संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - केतोरुपदशाफलम्

मानसागरी - अध्याय ५ - केतोरुपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


धननाशोपघातश्च विदेशे दुःखपूरितम् । सर्वत्र विफलं विन्द्यातकेतोरुपदशां शिखी ॥१॥

अर्थ चतुष्पादहानिर्नेत्ररोगः शिरोव्यथा । श्लेष्मभीत्यर्थहानिश्च केतोरुपदशां भृगुः ॥२॥

मित्रस्वजनजोद्वेगो ह्यल्पमृत्युः पराजयः । भोजनं क्रतुहीनं च केतोरुपदशां रवौः ॥३॥

अन्नपानादिनाशं च व्याधितस्य च विभ्रमः । मिष्टान्नभोजनप्राप्तिः केतोरुपदशां शशी ॥४॥

वह्नेः शत्रो रणे भीतिर्वातकष्टभयं नृपः । कुधान्यं मत्स्यमांसानि केतोरुपदशां कुजः ॥५॥

शत्रुतो हि भयं स्त्रीणां नीचेभ्योऽधिकपीडनम् । बुभुक्षितं पराधीनं केतोरुपदशां तमः ॥६॥

विवादं धनहानिश्च वस्त्रमंत्रादिनाशनम् । केतोरुपदशां जीवो रुक्षधान्यादिभोजनम् ॥७॥

वस्त्रान्नपानहानिश्च सुखमाश्रमपीडनम् । गोमहिष्यादिनाशं च केतोरुपदशां शनिः ॥८॥

शत्रुपीडा महोद्वगो विद्याबन्धुधनक्षयः । केतोरुपदशायां हि केतुः सौम्यस्य संशयः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP