संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ११

श्रीनरसिंहपुराण - अध्याय ११

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


व्यास उवाच

प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् ।

मार्कण्डेयोऽभितुष्टाव भोगपर्यङ्कशायिनम् ॥१॥

मार्कण्डेय उवाच

प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम ।

प्रसीद देवदेवेश प्रसीद गरुडध्वज ॥२॥

प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर ।

प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ॥३॥

प्रसीद सर्वदेवेश प्रसीद कमलेक्षण ।

प्रसीद मन्दरधर प्रसीद मधुसूदन ॥४॥

प्रसीद सुभगाकान्त प्रसीद भुवनाधिप ।

प्रसीदाद्य महादेव प्रसीद मम केशव ॥५॥

जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय ।

जय विश्व जयाव्यक्त जय विष्णो नमोऽस्तु ते ॥६॥

जय जय देव जयाजेय जय सत्य जयाक्षर ।

जय काल जयेशान जय सर्व नमोऽस्तु ते ॥७॥

जय यज्ञपते नाथ जय विश्वपते विभो ।

जय भूतपते नाथ जय सर्वपते विभो ॥८॥

जय विश्वपते नाथ जय दक्ष नमोऽस्तु ते ।

जय पापहरानन्त जय जन्मजरापह ॥९॥

जय भद्रातिभद्रेश जय भद्र नमोऽस्तु ते ।

जय कामद काकुत्स्थ जय मानद माधव ॥१०॥

जय शंकर देवेश जय श्रीश नमोऽस्तु ते ।

जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ॥११॥

जय चन्दनलिप्ताङ्ग जय राम नमोऽस्तु ते ।

जय देव जगन्नाथ जय देवकिनन्दन ॥१२॥

जय सर्वयुगे ज्ञेय जय शम्भो नमोऽस्तु ते ।

जय सुन्दर पद्माभ जय सुन्दरिवल्लभ ।

जय सुन्दसर्वाङ्ग जय वन्द्य नमोऽस्तु ते ।

जय सुन्दर पद्माभ जय सुन्दरिवल्लभ ।

जय सुन्दरसर्वाङ्ग जय वन्द्य नमोऽस्तु ते ॥१३॥

जय सर्वद सर्वेश जय शर्मद शाश्वत ।

जय कामद भक्तानां प्रभविष्णो नमोऽस्तु ते ॥१४॥

नमः कमलनाभाय नमः कमलमालिने ।

लोकनाथ नमस्तेऽस्तु वीरभद्र नमोऽस्तु ते ॥१५॥

नमस्त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते ।

नमो देवाधिदेवाय नमो नारायणाय ते ॥१६॥

नमस्ते वासुदेवाय नमस्ते पीतवाससे ।

नमस्ते नरसिंहाय नमस्ते शार्ङ्गधारिणे ॥१७॥

नमः कृष्णाय रामाय नमश्चक्रायुधाय च ।

नमः शिवाय देवाय नमस्ते भुवनेश्वर ॥१८॥

नमो वेदान्तवेद्याय नमोऽनन्ताय विष्णवे ।

नमस्ते सकलाध्यक्ष नमस्ते श्रीधराच्युत ॥१९॥

लोकाध्यक्ष जगत्पूज्य परमात्मन् नमोऽस्तु ते ।

त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥२०॥

त्वमार्तानां सुहन्मित्रं प्रियस्त्वं प्रपितामहः ।

त्वं गुरुस्त्वं गतिः साक्शी त्वं पतिस्त्वं परायणः ॥२१॥

त्वं ध्रुवस्त्वं वषटकर्ता त्वं हविस्त्वं हुताशनः ।

त्वं शिवस्त्वं वसुर्धाता त्वं ब्रह्मा त्वं सुरेश्वरः ॥२२॥

त्वं यमस्त्वं रविर्वायुस्त्वं जलं त्वं धनेश्वरः ।

त्वं मनुस्त्वमहोरात्रं त्वं निशा त्वं निशाकरः ।

त्वं धृतिस्त्वं श्रियः कान्तिस्त्वं क्षमा त्वं धराधरः ॥२३॥

त्वं कर्ता जगतामीशस्त्वं हन्ता मधुसूदन ।

त्वमेव गोप्ता सर्वस्य जगतस्त्वं चराचर ॥२४॥

करणं कारणं कर्ता त्वमेव परमेश्वरः ।

शङ्खचक्रगदापाणे भो समुद्धर माधव ॥२५॥

प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम् ।

त्वामेव भक्त्या सततं नमामि पुरुषोत्तमम् ॥२६॥

श्रीवत्साङ्कं जगद्वीजं श्यामलं कमलेक्षणम् ।

नमामि ते वपुर्देव कलिकल्पषनाशनम् ॥२७॥

लक्ष्मीधरमुदाराङ्गं दिव्यमालाविभूषितम् ।

चारुपृष्ठं महाबाहुं चारुभूषणभूषितम् ॥२८॥

पद्मनाभं विशालाक्षं पद्मपत्रनिभेक्षणम् ।

दीर्घतुङ्गमहाघ्राणं नीलजीमूतसंनिभम् ॥२९॥

दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम् ।

सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ॥३०॥

चारुबाहुं सुताम्रोष्ठं रत्नोज्ज्वलितकुण्डलम् ।

वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ॥३१॥

सुकुमारमजं नित्यं नीलकुञ्चितमूर्धजम् ।

उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ॥३२॥

हेमारविन्दवदनमिन्दिरायनमीश्वरम् ।

सर्वलोकविधातारं सर्वपापहरं हरिम् ॥३३॥

सर्वलक्षणसम्पन्नं सर्वसत्त्वमनोरमम् ।

विष्णुमच्युतमीशानमनन्तं पुरुषोत्तम् ॥३४॥

नतोऽस्मि मनसा नित्यं नारायणमनामयम् ।

वरदं कामदं कान्तमनन्तं सूनृतं शिवम् ॥३५॥

नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल ।

अस्मिन्नेकार्णवे घोरे वायुस्कम्भितचञ्चले ॥३६॥

अनन्तभोगशयने सहस्त्रफणशोभिते ।

विचित्रशयने रम्ये सेविते मन्दवायुना ॥३७॥

भुजपञ्जरसंसक्तकमलालयसेवितम् ।

इह त्वां मनसा सर्वमिदानीं दृष्टवानहम् ॥३८॥

इदानीं तु सुदुःखातों मायया तव मोहितः ।

एकोदके निरालम्बे नष्टस्थावरजङ्गमे ॥३९॥

शून्ये तमसि दुष्पारे दुःखपङ्के निरामये ।

शीतातपजरारोगशोकतृष्णादिभिः सदा ॥४०॥

पीडितोऽस्मि भृशं तात सुचिरं कालमच्युत ।

शोकमोहग्रहग्रस्तो विचरन् भवसागरे ॥४१॥

इहाद्य विधिना प्राप्तस्तव पादाब्जसंनिधौ ।

एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ॥४२॥

चिरभ्रमपरिश्रान्तस्त्वामद्य शरणं गतः ।

प्रसीद सुमहामाय विष्णो राजीवलोचन ॥४३॥

विश्वयोने विशालाक्ष विश्वात्मन् विश्वसम्भव ।

अनन्यशरणं प्राप्तमतोऽत्र कुलनन्दन ॥४४॥

त्राहि मां कृपया कृष्ण शरणागतमातुरम् ।

नमस्ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ॥४५॥

अञ्जनाभ हषीकेश मायामय नमोऽस्तु ते ।

मामुद्धर महाबाहो मग्ने संसारसागरे ॥४६॥

गह्वरे दुस्तरे दुःखक्लिष्टे क्लेशमहाग्रहैः ।

अनाथं कृपणं दीनं पतितं भवसागरे ।

मां समुद्धर गोविन्द वरदेश नमोऽस्तु ते ॥४७॥

नमस्त्रैलोक्यनाथाय हरये भूधराय च ।

देवदेव नमस्तेऽस्तु श्रीवल्लभ नमोऽस्तु ते ॥४८॥

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भवान् ।

संसारार्णवमग्नानां प्रसीद मधुसूदन ॥४९॥

त्वामेकमाद्यं पुरुषं पुराणं जगत्पतिं कारणमच्युतं प्रभुम् ।

जनार्दनं जन्मजरार्तिनाशनं सुरेश्वरं सुन्दरमिन्दिरापतिम् ॥५०॥

बृहद्भुजं श्यामलोमलं शुभं वराननं वारिजपत्रनेत्रम् ।

तरंगभङ्गायतकुन्तलं हरिं सुकान्तमीशं प्रणतोऽस्मि शाश्वतम् ॥५१॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्त्वदर्पितम् ।

तावेव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ॥५२॥

जन्मान्तरसहस्त्रेषु यन्मया पातकं कृतम् ।

तन्मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ॥५३॥

व्यास उवाच

इति स्तुतस्ततो विष्णुर्मार्कण्डेयेन धीमता ।

संतुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ॥५४॥

श्रीभगवानुवाच

प्रीतोऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन ।

वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ॥५५॥

मार्कण्डेय उवाच

त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा ।

यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ॥५६॥

स्तोत्रेणानेन देवेश यस्त्वां स्तोष्यति नित्यशः ।

स्वलोकवसतिं तस्य देहि देव जगत्पते ॥५७॥

दीर्घायुष्टवं तु यद्दतं त्वया मे तप्यतः पुरा ।

तत्सर्वं सफलं जातमिदानीं तव दर्शनात् ॥५८॥

वस्तुमिच्छामि देवेश तव पादाब्जमर्चयन् ।

अत्रैव भगवन् नित्यं जन्ममृत्युविवर्जितः ॥५९॥

श्रीभगवानुवाच

मय्यस्तु ते भृगुश्रेष्ठ भक्तिरव्यभीचारिणी ।

भक्त्या मुक्तिर्भवत्येव तव कालेन सत्तम ॥६०॥

यस्त्विदं पठते स्तोत्रं सायं प्रातस्तवेरितम् ।

मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ॥६१॥

यत्र यत्र भृगुश्रेष्ठ स्थितस्त्वं मां स्मरिष्यसि ।

तत्र तत्र समेष्यामि दान्तो भक्तवशोऽस्मि भोः ॥६२॥

व्यास उवाच

इत्युक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः ।

विरराम स सर्वत्र पश्यन् विष्णुं यतस्ततः ॥६३॥

इति ते कथितं विप्र चरितं तस्य धीमतः ।

मार्कण्डेयस्य च मुनेस्तेनैवोक्तं पुरा मम ॥६४॥

ये विष्णुभक्त्या चरितं पुराणं भृगोस्तु पौत स्य पठन्ति नित्यम् ।

ते मुक्तपापा नरसिंहलोके वसन्ति भक्तैरभिपूज्यमानाः ॥६५॥

इति श्रीनरसिंहपुराणे मार्कण्डेयचरितं नाम एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP