संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - दशाफलम्

मानसागरी - अध्याय ५ - दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्रादौ विंशोत्तरीदशान्तर्दशाफलान्तर्गतदशावाहनविचारः ।

स्वकीयजन्मनक्षत्राद्नणयेज्जन्मभावधि ।

नवभिस्तु हरेद्भागं शेषं तु शशिवाहनः ॥१॥

गर्दभो घोटको हस्ती महिषो जम्बुसिंहकौ ।

काको हंसौ मयूरश्च नवैते नरवाहनाः ॥२॥

दशाप्रवेशे नरवाहनश्च उत्पन्न भोगी जडतासमेतः ।

लज्जाविहीनो धनधान्यहीनः स्यान्मानवो वस्त्रविवर्जितश्च ॥३॥

चपलचञ्चलताबहुभक्षकः । प्रकटबुद्धिसघोषचमूपतिः ।

दृढतनुर्बहुकार्यकरो नरो तुरगयोर्यदि वाहनसंस्थितः ॥४॥

नानाकार्यकृते हि सौख्यजननो देवाधिपो वाहनः संतप्तो बहुमानता शुभगतिः सेनापतिः शोभनः ।

सर्वः सौख्यकरः सुभूषणधरः स्याच्चञ्चलो दुष्टता पाकोऽयं यदि वाहनो गजपतेर्नानाकलाकौशलः ॥५॥

महिषयोर्बलबद्धिविहीनता जयमलं प्रबलाग्निभयातुरम् । शकटयोः प्रबले बलसंयुतो महिषयोर्यदि वाहनता भवेत् ॥६॥

जम्बुके बहुतरैव चञ्चला व्याधिदुःखपरिपीडिताङ्गना । क्लेशता रिपुजनाच्च पीडिता धान्यनाशमतिसंक्षयो भवेत् ॥७॥

जम्बुकोत्पन्नभोगी च लाभभक्षस्तथैव च । श्वेतगश्वेतवस्त्रं च हानिः स्यात्क्रयविक्रयोः ॥८॥

दशाप्रवेशे यदि वाहनश्च सिंहो बलिष्ठो विविधैः प्रकारैः । उत्पन्नभोगी रिपुनाशकारी स्याद्वाहने केसरिणो विशेषः ॥९॥

काके वाहनसंस्थिते यदि दशा स्याच्चञ्चलो निर्भयो वत्सारो मलिनः कुवेषधरितो नीचैर्जनैः पूजितः ।

स्थाने राजभयं तथा रिपुभयं मानापमानं नराहुष्टार्तिः कलहं कुचेष्टितनरः स्त्रीद्वेषकारी भवेत् ॥१०॥

जनकलनिधिकेलिसमन्वितो द्विजपतेर्बहुजात्यसुखान्वितः । सदशनेमतिनां प्रबलायता सुगतिता चतुराननवाहनः ॥११॥

मयुरवाहनतो बहुलं सुखं धृति कलाकुशलो मखकेलिकृत् । मधुरवाक्ययुतो मधुरप्रियः सदशमे नरस्य समन्वितः ॥१२॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP