संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - चन्द्रोपदशाफलम्

मानसागरी - अध्याय ५ - चन्द्रोपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


धनलाभो महासौख्यं स्त्रीलीलापुत्रसंपदः । वस्त्रान्नपानलाभश्चोपदशासु यशः शशी ॥१॥

वृद्धिर्धनागमो बुद्धिबन्धुस्वजनसौत्दृदः । रक्तवस्तुकृतो लाभश्चन्द्रस्योपदशां कुजः ॥२॥

राजमानो महासौख्यं भूतिकल्याणवर्द्धनम् । चन्द्रस्योपदशां प्राप्तो राहुः शत्रुभयावहः ॥३॥

धनधर्मौ महत्तेजो मित्रलाभः सुभोजनम् । सौख्यं च वस्त्रलाभं च चन्द्रस्योपगतो गुरुः ॥४॥

पुत्रबन्धुकृतोद्वेगयुक्तः स्वस्थानवर्जितः । चन्द्रस्योपगते सौरे तुषधान्यादिभोजनम् ॥५॥

शुक्ल वस्त्रस्त्रियां लाभो माङ्गल्यं पुत्रसम्पदः । ह्यभूलाभदश्चैव चन्द्रस्योपगतो बुधः ॥६॥

विरोधः सर्वधर्माणा जीवितं बहुसंशयम् । सर्पाम्बुविषजा भीतिः शिखी चोपदशां गतः ॥७॥

जलोदरादिरोगैस्तु रिपुचौरैर्धनक्षयः । अक्षीरं भोजनं रुक्षमिन्दोरुपगते सिते ॥८॥

विजयं धनसौख्यं च वस्त्रान्नपानलाभकृत् । चन्द्रस्योपदशां भानुः कुरुते नात्र संशयः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP