संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| द्वितीयः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - द्वितीयः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत द्वितीयः सर्गः Translation - भाषांतर कदा चिल्लोचनातिथ्यं आप्तेनालेख्यवेश्मनि ।स मृगव्याविनोदेन पस्पृशे पार्थिवो भृशं॥ २-१॥उदग्रतुरगारूढः स समं राजसूनुभिः ।गिरेरगच्छद्विपिनं विन्ध्यस्यावन्ध्यशसनः ॥२-२॥हारेणामलकस्थूल- मुक्तेनामुक्तकुन्तलः ।फणीन्द्रबद्धजूटस्य श्रियं आप स धूर्जटेः ॥२-३॥देवः स वारबाणेन नलिनीपत्रबन्धुना ।श्यामजीमूतसन्नद्धः काञ्चनाद्रिरिवाबभौ ॥२-४॥तस्योपरि विभो नीलं आतपत्रं व्यराजत ।वारिधेरिव पीताम्भश्- श्यामलं मेघमण्डलं॥ २-५॥व्याधूतिमुक्तमरुता व्यरुचच्चामरेण सः ।बन्दिगृहान्निःश्वसता यशसेवादिभूभुजां॥ २-६॥व्यधादिवोद्गतैर्दूरं चूडारत्नरश्मिभिः ।निशाकरकुरङ्गस्य पाशं आकाशवर्त्मनि ॥२-७॥तस्यांसयोर्नृसिंहस्य हारकान्तिसटाभरः ।उवाह कण्ठलग्नश्री- विलासहसितश्रियं॥ २-८॥पुरः पदे पदे तस्य नानारत्नाङ्गदत्विषः ।रचयन्ति स्म सञ्चारि चापं प्राचीनबर्हिषः ॥२-९॥भाति स्म कण्ठाभरण- पद्मरागप्रभावृतः ।राजन्यास्रसरःस्नातः स भार्गव इवापरः ॥२-१०॥रुरुचे स पुरस्त्वङ्गत्- सितच्छत्रपरम्परः ।वेलानिलसमुद्धूत- फेणः पतिरिवार्णसां॥ २-११॥उपायनीकृतोन्निद्र- पद्मकिञ्जल्कसौरभः ।तं असेवत सम्राजं विन्ध्यदूत इवानिलः ॥२-१२॥तदश्वीयखुरोत्खातैः पांसुकूटैरजायत ।पुनः प्रसभवर्धिष्णु- विन्ध्यशङ्काकुलं जगथ् ॥२-१३॥सहेमशृङ्खलाः श्वानः श्वेतास्तस्याग्रतो ययुः ।वहन्तः सतडिद्दाम- शारदाम्बुधरश्रियं॥ २-१४॥ततस्तुरगहेषाभिः पत्तिकोलाहलेन च ।अजायन्त भयोद्भ्रान्त- श्वापदा विन्ध्यभूमयः ॥२-१५॥रभसाकृष्टकोदण्डं कर्णपूरीकृतेक्षणाः ।तं अनङ्गं इवापश्यन्वनान्ते वनदेवताः ॥२-१६॥मयि गोप्तरि चोरोऽयं अबलालोचनश्रियः ।इतीव मुमुचे तेन कृष्णसारे शिलीमुखः ॥२-१७॥स चित्रवर्णविच्छित्ति- हारिणोरवनीपतिः ।श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥२-१८॥चमरीणां शरोत्कृत्तैः स वालधिभिरुज्ज्वलं ।परितो व्यधितारण्यं स्वयशःस्तबकैरिव ॥२-१९॥आहुत इव साटोपं लाङ्गूलस्फोटनिःस्वनैः ।अभ्यधावदभिव्याघ्रानाग्रतः कौतुकेन स ॥२-२०॥विधित्सुरात्मनः शौर्यं असामान्यं इवादधे ।स शरान्पुण्डरीकेषु पुण्डरीकायतेक्षणः ॥२-२१॥तैस्तस्य बाहुवीर्येण दृष्टेन व्रीडितैरिव ।तत्यजे विक्रमस्पर्धा पुरः पश्चात्तु जीवितं॥ २-२२॥क्षितेरेकातपत्रायाः स पतिर्मत्सरादिव ।उदग्रपुण्डरीकत्वं न सेहे विन्ध्यभूभृतः ॥२-२३॥अरण्यमहिषैर्दूरं तस्मात्सायकवर्षिणः ।अपसस्रे विकीर्णांशोस्तमोभिरिव भास्वतः ॥२-२४॥महामहिषनिष्पेषकेलिः पारं अगाद्द्वयोः ।राज्ञस्तस्यातिचण्डस्य चण्डिकाचरणस्य च ॥२-२५॥शरदीव प्रसर्पन्त्यां तस्य कोदण्डटाङ्कृतौ ।विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायत ॥२-२६॥अशेषभुवनख्यात- विक्रमेऽव्यक्तविक्रमैः ।दर्पान्मुमुचिरे तस्मिन्तिर्यक्केसरिभिर्दृशः ॥२-२७॥स तेषां सहजोदग्र- शौर्यसञ्चारवीथिषु ।मत्तेभमौक्तिकोत्तंसान्न सेहे नखशुक्तिषु ॥२-२८॥यूथे महावराहाणां गते तद्बाणगोचरं ।चिरात्पल्वलमुस्तानां सन्तानः स्वस्तिमानभूथ् ॥२-२९॥समदक्रोडदंष्ट्राभिः कृत्ताभिः कौतुकेन स ।स्थलीर्व्यधित विन्ध्यस्य विकीर्णेन्दुकला इव ॥२-३०॥असैरिभं असारङ्गं अवाराहं अकेसरि ।क्षणाद्वनं अशार्दूलं आत्तचापश्चकार स ॥२-३१॥अलं प्रहृत्य भूपाल सत्त्वेष्वनपराधिषु ।इतीव सः खगारावैर्न्यषेधि वनराजिभिः ॥२-३२॥असेवन्त समीरास्तं अनस्तमृगयाश्रमं ।सुरतश्रान्तशबरी- कबरीमाल्यचुम्बिनः ॥२-३३॥_सचिववर्णनम्अथेन्द्रचापललितं सञ्चरन्तं इतस्ततः ।अमन्दमृगयासङ्गः सः कुरङ्गं अलोकत ॥२-३४॥सोऽपि तं वलितग्रीवः क्षणं स्थित्वा ददर्श च ।निरन्तरलतापुञ्जं विन्ध्यकुञ्जं विवेश च ॥२-३५॥ततस्तुरगं उत्सृज्य विसृज्यानुप्लवानपि ।तं अन्वियाय सारङ्गं सारङ्गायतलोचनः ॥२-३६॥देवो रमाङ्गदेनाथ सः श्रियेवान्वगम्यत ।छाया निवर्तते जातु न तु तस्यैष भूपतेः ॥२-३७॥मृगानुसारी विचरन्नात्तचापो वने वने ।लीलां किरातवेषस्य सः प्रपेदे पिनाकिनः ॥२-३८॥दूरादेव स तेनाथ शरव्यत्वं अनीयत ।स्वनामधेयस्य चिह्नस्य हेमपुङ्खस्य पत्रिणः ॥२-३९॥शिलाभेदक्षमेनापि किं अपि श्लथमुष्टिना ।अभूद्विद्धः सः सारङ्गस्तेन त्वचि च मर्मणि ॥२-४०॥सः शरापातभीतेन मनसोऽप्यतिरंहसा ।अतिदूरं कुरङ्गेण निन्ये राम इवापरः ॥२-४१॥तेन विन्ध्याटवीमध्ये धावन्नीरन्ध्रवीरुधि ।उत्पतन्नुत्पतन्नेव स केवलं अलक्ष्यत ॥२-४२॥दृशा वनस्थलीः कुर्वन्विकीर्णेन्दीवरा इव ।जवाद्दूरं अतिक्रान्तं तं क्षितीशस्तदैक्षत ॥२-४३॥ततस्तिरोहिते तस्मिन्नसमाप्तकुतूहलः ।स्वबाण इव स प्राप पृथिवीं दुर्विलक्षतां॥ २-४४॥दशनज्योत्स्नया कुर्वन्लताः स्तबकिता इव ।इति पार्श्वगतं स्मित्वा स जगाद रमाङ्गदं॥ २-४५॥_रमाङ्गदाय मृगवर्णनम्अयं तुलितपौल्ॐई- कान्तकामुकविग्रहः ।मृगो दृग्गोचरं कच्चित्- गतस्तव रमाङ्गद! ॥२-४६॥तद्वधूस्वकरन्यस्त- चित्रपत्रलताङ्कितः ।असौ विहारहरिणः किं स्यादनलसारथेः ॥२-४७॥अपि दृष्टा त्वयैतस्य कण्ठे कनकशृङ्खला? ।छुरितस्येन्द्रचापेन मेघस्येव तडिल्लता ॥२-४८॥मृगजातिरपूर्वेयं सर्वथा वसुधातले ।सम्भवत्यमराद्रौ वा भुवने वा फणाभृतां॥ २-४९॥अस्याखण्डलकोदण्ड- कान्ति चर्मातिपावनं ।गजपृष्ठे निधास्यामि महासमरपर्वसु ॥२-५०॥यन्निमज्जति मच्चेतः कुतूहलरसोर्मिषु ।मार्गं अन्वेष्टुं एतस्य तदेहि प्रयतावहे ॥२-५१॥इत्युक्त्वा विरते तस्मिन्परमारमहीभृति ।ऊचे रमाङ्गदेनैवं अवाप्यावसरं वचः ॥२-५२॥_रमाङ्गदकृतो मृगानुसरणनिषेधःक्रुधेवाधिज्यचापेन वर्णसङ्करदर्शिना ।त्वयैष चित्रसारङ्गो देव दूरं अनुद्रुत ॥२-५३ स् ॥अशून्याः सुरगन्धर्व- सिद्धविद्याधरोरगैः ।इमा नवनवाश्चर्य- निधयो विन्ध्यभूमयः ॥२-५४॥विरमात्यादरः कोऽयं कुरङ्गान्वेषणे तव ।न धावन्त्यर्थरिक्तासु क्रियासु त्वादृशां धियः ॥२-५५॥मृगयासक्तचित्तस्य तवात्र विचरिष्यतः ।पथि लोचनयोरेष पुनोऽप्यापतिष्यति ॥२-५६॥शरः संह्रियतां एष धनुरप्यवतार्यतां ।शेषा च स्वस्तिमत्यस्तु देव श्वापदसन्ततिः ॥२-५७॥दशा दिनस्य तीव्रेयं यदयं भगवान्रविः ।कृष्णस्योरसि पुष्णाति नभसः कौस्तुभश्रियं॥ २-५८॥निहतेषु त्वया देव सत्त्वेषु व्यथिता इव ।एता वहन्ति सन्तापं अतीवारण्यभूमयः ॥२-५९॥अमीभिर्बालवानीर- विटपेष्वगतक्लमैः ।कपिञ्जलैरितः पश्य सहसैव निलीयते ॥२-६०॥अर्कांशुग्लपितैरेभिरितोऽप्यालिखितैरिव ।राजजम्बूनिकुञ्जेषु पश्य पुंस्कोकिलैः स्थितं॥ २-६१॥आह्लादहेतुः स्निग्धेयं इतो वन्येन दन्तिना ।पश्य नीपतरोश्छाया सवशेन निषेव्यते ॥२-६२॥नवाम्बुधरनीलोऽयं दावधूमलतोद्गमः ।नीलकण्ठैरितस्तर्षात्सोत्कण्ठैरवलोक्यते ॥२-६३॥अनया विद्रुमस्तम्ब- भङ्गपिङ्गलया दृशा ।इतः पल्वलपङ्कान्तो व्यक्तिं अभ्येति सैरिभः ॥२-६४॥कठोरातपतप्तस्य राजहंसस्य सम्प्रति ।नरेन्द्र नलिनीपत्रं आतपत्रीभवत्यदः ॥२-६५॥मुखं अश्वरजछन्न- कपोलफलकद्युति ।देव दन्तुरयन्त्येते तवापि स्वेदबिन्दवः ॥२-६६॥तदत्र कुसुमस्मेरे निःस्वनत्समदालिनि ।विनीयतां लताकुञ्जे त्वयैष मृगयाश्रमः ॥२-६७॥अपि स्वच्छजला देव कलहंसाङ्कसैकता ।वराहोत्खातमृत्स्नेयं पुरः पुष्करिणी तव ॥२-६८॥त्वां इवार्ककरक्लान्तं आकारयितुं एतया ।अयं आधूतकह्लार- कलिकः प्रेषितोऽनिलः ॥२-६९॥लतापुष्पोत्करैः कीर्णो मार्गोऽयं अवगाह्यतां ।इतो वन्येभमुक्ताभिरिमाः शर्करिला भुवः ॥२-७०॥इत्युक्ते मसृणं तेन नृपस्य पदं आदधे ।स्मितं सरस्वतीरत्न- पर्यङ्के दन्तवाससि ॥२-७१॥यशोभटोपदिष्टेन गत्वा किञ्चिदिवाध्वना ।प्राप पुष्करिणीतीरं अवन्तितिलकोऽथ सः ॥२-७२॥करादनुचरस्तस्य सान्द्रस्वेदजलाङ्गुलेः ।मधुर्मनोभवस्येव सशरं चापं आददे ॥२-७३॥_अथ स्नानादिवर्णनम्ततः स्नानेच्छया स्पृष्टो विसृष्टश्यामकञ्चुकः ।स रेजे मेघनिर्मुक्तः पर्याप्त इव चन्द्रमः ॥२-७४॥प्रमृष्तमृगयारेणु तन्मुखं पार्श्ववर्तिना ।रुरुचे मारुताक्षिप्त- परागं इव पङ्कजं॥ २-७५॥निसर्गललिता तस्य विमुक्तालङ्कृतिस्तनुः ।लतेव पारिजातस्य पर्यस्तस्तबकाभवथ् ॥२-७६॥स्वेदनुन्नाङ्गवर्णस्य सरसीं अवगाहतः ।वन्यस्येवाभवत्तस्य श्रीः पर्यन्तविसर्पिणी ॥२-७७॥स तस्यां दूरविक्षिप्त- विहगश्रेणिमेखलः ।विजहार यथाकामं विलासकुसुमायुधः ॥२-७८॥उवाह विस्फुरन्नाल- कण्टकच्छद्मनापि सा ।तदङ्गयष्टिस्पर्शेन र्ॐअञ्चं इव पद्मिनी ॥२-७९॥ततस्तरङ्गनिर्धौतं अध्यास्य स शिलातलं ।यशःस्नपितदिक्सीमा देवः सस्नौ यथाविधि ॥२-८०॥तस्याविरलमत्तालि- निःस्वनच्छद्मना वने ।अगीयतेव देवस्य लताभिः स्नानकौतुकं॥ २-८१॥सो दूरोदस्तपर्यस्त- सपुष्पसलिलाञ्जलिः ।जगत्तमोऽपहं ज्योतिस्त्रयीमयं उपस्थितः ॥२-८२॥तं आनर्च स राजेन्दुर्मौलौ यस्येन्दुलेखया ।क्रियते स्वर्धुनीबाल- मृणालशकलभ्रमः ॥२-८३॥धन्या हि ता वनलता यत्फलान्यजहार स ।कार्यतः सदृशी तासां समुद्ररशना मही ॥२-८४॥निपीय निखिलव्यक्त- राजचिह्नेन पाणिना ।उपास्पृशत्स चाम्भोज- किञ्जल्ककपिशं पयः ॥२-८५॥नीलातपत्रमित्रेण पत्रेणाम्बुजिनीभुवा ।निवारितोष्णः सश्रीकं लताकुञ्जं जगाम स ॥२-८६॥सपरागे विशश्राम कुसुमप्रस्तरे च स ।लक्ष्मीकुचाङ्गरागेण भिन्ने शेष इवाच्युतः ॥२-८७॥रमाङ्गदोऽपि निर्वर्त्य त्वरया किं चिदाह्निकं ।अवाप्तसेवावसरः पर्युपास्त विशाम्पतिं॥ २-८८॥सो भृङ्गध्वनिना सुप्तो विपञ्चीनादबन्धुना ।तमालपल्लवैस्तेन किं चित्किं चिदवीज्यत ॥२-८९॥निद्रागृहीतनिर्मुक्त- लोचनोऽथ जहार स ।घनछायावृतव्यक्त- भास्वतो नभसः श्रियं॥ २-९०॥पीनांसतटसंश्लिष्ट- पुष्पकेसरशोभिना ।उषःसाकल्पकेनेव शयनीयं अमुच्यते ॥२-९१॥_पुनर्मृगयाविहारःचकार च पदं चित्रः स मृगस्तस्य चेतसि ।लग्नं हि किं अपि क्वापि कृच्छ्रादाकृष्यते मनः ॥२-९२॥प्रसादहृद्यालङ्कारैस्तेन मूर्तिरभूष्यत ।अत्युज्ज्वलैः कवीन्द्रेण कालिदासेन वागिव ॥२-९३॥जगाहे स महारण्यं अंसासक्तधनुर्लतः ।उपोढशशभृल्लेखः सायं अब्धिं इवार्यमा ॥२-९४॥तस्मिन्कुसुमकिर्मीर- तले च विचचार स ।स्फुरन्नक्षत्रशबले नभसीव निशाकरः ॥२-९५॥मृगानुगमनिर्बन्धो न जगामास्य मन्दतां ।मैथिलीरमणस्येव विपिने पृथिवीपतेः ॥२-९६॥_निशातिक्रमणम्ततः पपात जलधौ विरोचनफणामणिः ।दिनाहेर्नीयमानस्य बलात्कारगरुत्मता ॥२-९७॥शनैः शनैरथ व्य्ॐनि मृगाङ्कः पदं आदधे ।सशङ्क इव भूपालान्मृगयासक्तचेतसः ॥२-९८॥रमाङ्गदास्तृतस्निग्ध- पल्लवप्रस्तरे ततः ।वने राजेन्दुना निन्ये तेनेन्दुतिलका निशा ॥२-९९॥अथ मुखरखगापनीतनिद्रः क्वचिदपि पद्मसरस्युपास्य सन्ध्यां ।पुनोऽपि तं अवेक्षितुं निशान्ते नृपतिरियेष्ट मृगं मृगेन्द्रकल्पः ॥२-१००॥पञ्चैकेन स्मर इव शरान्पाणिना हेमपुङ्खानन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः ।देवः स अथ व्यवहरदरिषु न्यस्तपादः पिकाली- नीडन्यञ्चन्निचुलनिचयश्यामलासु स्थलीषु ॥२-१०१॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये चित्रमृगावलोकनो नाम द्वितीयः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP