संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - बुधमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - बुधमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


दिव्याङ्गनावदनपङ्गजषट्पदस्य

लीलाविलासवरभोगसमन्वितस्य ।

नानाप्रकारविभबागमकोशवृद्धिः

क्षिप्रं पुनर्बुधदशाभिमतार्थसिद्धिम् ॥१॥

बुधमध्ये बुधफलम् ।

बुद्धिर्धर्मसमायोगो मित्रबन्धुसमागमः ।

प्राप्तिर्ज्ञानस्य विपुला देहपीडां प्रकोपनाम् ॥२॥

बुधमध्ये केतुफलम् ।

दुःखशोकाकुलं नित्यं शरीरे क्लेशसंयुतम् ।

भवत्यन्तर्दशायां हि केतुर्यदि बुधस्य च ॥३॥

बुधमध्ये शुक्रफलम् ।

गुरुवस्त्राणि लभ्यन्ते धनधर्मप्रियं तथा ।

वस्त्रालङ्करणैर्युक्तं बुधस्यान्तर्गतः सितः ॥४॥

बुधमध्ये सूर्यफलम् ।

स्वर्णादिकं भवेत्प्राप्तं यशः प्राप्नोति सर्वतः ।

जायास्वस्त्रीभवोद्वेगो बुधस्यान्तर्गते रवौ ॥५॥

बुधमध्ये चन्द्रफलम् ।

कुष्ठगण्डविकारैश्च क्षयरोगभगन्दरौ ।

गजादिवाहनैर्भीतिर्बुधस्यान्तर्गते विधौ ॥६॥

बुधमध्ये भौमफलम् ।

शिरोरोगगले रोगैर्नानाक्लेशविमर्दनम् ।

चौरभङ्गभयं चाथ बुधस्यान्तर्गते कुजे ॥७॥

बुधमध्ये राहुफलम् ।

अकस्माच्छत्रुनिर्घातमकस्मादर्थनाशनम् ।

संपर्कादग्निदाहं च राहोरन्तर्गते बुधे ॥८॥

बुधमध्ये गुरुफलम् ।

व्याधिशत्रुभयैर्मुक्तो ब्रह्मिष्ठो नृपवल्लभः ।

पूतात्मा धर्मकश्चैव बुधस्यान्तर्गते गुरौ ॥९॥

बुधमध्ये शनिफलम् ।

धर्मार्थभोगी गम्भीरः क्लीबो मित्रार्थलुब्धकः ।

सर्वकार्येष्वनुत्साहो बुधे सौरो यदानुगः ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP