संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - चन्द्रमहादशाफलम्

मानसागरी - अध्याय ५ - चन्द्रमहादशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


सम्यग्विभूतिवरवाहनछत्रयानं

क्षेमप्रतापबलवीर्यसुखानि तस्य ।

मिष्टान्नपानशयनासनभोजनानि

चन्द्रो ददाति धनकाञ्चनभूमिलाभम् ॥१॥

चन्द्रमध्ये चन्द्रान्तर्दशा ।

चन्द्रान्तः स्त्रीसुतं लाभं वस्त्राभरणसंयुतम् ।

स्वपक्षगैश्च कल्याणमात्मनिद्रारतिर्भवेत् ॥२॥

चन्द्रमध्ये भौमान्तर्दशा ।

अग्निपित्तकृता पीडा अग्निचोरपदच्युतिः ।

भवत्यन्तर्दशायां च चन्द्रे भौमो गतो भवेत् ॥३॥

चन्द्रमध्ये राहोरन्तर्दशाफलम् ।

रिपुरोगाग्निरुद्वेगं बन्धुनाशं धनक्षयम् ।

न किंचित्सुखमाप्नोति चन्द्रे राहुर्यदानुगः ॥४॥

चन्द्रमध्ये गुरोरन्तर्दशाफलम् ।

धर्माधर्माप्तिसौख्यानि वस्त्रालङ्करणैर्जयः ।

प्राप्नोत्यन्तर्दशायां हि चन्द्रस्यैव गुरुर्यदा ॥५॥

चन्द्रमध्ये शन्यन्तर्दशाफलम् ।

बन्धुद्वेगं शोकभयं हानिव्यसनदोषकम् ।

भवन्ति तत्र तन्देहाश्चन्द्रस्यान्तर्गते शनौ ॥६॥

चन्द्रमध्ये बुधान्तर्दशाफलम् ।

सर्वत्र लभते लाभं गजाश्वैर्गोधनादिकैः ।

भवत्यन्तर्दशायां हि चन्द्रस्यान्तर्गते बुधे ॥७॥

चन्द्रमध्ये केस्वन्तर्दशाफलम्

चापल्यं चोद्वेगहानिर्बन्धुहानिर्धनक्षयम् ।

जायतेऽन्तर्गते केतौ चन्द्रस्यैव यदानुगः ॥८॥

चन्द्रमध्ये शुक्रान्तर्दशाफलम् ।

बहुस्त्रीसङ्गमं चाथ कन्यकाजन्म एव च ।

मुक्ताहारमणिप्राप्तिश्चन्द स्यान्तर्गते सिते ॥९॥

चन्द्रमध्ये सूर्यान्तर्दशाफलम् ।

जनप्रभावसौख्यं च व्याधिनाशं रिपुक्षयम् ।

ऐश्वर्य सौख्यमतुलं चन्द्रमर्कोऽनुगो यदि ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP