवातायनस्थस्य तिष्ठन्पार्श्वे महीपतेः ।
द्वाःस्थं किं अपि पृच्छन्तीं तां ऐक्षत रमाङ्गदः ॥१६-४॥
अन्तः प्रवेशयां आस सश्च तां आत्तसंभ्रमः ।
ययौ सा च विशांपत्युर्लोचनामृतवर्तितां॥ १६-५॥
सिताश्महर्म्यं उत्तुङ्गं झटित्यधिरुरोह सा ।
आनन्दकन्दलीचित्तं अत्यच्छं पार्थिवस्य च ॥१६-६॥
क्षितिचुम्बितहारं सा प्रणनाम महीभुजे ।
रमाङ्गदं करग्राह- सौहार्द्ये पात्रतां नयथ् ॥१६-७॥
नृपेण स्वयं उक्तापि इत एह्येहि पाटले ।
तल्लीलामणिपर्यङ्क- सविधे निषसाद सा ॥१६-८॥
_
पाटलावाक्यम्
कृतसम्भाषणा साथ तेनावनिमनोभुवा ।
इत्यवोचत दन्तांशु- शबलाधरपल्लवा ॥१६-९॥
मुद्रितस्मरसौन्दर्य- वान्ता नेत्रामृतछटा ।
इयं मूर्तिर्महाराज कच्चित्कुशलिनी तव ? ॥१६-१०॥
कथं एतां प्रविष्टास्त्वं भूमिं अत्यन्तदुर्गमां ।
न कस्य विस्मयायेयं शक्तिरत्यद्भुता तव ॥१६-११॥
देव विद्याधरः कोऽपि शापान्निर्मोचितस्त्वया ।
इत्यमन्दः प्रवादोऽत्र तत्कोऽप्यसि नमोऽस्तु ते ॥१६-१२॥
अहो गुणेन राजेन्द्र येन केनापि गृह्यसे ।
यदेवं क्लिश्यसे तस्याः फणीन्द्रदुहितुः कृते ॥१६-१३॥
_
नायकवाक्यम्
अथ विद्रुमताम्रौष्ठ- लुठद्दशनदीधितिः ।
स्मित्वा वसुमतीनाथस्तां इति प्रत्यभाषत ॥१६-१४॥
कदाचित्पाटले कच्चिद्भुजङ्गपतिकन्यका ।
स्मरत्यस्मान्सखीस्वैर- सङ्कथास्वन्तरान्तरा ॥१६-१५॥
किं अनङ्गवती वक्ति ब्रूते माल्यवती च किं ।
अप्यस्त्यहिपुरेऽस्माकं किंवदन्ती कियत्यपि ॥१६-१६॥
फणिराजसुताकर्णं कच्चित्प्रापय्य मद्वचः ।
विहितो रत्नचूडेन शुकरूपविपर्ययः ॥१६-१७॥
किं आगतासि किं चैवं परिम्लानेव लक्ष्यसे ।
निवेदय द्रुतं यन्मे किं अप्याशङ्कते मनः ॥१६-१८॥
_
लेखार्पणम्
इति पृष्टवते तस्मै सान्द्रप्रेमार्द्रचेतसे ।
कन्दर्पदीपनं लेखं अर्पयां आस पाटला ॥१६-१९॥
तं आत्तं वाचयेत्युक्त्वा परमारकुलोद्वहः ।
रमाङ्गदस्य चिक्षेप सम्भ्रमोत्तानिते करे ॥१६-२०॥
तं हेमकदलीपत्र- कस्तूरिलिखिताक्षरं ।
सोऽवधार्याथ तस्याग्रे व्यक्तवागित्यवाअचयथ् ॥१६-२१॥
_
शशिप्रभालेखः
स्वस्ति स्थितस्य स्वःसिन्धु- तीरे फणिपुरस्थया ।
इदं मध्यमलोकेन्दोर्माल्यवत्या निवेद्यते ॥१६-२२॥
यदैवास्मत्सखी विन्ध्ये त्वया राजन्व्ययुज्यत ।
तदैवेयं कुरङ्गीव विद्धा हृदि मनोभुवा ॥१६-२३॥
दृष्टिः सर्वत्र राजेन्दोः सुधानिष्यन्दिनी तव ।
जाता शशिप्रभायां तु सैव हालाहलछटा ॥१६-२४॥
न विनोदयितुं शक्यं एषा केनापि वस्तुना ।
विनेश तव कर्पूर- शीतया सङ्गमाशया ॥१६-२५॥
त्वद्दर्शनोपकारिण्याः करोत्येकावलीं इव ।
इयं पक्ष्माग्रवर्त्यश्रु- पृषतछद्मना दृशः ॥१६-२६॥
वक्ति व्यक्ताश्रुलेखेन निहितेन करोदरे ।
इयं आपाण्डुगण्डेन स्मरतापमुखेन्दुना ॥१६-२७॥
शिरीषादपि मृद्वङ्गी क्वेयं आयातलोचना ।
एष क्व च कुकूलाग्नि- कर्कशो मदनज्वरः ॥१६-२८॥
नेयं प्रवालशय्यायां नापि प्रालेयवेश्मनि ।
न चेन्दुमणिपर्यङ्के सखी निर्वृतिं एति नः ॥१६-२९॥
निसर्गरक्तं एतस्याः सखीजनं इवाधरं ।
नयन्ति किं अपि म्लानिं उष्णा निःश्वसितोर्मयः ॥१६-३०॥
अरतित्वं अवाप्याम्भः- कणिकेव विघूर्णते ।
एषा कमलिनीपत्र- शय्यायां आयतेक्षणा ॥१६-३१॥
अस्याः स्मराग्निसन्तप्तं वपुः शशिकलामृदु ।
नीरन्ध्रघर्मसलिल- छलेनेव विलीयते ॥१६-३२॥
कृशतां अङ्गके गाढं अस्याः कुसुमक्ॐअले ।
आरोपयति पुष्पेषु मौर्वीं इव शरासने ॥१६-३३॥
धृतया हृदि बालेयं वितीर्णहरिचन्दने ।
निर्वाणं एति भवतः कथया न जलार्द्रया ॥१६-३४॥
आकर्णकृष्टकोदण्डस्- त्वां विना निशितैः शरैः ।
भिनत्त्यङ्गं अनङ्गोऽस्याः क्षितिश्चेतसि कापि मे ॥१६-३५॥
इयं अत्यच्छहृदये दधत्यतिसुवृत्ततां ।
बाला माणिक्यमुकुरे विमुखी संमुखी त्वयि ॥१६-३६॥
एषा शिखेव दीपस्य मुग्धा दग्धदशाश्रया ।
स्मरानिलपरामर्शादितश्चेतश्च वेपते ॥१६-३७॥
इयं इन्दुद्युतिहरं युक्तं अत्यायतैर्गुणैः ।
मृणालवलयं हस्ते वहति त्वां च चेतसि ॥१६-३८॥
अनङ्गतापवत्यस्या निकामसरसं हृदि ।
सङ्कुचत्यब्जिनीपत्रं न तु त्वत्प्रेमपल्लवः ॥१६-३९॥
क्रियते वलयेनास्या मणिबन्धे गतागतं ।
कार्श्याग्रभूमिं आप्तायास्त्वय्यन्तःकरणेन च ॥१६-४०॥
जायते पेशलं अपि प्रायो वस्त्वन्यथापदि ।
प्राप्तो मृणालहारोऽपि यदस्या दाहहेतुतां॥ १६-४१॥
निहिताः सास्रमालीभिर्लवलीपाकपाण्डुनी ।
अस्याः स्तनतटे भारः परं वानीरपल्लवाः ॥१६-४२॥
न चन्दनेन नोशीर- वारिणा न जलार्द्रया ।
नास्याः पुटकिनीपत्रैः शमं एति स्मरज्वरः ॥१६-४३॥
किं चापरं त्वं एतस्या हृदयस्याधिदेवता ।
यतस्त्वन्मयं एवैषा विश्वं विश्वेश पश्यति ॥१६-४४॥
रत्नचूडोपनीतेन सन्देशेन तवाधुना ।
इयं उच्छ्वसिता किं चित्सुधागण्डूषबन्धुना ॥१६-४५॥
तावदागच्छ वेगेन गृहीत्वा हेमपङ्कजं ।
अनङ्गविधुना यावदियं श्वसिति नः सखी ॥१६-४६॥
_
नायकस्य प्रतिसन्देशः
एवं आकर्ण्य ललितं लेखार्थं अथ पार्थिवः ।
उद्भिन्नसान्द्रपुलकः पाटलां इत्यवोचत ॥१६-४७॥
यथा सखी वः किं अपि प्रपन्ना विधुरां दशां ।
तथा त्वं अपि मां एवं पाटले किं न पश्यसि ? ॥१६-४८॥
तद्गच्छ तां शशिमुखीं आश्वासयितुं अर्हसि ।
वयं एते च हेमाब्जं आनेतुं प्रयतामहे ॥१६-४९॥
तथा कार्यं न वन्ध्यः स्याद्यथा मम मनोरथः ।
वक्तव्या माल्यवत्यैवं मद्गिरा वल्गुवादिनि ॥१६-५०॥
_
पाटलाप्रयाणम्
आवृत्तिदत्तसन्देशा- सा ततः पृथिवीभुजा ।
फणिराजेन्द्रनगरीं त्वरितं पाटला ययौ ॥१६-५१॥
प्रस्थानशंसी सहसा तस्याथ पृथिवीपतेः ।
प्रलयाम्बुधरध्वान- धीरं दध्वान दुन्दुभिः ॥१६-५२॥
_
विद्याधरस्त्रीपुरुषवर्णनम्
नदन्नुत्कम्पिमनसां स विद्याधरयोषितां ।
निन्ये प्रियपरिष्वङ्ग- श्लथतां अथ दोर्लताः ॥१६-५३॥
कथं चित्प्राणनाथस्य मुखाधरपल्लवं ।
बाला व्यघटयत्का चित्काचिदुरसश्च पयोधरौ ॥१६-५४॥
शनैर्बबन्ध जघने नखाङ्कवति मेखलां ।
कापि स्मितमुखी कान्ते तिर्यगर्पितलोचना ॥१६-५५॥
दृष्टिं दास्यन्ति मे सख्यः खण्डिते दन्तवाससि ।
किं अत्र कृत्यं इत्यन्या किं अपि व्याकुलाभवथ् ॥१६-५६॥
का चित्पर्यङ्कं आलोक्य सालक्तकपदाङ्कितं ।
अन्योन्यार्पितनेत्राभिर्वयस्याभिरहस्यत ॥१६-५७॥
एका माणिक्यकटकं कराग्रच्युतं आददे ।
हृदयं पुष्पचापेन मध्ये विद्धं इवात्मनः ॥१६-५८॥
चुम्बनक्लिष्टबिम्बौष्ठं जागरारुणलोचनं ।
मुखाम्भोजं दृशान्योनं विलासिभिरपीयत ॥१६-५९॥
_
रत्नवतीं प्रति गमनम्
सोऽथ प्रववृते गन्तुं विद्याधरबलान्वितः ।
रथेन रथिनां अग्र्यः पुरीं रत्नवतीं प्रति ॥१६-६०॥
_
रत्नचूडसमागमः
ततः फणिकुमारेन रत्नचूडेन स अध्वनि ।
समगंस्त जगत्पूज्यः पूषा दर्श इवेन्दुना ॥१६-६१॥
सस्तस्योपयानीचक्रे दिक्चक्रस्खलितध्वनिं ।
अच्छिन्नदाननिष्यन्दं आत्मानं इव वारणं॥ १६-६२॥
नृपस्य दीपिकाकृत्यं चक्रिरे तिमिरच्छिदः ।
पुरः प्रसर्पत्तत्सैन्य- फणारत्नांशुसूचयः ॥१६-६३॥
कियताप्यथ कालेन सन्ततैः सः प्रयाणकैः ।
प्रपेदे कुसुमाश्लेष- सुगन्धिपवनं वनं॥ १६-६४॥
_
दूतप्रस्थापनम्
असुराधिपतिं साम्ना याचितुं हेमपङ्कजं ।
स्थित्वा सस्तत्र पुरतो विससर्ज रमाङ्गदं॥ १६-६५॥
सश्च त्रिजगतः सारं आदायैव विनिर्मितां ।
उत्तुङ्गरत्नप्रासादां प्राप रत्नवतीं पुरीं॥ १६-६६॥
रामार्थबद्धकक्षेण प्रेषितः प्रभुणाविशथ् ।
परिखार्णवं उल्लङ्घ्य सस्तां लङ्कां इवाङ्गदः ॥१६-६७॥
कोऽयं कोऽप्ययं अन्योन्यं एवं पल्लवितोक्तिभिः ।
कौतुकस्तिमिताक्षैः सः पौरैश्चिरं अदृश्यत ॥१६-६८॥
स चन्द्रनीलहर्म्येषु ददर्शासुरकन्यकाः ।
लोलास्तमालश्यामेषु मेघेष्विव शतह्रदाः ॥१६-६९॥
निपीयमानः पौरस्त्री- नेत्रस्फटिकशुक्तिभिः ।
वैरिद्विपघटासिंहः सिंहद्वारं अवाप स ॥१६-७०॥
असुरेन्द्रस्य दोःकण्डु- दुःस्थानैकभटाकुलं ।
वीरः स अविशदास्थानं अथ द्वाःस्थनिवेदितः ॥१६-७१॥
_
असुरेन्द्रवर्णनम्
आसीनं अञ्जनश्यामं उच्चैः स्फटिकविष्टरे ।
हिमाचलेन्द्रशिखरे नवीनं इव नीरदं॥ १६-७२॥
केयूरपद्मरागांशु- मञ्जरीजटिलऊभौ ।
भुजौ बिभ्राणं उज्ज्वाल- प्रतापज्वलनाविव ॥१६-७३॥
उरसा रुद्धगीर्वाण- द्विपेन्द्ररदकोटिना ।
हारवल्लीं दधल्लोलां दोलां इव जयश्रियः ॥१६-७४॥
दधानं दीप्तिपर्यस्त- तिमिरौ मणिकुण्डलौ ।
बन्दीकृतौ सहैवोभौ सूर्याचन्द्रमसाविव ॥१६-७५॥
वीरव्रतस्यालङ्कारं अहङ्कारस्य जीवितं ।
जगतां अङ्कुशं तत्र स वज्राङ्कुशं ऐक्षत ॥१६-७६॥
तन्निदेशितं अध्यास्त स हिरण्यमयं आसनं ।
नानारत्नांशुशबलं शृङ्गं मेरोरिवार्यमा ॥१६-७७॥
_
दूतं प्रति प्रश्नः
कुर्वन्मुखानि स्मेराणि दशनज्योत्स्नया दिशां ।
विधाय सत्क्रियां एवं असुरेन्द्रस्तं अब्रवीथ् ॥१६-७८॥
अहो किं अपि कल्याणं आसन्नफलं अद्य नः ।
अन्यथा हि गृहं सन्तः किं आयान्ति भवद्विधाः ॥१६-७९॥
यदाश्रमे वङ्कुमुनेर्युवयोर्वृत्तं अद्भुतं ।
तत्कर्णातिथितां नीतं एत्य प्रणिधिभिर्मम ॥१६-८०॥
एतया सांप्रतं ब्रूहि युतो विद्याधरैरयं ।
किं आकङ्क्षति वः स्वामी फलं पाटालयात्रया ॥१६-८१॥
नियुज्यन्ते नृपेणार्थे नाल्पीयसि भवद्दृशाः ।
शेषो धृतेर्भुवोऽन्यत्र व्यापारयति किं फणान्॥ १६-८२॥
तदत्र प्रहितो राज्ञा किं अर्थं असि कथ्यतां ।
अर्थिनां व्यर्थतां एति न जातु प्रार्थना मम ॥१६-८३॥
_
रमाङ्गदोक्तिः
मार्गैरिवायतैर्वाचां शुचिभिर्दशनांशुभिः ।
सीमन्तिताधरः स्मित्वा तं इत्यूचे रमाङ्गदः ॥१६-८४॥
आसां सुधारसार्द्राणां शुद्धानां असुराधिप ।
गिरां त्वं एको यत्सत्यं इन्दुर्भासां इवाकरः ॥१६-८५॥
कच्चित्त्वयायं अज्ञायि देवः साहसलाञ्छनः ।
जगत्प्रदीपं अथवा को न वेत्ति विरोचनं॥ १६-८६॥
फणिराजसुतां एष परिणेतुं शशिप्रभां ।
पथानेन रथक्षुण्ण- रत्नशैलेन गच्छति ॥१६-८७॥
त्वद्वापिहेमपद्मेन शुल्कसंस्था कृता किल ।
अस्याः पित्रेति देवेन तदर्थं प्रहिता वयं॥ १६-८८॥
अनेनेच्छसि चेत्कर्तुं सख्यं साहसलक्ष्मणा ।
तत्कार्तस्वरराजीवं आनीय स्वयं अर्प्यतां॥ १६-८९॥
लुम्पन्ति त्वन्मुखच्छायां यावन्नास्य चमूरजः ।
कुरुष्व तावदातिथ्यं हेमाब्जेन महीभुजे ॥१६-९०॥
किं अन्यन्`नार्थिनां मत्तो विघटन्ते मनोरथाःऽऽ ।
इति त्वया स्वं एवाशु प्रमाणीक्रियतां वचः ॥१६-९१॥
_
वज्राङ्कुशवाक्यम्
इत्युक्तवति सामर्ष- भटदृष्टे यशोभटे ।
प्रत्यभाषत सावज्ञं विहस्यासुरकुञ्जरः ॥१६-९२॥
अहो बत विदग्धोऽपि धिङ्मुग्ध इव लक्ष्यसे ।
विदुषापि त्वया किंचिद्यदुक्तं असमञ्जसं॥ १६-९३॥
यूयं क्व माणुषाः पृथ्वी- सङ्कटस्वाम्यदुःस्थिताः ।
सा च त्रिजगतां भर्तुरुचिता क्व शशिप्रभा ॥१६-९४॥
तादृङ्मदङ्कं एवात्र स्त्रीरत्नं अधिरोहति ।
रमते हि हरस्यैव मौलाविन्दुकलाङ्कुरः ॥१६-९५॥
यद्यदस्तीह पाताले रत्नं क्व चन किं चन ।
भाजनं तस्य तस्याहं एकः के यूयं उच्यतां ? ॥१६-९६॥
सहते नृपतौ नैव हेमतामरसार्पणं ।
ममैष शक्रविजय- क्रीडादुर्ललितो भुजः ॥१६-९७॥
प्रभुस्तव नयज्ञोऽपि किं अनर्थाय केवलं ।
दीर्घेन्दीवरमालेति विकर्षत्यसितोरगं॥ १६-९८॥
इत एव निवर्तध्वं वर्तध्वं वचने मम ।
अवटे किं इति क्षेप्तुं आत्मानं यूयं उद्यताः ॥१६-९९॥
यावदेते न मुञ्चन्ति मर्यादां असुराब्धयः ।
तावत्दूरापसारेण स्वामिनं त्रातुं अर्हथ ॥१६-१००॥
नरेन्द्रं दुर्जिगीषातस्तद्गच्छ विनिवारय ।
त्वादृशाः किं उपेक्षन्ते पतिं उत्पथगामिनं॥ १६-१०१॥
अथवास्यास्ति शक्तिश्चेत्किं अद्यापि विलम्बते ।
आयातु स्वयं आदातुं इतः काञ्चनपङ्कजं॥ १६-१०२॥
किं अन्यज्जायतां एष खड्गधारातिथिर्मम ।
इत्युक्त्वा कोपतरलं विररामासुरेश्वरः ॥१६-१०३॥
_
रमाङ्गदस्य प्रतिवचनम्
धैर्यं संवृतकोपोऽथ स्मयमानो रमाङ्गदः ।
तं इत्यमुक्तपर्यङ्कः प्रतिवक्तुं प्रचक्रमे ॥१६-१०४॥
निर्वाणवीर्यवातेऽस्मिन्रसातलबिलोदरे ।
अभुग्नभुजकण्डूतिरहो किं अपि दृप्यसे ॥१६-१०५॥
मन्ये तवैतन्नीरन्ध्रं अज्ञातस्वपरान्तरे ।
पातालचिरसंवासाच्चित्ते परिणतं तमः ॥१६-१०६॥
यां हरस्याष्टमीं आहुर्मूर्तिं आहुतिलेहिनीं ।
तत्सूतिः प्रागभूद्भर्ता परमार इति क्षितेः ॥१६-१०७॥
कृतावतारं तद्वंशे वधाय विबुधद्विषां ।
किं आदिदेवं कंसारिं धिङ्मर्त्य इति मन्यसे ॥१६-१०८॥
कमलेव मुकुन्दस्य पार्वतीव पिनाकिनः ।
फणिकन्योचिता पत्नी सा महीमीनलक्ष्मणः ॥१६-१०९॥
तां हठेनात्मसात्कर्तुं असुरेन्द्र न शक्यसे ।
न रत्नसूचिं आक्रष्टुं अयस्कान्तस्य योग्यता ॥१६-११०॥
पदं पथि निधत्सेऽत्र किं अन्यायमलीयसे ।
अपथे चरतां यान्ति दूराद्दूरं विभूतयः ॥१६-१११॥
अनर्पणं महीपाले हेमपङ्केरुहस्य यथ् ।
तवापरिघं उत्प्रेक्षे तदेव द्वारं आपदां॥ १६-११२॥
राजेन्द्रदीपके तस्मिन्समराङ्गणवर्तिनि ।
एते भटास्ते न चिरात्- आयास्यन्ति पतङ्गतां॥ १६-११३॥
तथा विधेहि न यथा त्वन्दतःपुरयोषितां ।
करपल्लवशय्यासु शेरते वदनेन्दवः ॥१६-११४॥
प्रवृत्तपतिशोकार्त- पौरस्त्रीपरिदेवना ।
इयं उत्सन्नसङ्गीता मा भूद्रत्नवती पुरी ॥१६-११५॥
देवस्यार्पितहेमाब्जस्तदेहि पत पादयोः ।
शिरः पुनन्तु ते कामं पुण्यास्तत्पादपांसवः ॥१६-११६॥
अथवा सुभटैः सार्धं उत्तिष्ठ पुरतो भव ।
समं विद्याधरानीकैरयं आयाति भूपतिः ॥१६-११७॥
किं अन्यत्समं एतेन शिरस्तामरसेन ते ।
हेमकोकनदं देवः स्वयं एव ग्रहीष्यति ॥१६-११८॥
_
रमाङ्गदागमनम्
तं इत्युक्त्वा सभामध्यान्निर्जगाम रमाङ्गदः ।
निकटं च रणोत्कस्य जगाम जगतीपतेः ॥१६-११९॥
अथ वदति शनैः समेत्य तस्मिन्नमररिपोर्वचनानि तानितानि ।
असुरपतिविनाशकालरात्रिम्- भृकुटीं उवाह मुखेन मालवेन्द्रः ॥१६-१२०॥
गत्वा विद्याधरभटचमूचक्रवालैः सभं सः क्ष्मापालोऽथ व्यधित परितस्तत्पुरो रत्नवत्याः ।
येन व्यक्तामरजयमहासाहसस्यासुराणां नाथस्यासीन्नवपरिभवश्यामलावक्त्रलक्ष्मीः ॥१६-१२१॥
इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये कनकारविन्दप्रार्थनो नाम षोडशः सर्गः
N/A
References : N/A
Last Updated : November 11, 2016
TOP