संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १७

श्रीनरसिंहपुराण - अध्याय १७

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीशुक उवाच

किं जपन् मुच्यते तात सततं विष्णुतत्परः ।

संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥१॥

व्यास उवाच

अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् ।

यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥२॥

हत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् ।

एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥३॥

एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके ।

जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ॥४॥

अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् ।

छन्दश्च दैवी गायत्री परमात्मा च देवता ॥५॥

शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते ।

मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ॥६॥

राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते ।

णाकारमञ्जनाभं तु यकारं बहुवर्णकम् ॥७॥

ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ।

भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः ।

वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः ॥८॥

सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः ।

एनमष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत् ॥९॥

संध्यावसाने सततं सर्वपापैः प्रमुच्यते ।

एष एव परो मन्त्र एष एव परं तपः ॥१०॥

एष एव परो मोक्ष एष स्वर्ग उदाहतः ।

सर्ववेदरहस्येभ्यः सार एष समुद्धतः ॥११॥

विष्णुना वैष्णवानां हि हिताय मनुजां पुरा ।

एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् ॥१२॥

स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये ।

जपे दाने च होमे च गमने ध्यानपर्वसु ॥१३॥

जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा ।

जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः ॥१४॥

मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः ।

स्रात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् ॥१५॥

स गच्छेत् परमं देवं नारायणमनामयम् ।

गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् ॥१६॥

महापातकयुक्तोऽपि मुच्यते नात्र संशयः ।

हदि कृत्वा हरि देवं मन्त्रमेनं तु यो जपेत् ॥१७॥

सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् ।

प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति ॥१८॥

द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् ।

तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् ॥१९॥

चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् ।

पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् ॥२०॥

तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः ।

सप्तमेन तु लक्षेण स्वरुपं प्रतिपद्यते ॥२१॥

अष्टमेन तु लक्षेण निर्वाणमधिगच्छति ।

स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः ॥२२॥

एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः ।

दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः ॥२३॥

जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा ।

एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः ॥२४॥

जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम् ।

मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् ॥२५॥

गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकम् ।

आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः ॥२६॥

धर्मार्थकाममोक्षांश्च लभते च जपन्नरः ।

एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् ॥२७॥

एतत् सिद्धिकरं नृणां मन्त्ररुपं न संशयः ।

ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः ॥२८॥

एतदेव परं जप्त्वा परां सिद्धिमितो गताः ।

ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः ।

अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ॥२९॥

नारायणाय नम इत्ययमेव सत्यं

संसारघोरविषसंहरणाय मन्त्रः ।

श्रृण्वन्तु भव्यमतयो मुदितास्त्वरागा

उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥३०॥

भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम् ।

हे पुत्र शिष्याः श्रृणुत न मन्त्रोऽष्टाक्षरात्परः ॥३१॥

सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।

वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः ॥३२॥

आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥३३॥

इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम् ।

कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् ॥३४॥

अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम् ।

जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि ॥३५॥

इदं स्तवं व्यासमुखात्तु निस्सृतं

संध्यात्रये ये पुरुषाः पठन्ति ।

ते धौतपाण्डुरपटा इव राजहंसाः

संसारसागरमपेतभयास्तरन्ति ॥३६॥

इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP