संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शनिमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - शनिमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मिथ्यापवादवधबन्धनिराश्रयं च

मित्रातिवैरधनधान्यकलत्रशोकम् ।

आशानिराशकृतनिष्फलसर्वशून्यं

कुर्याच्छनैश्चरदशासततं नराणाम् ॥१॥

शनिमध्ये शनिफलम् ।

शनैश्चराद्देहपीडा पुत्रदारैश्च विग्रहः ।

स्त्रीकृते बुद्धिनाशश्च विदेशगमनं भवेत् ॥२॥

शनिमध्ये बुधफलम् ।

सौभाग्यं सौख्यविजयं बोधसंस्थानमानतः ।

सुत्दृद्वित्तप्रदं सौख्यं सौरस्यान्तर्गते बुधे ॥३॥

शनिमध्ये केतुफलम् ।

रक्तपित्तकृता पीडा वित्तवित्तानुसङ्ग्रहः ।

दुःस्वप्नं बन्धनं चैव केतावन्तर्गते शनेः ॥४॥

शनिमध्ये शुक्रफलम् ।

सुत्दृद्वन्धुवशीयुक्तं भार्यावित्तं जयान्वितम् ।

सुखसौभाग्यवात्सल्यं सौरस्यान्तर्गते सिते ॥५॥

शनिमध्ये रविफलम् ।

पुत्रदारधनैर्नाशं करोति समयं महत् ।

सौरस्यान्तर्गते भानौ जीवितस्यापि संशयः ॥६॥

शनिमध्ये चन्द्रफलम् ।

मरणं स्त्रीवियोगश्च बन्धूद्वेगोऽसुखं श्रृणु ।

क्रुद्धमारुरुजो रोगं विधावन्तर्गते शनेः ॥७॥

शनिमध्ये भौमफलम् ।

देशभ्रंशं तथा दुःखं कुरुते व्याधिभ्रंशता ।

अन्तर्दशायां सौरस्य कुजः प्राणमहद्भयम् ॥८॥

शनिमध्ये राहुफलम् ।

श्वभ्रावाताङ्गभेदश्च ज्वरातीसारपीडनम् ।

शत्रुभङ्गोऽर्थनाशश्च राहोरन्तर्गते शनौ ॥९॥

शनिमध्ये गुरुफलम् ।

देवार्चनं द्विजः सौख्यं बहुभृत्यगुणैर्युतम् ।

स्थानप्राप्तिं गुरुः कुर्यात्सौरस्यान्तर्गता दशा ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP