संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २२

श्रीनरसिंहपुराण - अध्याय २२

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


चन्द्रवंशका वर्णन

सूत उवाच

सोमवंशं श्रृणुष्वाथ भरद्वाज महामुने ।

पुराणे विस्तरेणोक्तं संक्षेपात् कथयेऽधुना ॥१॥

आदौ तावद्वह्मा । ब्रह्मणो मानसः पुत्रो मरीचिर्मरीचेर्दाक्षायण्यां कश्यपः ॥२॥

कश्यपाददितेरादित्यः । आदित्यात् सुवर्चलायां मनुः ॥३॥

मनोः सुरुपायां सोमः । सोमाद्रोहिण्यां बुधः । बुधादिलायां पुरुरवाः ॥४॥

पुरुरवस आयुः । आयो रुपवत्यां नहुषः ॥५॥

नहुषात् पितृवत्यां ययातिः । ययातेः शर्मिष्ठायां पुरुः ॥६॥

पूरोर्वशदायां सम्पातिः । सम्पातेर्भानुदत्तायां सार्वभौमः । सार्वभौमस्य वैदेह्यां भोजः ॥७॥

भोजस्य लिङ्गायां दुष्यन्तः दुष्यन्तस्य शकुन्तलायां भरतः ॥८॥

भरतस्य नन्दायामजमीढः । अजमीढस्य सुदेव्यां पृश्निः । पृश्नेरुग्रसेनायां प्रसरः । प्रसरस्य बहुरुपायां शंतनुः । शंतनोर्योजनगन्धायां विचित्रवीर्यः । विचित्रवीर्यस्याम्बिकायां पाण्डुः ॥९॥

पाण्डोः कुन्तिदेव्यामर्जुनः । अर्जुनात् सुभद्रायामभिमन्युः ॥१०॥

अभिमन्योरुत्तरायां परीक्षितः । परीक्षितस्य मातृवत्यां जनमेजयः । जनमेजयस्य पुण्यवत्यां शतानीकः ॥११॥

शतानीकस्य पुष्पवत्यां सहस्त्रानीकः । सहस्त्रानीकस्य मृगवत्यामुदयनः । तस्य वासवदत्तायां नरवाहनः ॥१२॥

नरवाहनस्याश्वमेधायां क्षेमकः । क्षेमकान्ताः पाण्डवाः सोमवंशो निवर्तते ॥१३॥

य इदं श्रृणुयान्नित्यं राजवंशमनुत्तमम् ।

सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥१४॥

यश्चेदं पठते नित्यं श्राद्धे वा श्रावयेत् पितृन् ।

वंशानुकीर्तनं पुण्यं पितृणां दत्तमक्षयम् ॥१५॥

राज्ञां हि सोमस्य मया तवेरित वंशानुकीर्तिर्द्विजं पापनाशनी ।

श्रृणुष्व विप्रेन्द्र मयोच्यमानं मन्वन्तरं चापि चतुर्दशाख्यम् ॥१६॥

इति श्रीनरसिंहपुराणे सोमवंशानुकीर्तनं नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP