संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - उपदशाफलम्

मानसागरी - अध्याय ५ - उपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अथातः संप्रवक्ष्यामि ग्रहस्योपदशाफलम् ।

सौम्यक्रूरविभिन्नस्य दिनचर्यादिसंमतम् ॥१॥

आदौ रव्युपदशाफलम् ।

ज्वरः शिरोर्तिः पीडा च कलिरुद्वेगकारकः । विग्रहश्च विवादश्च सूर्ये स्वोपदशां गते ॥२॥

धननाशोदरे रोगं कुर्यात्पामां चतुष्पदात् । क्षीरं स्नेहं विना भुङ्के चन्द्रः स्वोपदशां गतः ॥३॥

राज्ञो भयं विकारश्चोपद्रवं रिपुविग्रहः । कुधान्यभोजनं सूर्ये भौमस्योपदशाफलम् ॥४॥

वातश्लेष्मं शत्रुभयं तीक्ष्णं क्षीरं कुभोजनम् । राजपीडा धने हानीराहावुपदशां गते ॥५॥

हेमाम्बरजयैर्वृद्धिः शत्रुनाशं महासुखम् । मिष्टान्नभोजनं सूर्ये शनेरुपदशा यदि ॥६॥

नृपपूजा धनं कीर्तिर्विद्याबन्धुसमागमः । भोजनं मधुरान्नस्य रवौ ज्ञोपदशांगते ॥७॥

दैन्यं परान्नभोजी स्याद्राजपीड महद्भयम् । शत्रुद्वेषोपदशायां चरेत्केतू रवेर्यदि ॥८॥

सुखवृद्धिसमानानि धनलाभो महोत्सवः । स्त्रीविलासः सदा सौख्यं रविः सितदशां गतः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP