संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - पाचकदशाफलम्

मानसागरी - अध्याय ५ - पाचकदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्र रविमध्ये रव्यादिपाचकफलम् ।

राजमानं सुखं चैव सम्मानं शत्रुनाशनम् । लभते सौख्यलाभं च रविमध्ये स्वयं रविः ॥१॥

रोगादिनाशं धनधान्यलाभं शत्रुक्षयं प्रीतिसुखोदयं च । सूर्यस्य चन्द्रान्तरसंधिपाके तत्रास्तभाद्वित्रिशुभं करोति ॥२॥

दिवाकरस्यान्तरगः कुजश्च लाभो भयं विक्रमहेमतामम् । सङ्ग्रामधुर्याजयवाहनानि प्रचण्डतां भूपसुखं करोति ॥३॥

देहे च कष्टं ज्वररोगदौस्थ्यं करोति शोकः क्षयशत्रुवैरम् । अर्थक्षयं रोगरुजाप्रवासं बुधो विपाके दिवसेश्वरस्य ॥४॥

पापादिरोगव्यसनादिमुक्तिधर्मों स्वयं ज्ञानसुखागमं च । सूर्यस्तु इज्यान्तरगो विपाके करोति लक्ष्मी धनवर्धनं च ॥५॥

दद्रादिरोगान् गलरोगदोषाञ्छूलं ज्वरं वा सुत्दृदः स्वहर्ता । शस्त्राद्भयं ( ? ) करस्यसंस्थामच्छ्रेयो दैत्यगुरुः करोति ॥६॥

कार्यार्थनाशं क्षितिपालभङ्गं देहो रुजापित्तसमुद्भवं च । विद्युद्भयं बुद्धिविनाशदैन्यं संध्या तु सौरेर्दिवसेश्वरस्य ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP