संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - जीवोपदशाफलम्

मानसागरी - अध्याय ५ - जीवोपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


यशोदयो महावृद्धिर्धनहेमसमागमः । सुखमिष्टान्नभोज्यं च गुरुश्चोपदशाङ्गतः ॥१॥

हयभूमिपशुप्राप्तिः सर्वत्र सुखमाप्नुयात् सुभोज्यं बहुधान्यानि जीविस्योपदशां शनिः ॥२॥

विद्यामौक्तिकशस्त्राणां लाभः सुत्दृद्भयागमः । अशनं स्नेहपक्कादि जीवस्योपदशां बुधः ॥३॥

बन्धूनां तस्करादीनां कलितो मृत्युतो भयम् । कुधान्यमशनं जीवे केतोरुपदशां गते ॥४॥

हेमवस्त्रधनप्राप्तिं क्षेमवृद्धिर्विभूषणः । भोजनं मधुरं क्षीरं जीवस्योपदशां सितः ॥५॥

मातृपितृधनं भुङ्क्ते राजपूज्यश्च जायते । भ्रममष्टादशप्राप्तिर्जीवस्योपदशां रवौ ॥६॥

दधिमधुघृतक्षीरमणिमुक्तेषु लाभदा । जीवस्योपदशां चन्द्रे कुक्षिपादप्रपीडनम् ॥७॥

शस्त्रशत्रुकृता पीडा गण्डमन्दाग्नयजीर्णता । कुधान्यभोजनं भौमो जीवस्योपदशां गतः ॥८॥

चाण्डालव्याधिशत्रुभ्यः पीडनं वमनं भयम् । कटुक्षारं च संभोज्यं जीवस्योपदशां तमः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP